________________
२५०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् । [तृतीये विध्युभयारे खात्मनि विनिद्रावस्थैव लक्षणम् , पुरुषे तु लक्षणमेव अन्यासामप्यत्यागात्, स ह्यनेकरूपो मेचकवत् । न, उक्तवदवधारणभेदस्यान्याय्यत्वात् प्रतिज्ञातव्याघाताद् घटरूपादित्ववत्, पुरुषत्वं प्रागुक्तमवस्थानाम्, अधुना तु पृथक्वात्मानस्ता उच्यन्त इति तत्त्वं पुरुषस्य रूपादिघटत्ववत् । यदा च तासामेव तत्त्वं ततस्तासां
5 विनिद्रावस्थैव लक्षणं नान्या काचिदवस्थेति स्वात्मनो लक्षणत्वमवस्थाया नियतम् , सा त्वन्यावस्थात्मनोऽपि लक्षणत्वान्न नियतेति न विनिद्रावस्थायास्तावदभावोऽस्ति । पुरुषस्याप्यभावो नास्ति, पुरुषे तु लक्षणमेवेत्यवधारणाद् विनिद्रावस्था लक्षणमेव पुरुषस्य नालक्षणमिति पुरुषो लक्ष्यत्वेनानियतोऽन्याभिरप्यवस्थाभिलक्ष्यत्वादन्यासामप्यत्यागाल्लक्षणत्वेन पुरुषस्येति भेदेनावधारणम् । यस्मात् स ह्यनेकरूपो मेचकवत् पुरुषः, वर्णसङ्करो हि मेचकः, स नीलोऽपि पीतोऽपि शेषवर्णोऽपि तथा पुरुषो विनिद्रावस्थालक्षणोऽपि 10 सुप्ताद्यन्यतमावस्थालक्षणोऽपीति ।
अत्रोच्यते-न, उक्तवदित्यादि । नैतदुपपन्नम्, उक्तवदवधारणभेदस्यान्याय्यत्वात् , उक्तेन तुल्यमुक्तवत् तेनैव प्रागुक्तप्रकारेण तेनैव न्यायेनावधारणभेदस्यावसर एव नास्ति, न्यायादनपेतं न्याय्यम् ,
न न्याय्यमन्याय्यम् । कुतः ? प्रतिज्ञातव्याघातात् , यद्यवधारणं भिन्नार्थविषयमाश्रीयते 'चैतन्यात्मकैक१८१-१ पुरुषमयमिदं सर्वम्' इति प्रतिज्ञा हीयते, अथैकपुरुषमयत्वप्रतिज्ञा परिपाल्यते भिन्नार्थविषयाधारावधारणोप15 पंत्तिर्विशीर्यते, कथम् ? घटरूपादित्ववत् , यथा 'घट एव रूपादयः' इत्येतस्मिन् पक्षे न रूपादयो नाम
केचित् सन्ति घटादर्थान्तरभूताः, तत्र 'रूपस्वात्मनो रूपावस्थैव लक्षणं न रसाद्यवस्थापि, घटात्मनस्तु रूपावस्था लक्षणमेव इतरासामत्यागात्' इति कोऽर्थः स्याद् रूपाद्यभावात् ? तथेहापि विनिद्रैकावस्थालक्षणपुरुषव्यतिरिक्तार्थाभावादितरासां सुप्ताद्यवस्थानामभावादेव कोऽवधारणार्थावकाशः ? इत्यवधारणाभावः प्रतिज्ञाव्याघातो वेत्येतदुभयं प्रदर्शयति-पुरुषत्वं प्रागुक्तमवस्थानाम् अधुना तु पृथक्स्वात्मानस्ता 20 उच्यन्तेऽवस्था इति प्रागुक्तवदवधारणभेदस्यान्याय्यत्वं प्रतिज्ञाव्याघातश्चेति । इति तत्त्वमिति अस्मा
द्धेतोः प्रतिज्ञाव्याघातादवधारणभेदान्याय्यत्वाच्चोभयथापीष्टविपरीतं तत्त्वमवस्थात्वं पुरुषस्य 'अवस्था एव पुरुषः, न पुरुष एवावस्थाः' इत्येतत् प्राप्तं रूपादिघटत्ववत् , यथा 'रूपादय एव घटः' इत्येतस्मिन् पक्षे 'न घटो नाम कश्चित्' इत्ययमर्थः, तत्र 'रूपमेव, न रसः' इत्याद्यवधारणमुपपद्यते भिन्नार्थविषयत्वात् तथा
यद्यवस्था एव पुरुष इत्युच्येत युज्येतावधारणं पुरुषाभावेऽवस्थानामेव भिन्नानामितरावस्थानिवृत्त्यर्थमेका25 वस्थावधारणम् , तत् तु न युज्यते चैतन्यात्मकैकपुरुषमयत्वप्रतिज्ञाव्याघांतादिति ।
किञ्चान्यत् , यदा च तासामेव तत्त्वमित्यादि यावल्लोकवदेव तत्त्वापत्तिरिति । यदा च तासां १८१-२ भावस्तत्त्वम् , "भाव एव ताः, ताभिरेव भूयते, भेदेनोवधार्यमाणत्वाद् विनिद्रावस्थैव विनिद्रावस्थाांत्मनि
लक्षणम् , पुरुषे तु सा लक्षणमेव, न तु सैव लक्षणं पुरुषस्यान्यासामप्यवस्थानां तल्लक्षणत्वात्यागात् । तथा
१ त्तिर्विशीर्य कथम् प्र०॥ २ प्रतिव्याघातो प्र०॥ ३ °घातादि प्र०॥ ४ ताव एव प्र०॥ ५°नवधा प्र० ॥ ६ स्वात्मेति प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org