________________
पुरुषस्य सर्वगतत्वनिरासः ]
द्वादशारं नयचक्रम्
२५१
तथा तथेतरेतरात्मसु अभावादवधारणभेदाद् भिन्नभिन्नार्थत्वान्ननु तदेव सर्वा सर्वगतत्वमिति लोकवदेव तत्त्वापत्तिः ।
अथाविकल्पशब्दार्थत्वादलक्षण एव न त्वज्ञाततत्त्वत्वात् कथं तर्हि चतुरवस्थावर्णनमनेकात्मक सर्वगतत्व भावनं च ? यद्यस्यैकैका प्रत्येकमवस्था न भवति ततोऽसत्त्वात् कुतोऽस्य तदेकत्वापत्त्यात्मिका अविकल्परूपता ? न हि पृथगवृत्ते
तथा तासामितरेतरात्मसु अभाव:, अवधारणभेदात् । ' तथा तथा' इति वचनादुत्तरोत्तरभेदानामपीतरेतरात्मसु नास्ति भाव:, तद्यथा - रूपावस्थास्वात्मनि रूपावस्थैव लक्षणम् घटस्वात्मनि तु रूपावस्था लक्षणमेव रसाद्यवस्थानामपि तल्लक्षणत्वात्यागात्, तथा पृथिवीलोष्टादीनामितरेतरात्मसु अभावाल्लोष्टावस्थास्वात्मावधारणे agratथैव लोष्टावस्थास्वात्मा, पृथ्वीस्वात्मावधारणे तु सा लक्षणमेव, न तु सैव वेत्रादीनामप्यत्यागादिति सर्वत्रस्त्यवधारणभेदः । ततोऽवधारणभेदात् त्वदुक्तादेव तथा तथेतरेतरात्मसु अभावादवधारणभेदा- 10 दत्यन्तं भिन्नार्थत्वम्, अतो भिन्नभिन्नार्थत्वात् सामान्याभाव:, सामान्याभावाद् विविक्तानेकभेदावस्थामात्रत्वात् सर्वमसर्वगतम् 'घटो घट एव, रूपं रूपमेव, रसो रस एव, पटः पट एव' इत्यादि प्राप्तम् । ततो ननु तदेव दर्शनमेतदध्यापन्नं यदुक्तं 'येथालोक ग्राहमेव वस्तु, शास्त्रेष्वनर्थको विवेकयत्नः' इत्यादि स्वपरविषयसामान्यविशेषनिराकरणेन लौकिकमेव यथाद्रव्यक्षेत्रकालभावभवनमेव च वस्त्विति तदेव तत्त्वम् इति लोकवदेव तत्त्वापत्तिरिति ।
-
20
अथाविकल्पशब्दार्थत्वा [द]लक्षण एव, न त्वज्ञाततत्त्वत्वात् । तस्य निर्विकल्पस्याविभागस्य संसर्गभेदपरिणामशून्यस्य मेघस्तनितादिकल्पशब्द गोचरातीतस्य मयूरविरुतवत् सङ्केताद् व्यवहारानुपातिभिर्वा शब्दैरनुपलक्ष्यस्य गोर्विषाणादिवत् स्वांशकल्पनामात्रभिन्नशब्दार्थाभिमानविकल्पस्य - - न तु लौकिकवदज्ञात- १८२-१ सामान्यविशेषव्यवस्थाविचाररूपस्य – तत्त्वस्य कुतो वा लक्षणम् ? कुतोऽवस्था ? इति । एतच्चायुक्तं चतुरस्थावर्णनात्, यदि ताश्चतस्रोऽप्यवस्था असत्या एव तद्वर्णनं खपुष्पसौरभवर्णनवत् कथमुपपद्यते ? इति । किञ्चान्यत्, सर्वगतत्वभावनाऽभावप्रसङ्गात्, तद्दर्शयन्नाह - अनेकात्मक सर्वगतत्वभावनं च 'कथम्' इति वर्तते । सर्वं गतं सर्वगतम्, सृ गतौ [ पा० धा० ९३५, १०९५ ], 'सर्वम्' इत्ययमेव सर्वशब्दो गमनार्थदेशान्तरप्राप्तिलक्षणां क्रियां भिन्नविकल्पार्थविषयामाह 'यदन्यच्च अन्यच्च तदशेषं सर्वम्' इति, ततश्च तत् तदशेषं गतं सर्वगतम्, तद्भावः सर्वगतत्वमर्थानेकात्मकत्वाविनाभावि, अनेकात्मकं हि सर्वम्, भिन्नानेकविकल्पकृत्स्नागतं सर्वगतमित्येषा भावना निर्विकल्पैकात्मकत्वे न युज्यत इति ।
किञ्चान्यत्, निर्विकत्वाभावप्रसङ्गात्, यद्यस्यैकैकेत्यादि यावद् मेचकात्मके भवतः । यदि अस्य पुरुषस्य एकैका पृथक् पृथगेकामेकां प्रति प्रत्येकं समाप्ता सुप्ताद्यवस्था न भवति ततश्च एकैकस्या अभावात् ता न सन्त्येवेति कृत्वा तासामसत्त्वात् कुतोऽस्य पुरुषतत्त्वस्य तासामेव भिन्नानामेकत्वाप१ दृश्यतां पृ० २०१-२ ॥ २ च ज्ञानादी य० ॥ ३ त्रा स्वावधारण प्र० ॥ ४ दृश्यतां पृ० ११ पं० ३ ॥ ५ तत्वज्ञाततत्व' भा० । तत्वज्ञानतत्व य० ॥ ६ दृश्यतां पृ० २४३ पं० ११-२४ ॥ ७ भावक य० । भावकं भा० ॥ ८ यद्यन्यच्च प्र० ॥
९ल्पकत्वा य० ॥
Jain Education International
15
For Private & Personal Use Only
25
www.jainelibrary.org