________________
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ तृतीये विध्युभयारे
नन्वयमेकावस्थामात्रस्वतत्त्व एव व्यवस्थापितः, चैतन्यानतिवृत्तिवर्णनात् । तच्च विनिद्रावस्थातोऽनन्यदिति विनिद्रावस्थालक्षण एव पुरुष आत्यन्तिकनिद्राविगमरूपनिरूप्यत्वाद् विनिद्रावस्थास्वात्मवत् । न ह्यसावितरात्मिका, स्ववृत्तित्यागापत्तेः । तन्मात्रत्वे तु पुरुषस्यापि तद्वजाग्रदाद्यवस्थानात्मकत्वादसर्वगतत्वम् । 5 प्रयोगः - ऊर्ध्वमधस्तिर्यक् क्वचित् तत्त्वैक एव व्यवस्थितः पुरुष इति प्रतिज्ञा, अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वाद् वृक्षवदिति, यथोक्तम् -
यस्मात् परं नापरमस्ति किञ्चिद् यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ॥ [ श्वेताश्व० ३।९ ] इति । यस्मादन्यत् परं नौस्त्यनन्यदद्वैतमेवेत्यर्थः । अथवा यस्मात् परं प्रधानं प्रकृष्टम् अपरमप्रकृष्टमन्यद्वा 10 नास्ति ऊर्ध्वाधस्तिर्थकूपरापैरविभागाभावाद्विभागात्मना तस्यैव व्यवस्थानात् । नाणीयो न ज्यायोऽस्ति किञ्चिदिति सूक्ष्मस्थूलविभागाभावात् तद्रूप्येणाविभक्तस्यापि तस्यैवावस्थानादिति । शेषं गतार्थम् ।
अत्रोच्यते - नन्वयमित्यादि । ननु त्वयायं पुरुषोऽवस्थात्मकत्वमनतिक्रामन्नेकावस्थामात्र स्वतत्त्व एव व्यवस्थापितश्चतुरवस्था स्वरूपोपवर्णनद्वारेणैव तन्निरूपणादवस्थास्वात्मक एवासाविति, तत्रापि च विशेषेण एकावस्थामात्रस्वतत्त्वतुरीयावस्थातत्त्व इत्यर्थः । तत् कुत इति चेत्, चैतन्यानतिवृत्ति15 वर्णनात्, 'सर्वत्र ज्ञानमयोऽसौ पुरुषः, इति प्रतिज्ञाय तद्वयाप्तिप्रदर्शनार्थं 'चैतन्यमेव वृक्षतृणकुड्यपुरुषादि, सुप्तत्वात् सुषुप्तत्वाज्जागरितृत्वात्, सुप्तादिपुरुषवत्' इति वर्णितं चैतन्यमेव । तच्च विनिद्रावस्थातोऽनन्यत्, तच्च चैतन्यं विनिद्रावस्थैव, यथोक्तम् -
२४८
पुरुषस्य न केवलोदयः पशवश्चाप्यनिवृत्तकेवलाः ।
१७९-२
न च सत्यपि केवले प्रभुस्तव चिन्त्येयमचिन्त्यवद् गतिः ॥ [ सिद्ध० द्वा० ४।२२ ] इति । 20 इतिशब्दो हेत्वर्थे, अस्माद्धेतोर्विनिद्रावस्थालक्षण एव पुरुषः, एतदेवास्य लक्षणम्, उपयोगो लक्षणम् [तत्त्वार्थ० २।८] इति वचनात् । एतत् प्रतिज्ञामात्रम् । अत्र हेतुरुच्यते - आत्यन्तिकनिद्राविगमरूपनिरूप्यत्वात्, सर्वत्र सर्वदा वान्तमतीतोऽत्यन्तः, तत्र भव आत्यन्तिको निद्राविगमः, स एव रूपं तत्त्वम्, तेन तत्त्वेन निरूप्यत्वात्, यथा निरूपितं पुरुषवादिनैव सर्वं सर्वत्र सदा सर्वथा चेतनात्मकमेवेति सिद्धो हेतुः । को दृष्टान्तः ? विनिद्रावस्थास्वात्मवत् यथा विनिद्रावस्थां चतुर्थी शुद्धचैतन्या25 त्मानं नातिवर्तते प्रोक्तरूपेण निरूप्यत्वात् पुरुषस्तथा शेषावस्थास्वपि तद्धर्मतानतिवृत्त्यैवेति एवमेषा विनिद्रावस्थैव सर्वत्रापादिता । न ह्यसावितरात्मिका, यथा सुप्ताद्यवस्थास्तुरीयावस्थैव न तथा सा तदात्मिका । कस्मात् ? स्ववृत्तित्यागापत्तेः, यदि सा विनिद्रावस्था सुप्ताद्यवस्थापि स्यात् ततस्तया " विशुद्धावस्था स्ववृत्तिस्त्यक्ता स्यात्, न त्वस्ति स्ववृत्तित्यागोऽवस्था सङ्करस्वरूपनिर्णयाभावादिदोषात् । अतः सा तन्मात्रैव, तस्याश्च तन्मात्रत्वे तु पुरुषस्यापि तदवस्थामात्रत्वमतो विनिद्रावस्थामात्रत्वम्, तद्वज्जाप्रदाद्यवस्थानात्मक
"
१ तत्वैक एव भा० । तत्वैक एक एव य० ॥ २ नास्त्यनन्यद्वैत भा० । 'नास्त्यन्यत् वैत ं य० ॥ ३ परविभागाभावादिग्विभागात्मना य० । परविभागात्मना भा० ॥ ५ वर्तनात् प्र० ॥ ९ चतुर्थ प्र० ॥
४ तद्रूपेणा भा० ॥ ६ वृक्षानृशकुट्य प्र० ॥ ७ दृश्यतां पृ० १८३, १८४ ॥ ८ दृश्यतां पृ० २०१-१॥ १० तद्धर्मतामनिवृत्त्यैवेति य० । तद्धर्मस्यैवेति भा० ॥ ११ विशुद्धा स्ववृत्ति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org