________________
पुरुषाद्वैतवादनिरासः] द्वादशारं नयचक्रम्
२४९ अथ विनिद्रावस्थालक्षणोऽपि पुरुषः सर्वत्वान्न विनिद्रावस्थामात्र एव, विनिद्रावस्थापि विनिद्रावस्थात्मिका सती सर्वत्वान्न विनिद्रावस्थामात्रैव स्याद् विनिद्रावस्थालक्षणत्वात् पुरुषस्वात्मवत् । ततश्च प्रत्यवस्थं तस्या एव सवोत्मकत्वात् तृणाद्यपि सर्वगतमिति किं पुरुषकत्वप्रकल्पनया ? अतल्लक्षणत्वाद्वा विनिद्रावस्थाया अभावः, ततश्च तत्तत्त्वचतुरवस्थसवात्मकपुरुषाभावः। - अंथ विनिद्रालक्षणविपरीतोऽपि पुरुषः पुरुष एवावधारणभेदात् , विनिद्रावस्था
त्वम् , तस्माजाग्रदाद्यवस्थानात्मकत्वादू विनिद्रावस्थामात्रत्वात् सुप्तादिद्दष्टशेषावस्थासु अवृत्तेरसर्वगतत्वमिति चाव्यापित्वदोषः पुरुषकारणवादस्य ।।
अथ विनिद्रेत्यादि । मा भूत् पुरुषासर्वगतत्वदोष इति विनिद्रावस्थालक्षणोऽपि सन् पुरुषः सर्वत्वान्न विनिद्रावस्थामात्र एव, किं तर्हि ? सुप्तादिवृत्तिरपीतीष्यते, ततो विनिद्रावस्थापि विनिद्रा-10 वस्थात्मिका सती सर्वत्वादेव न विनिद्रावस्थामात्रैव स्यात्, सुप्ताद्यवस्थापि स्यादित्यर्थः । हेतुः १८०.१ विनिद्रावस्थालक्षणत्वात् पुरुषस्वात्मवत् , यथा पुरुषो विनिद्रावस्थालक्षणत्वात् सर्वगत इष्यते तथा विनिद्रावस्थाऽऽत्मस्थैव स्यात् सर्वगता स्यात्, विनिद्रावस्थालक्षणा हि सापीति । ततश्चेत्यादि, एवं च सत्यन्योऽपि दोषः, अवस्थामवस्थां प्रति प्रत्यवस्थं विनिद्रावस्थावृत्तेः सुप्तसुषुप्तजाग्रदवस्थास्वपि तस्या एव विनिद्रावस्थाया एवाविशेषेण सर्वगतत्वात् सुषुप्तावस्थापि तृणादि सर्वगतं स्यात् सर्वात्मकत्वाद् विनिद्राव- 15 स्थावत् , सर्वात्मकत्वं विनिद्रावस्थालक्षणत्वात् पुरुषवदित्युक्तम् । तस्मात् तृणाद्यपि सर्वगतमिति किं पुरुषैकत्वप्रकल्पनया? कः पुरुषवादविशेषाभिमानः ? 'तृणमेवेदं सर्वं यद् भूतं यच्च भाव्यम् , यस्मात् परं नापरमस्ति किञ्चित्' इत्यादि 'तेनेदं पूर्ण तृणेन सर्वम्' इति च कस्मान्न पठ्यते ? इति ।
किञ्चान्यत् , अतल्लक्षणत्वाद्वेत्यादि । लक्षणं विशेष्य अर्थान्तरादवच्छिद्य स्वरूपेऽवस्थापकं नीलोत्पलवत्, तत् पुनः स्वात्मन्य स्थितत्वान्नास्ति लक्षणं प्रत्यवस्थं सर्वात्मसु वृत्तत्वात् । ततोऽतल्लक्षणत्वाद्वा 20 विनिद्रावस्थाया अभावः स्यात् स्वात्मन्यस्थितत्वात् खपुष्पवत् । ततश्च तत्तत्त्वे, तासां तत्त्वं चतसृणामवस्थानां सैव, तत्तत्त्वे चतुरवस्थाऽभावः, ता एव च सर्वम् , तदभावात् सर्वाभावः, सर्वाभावात् तदात्मकस्य सर्वात्मकस्य पुरुषस्याप्यभाव इत्यत आह - ततश्च तत्तत्त्वचतुरवस्थसर्वात्मकपुरुषाभावः, चैतन्यमेव हि पुरुषस्यावस्थानां च लक्षणम् , तदभावे पुरुषस्यावस्थानां चाभावे किमवशिष्यते
अथ विनिद्रालक्षणेत्यादि । अथ मतं भवतः - विनिद्रावस्थापुरुषाभावदोषयोः परिहारे सर्वदोष-25 परिहारः, स चावधारणवैपरीत्येनेति, तद्यथा-पुरुषस्तु पुरुष एव *विनिद्रावस्थालक्षणविपरीतोऽपि, किं कारणम् ? अवधारणे भेदात् । कथमवधारणभेदः ? उच्यते - विनिद्रावस्थास्वात्मनि अवधार्यमाणे*
१ दृश्यता पृ० २०१-१॥ २ दृश्यतां पृ. २०१-१॥ ३ दृष्टमेषावस्थास्ववृत्तेरसर्वगतत्वमिति प्र० ॥ ४°षः श्वासर्व वि० विना । षश्चासर्व वि० ॥ ५रपीष्यते भा०॥ ६ न्यवस्थि प्र० । अत्र स्वात्मन्येवास्थितत्वा इत्यपि पाठः स्यात् ॥ ७स्वात्मन्यवस्थितत्वात् भा० । दृश्यतां टि०६॥ ८°स्थासर्वा भा० ॥ ९ * * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥१० (अवधारणभेदात् ?)॥ ११ अवधार्यमाण भा०॥
नय० ३२
-
१८०-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org