________________
पुरुषादिवाददूषणम्] द्वादशारं नयचक्रम्
२४७ समुदायमात्रवाद एवायमन्यः, तुरीयत्वप्रतिपादनार्थाभ्युपगतमुक्तिक्रमवत्तु अयुगपदवस्थावृत्तेः क्षणिकवादः वासोवत्, चतुर्ज्ञानमात्रत्वात् कल्पनाज्ञानमात्रसत्यं न किञ्चित् तदाभासज्ञानबहिर्भूतं स्वप्नवदिति विज्ञानव्यतिरिक्तार्थशून्यवादः।।
अचिन्त्यमेवेदं चिन्त्यते । ऊर्ध्वमधस्तिर्यक् क्वचित् तत्त्वैक एव व्यवस्थितः पुरुषः, अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वात्, वृक्षवत् ।
पन्नम् । पुरुषादि इति सामान्येनोपक्रम्य पुरुषो नाम इति पुरुषस्यैवाभाववचनं विधिविधिनयविकल्पानां पुरुषस्य प्रथमत्वात् तदूषणेनातिदेक्ष्यमाणत्वात् । पुरुषवादे प्रस्तुते कथं पुरुष एवासन्नित्यापाद्यत इति चेत्, उच्यते – यस्मात् समुदयिमात्रसमुदायाभ्युपगमाद् रूपादिसमुदायवत् समुदायमात्रवाद ऐवायमन्यः, स एवायं बौद्धपरिकल्पितरूप-वेदना-विज्ञान-संस्कार-संज्ञास्कन्धसमुदायः पुरुषोऽङ्गुलिमुष्टिवत् बलाकापतिवत् अक्षोद्धिचक्रपञ्जरॊणीषाक्षपरयुगसमिलादिरथवदिति समुदयवाद ईषन्मषीम्रक्षितकुक्कुटवत् 10 पुरुषप्रत्याख्यानफलोऽन्यवदाभाति सुप्तसुषुप्तजाग्रत्तुरीयावस्थासंज्ञाभेदात् । युगपद्भाविरूपादिगुणसमुदायवादतुल्यो युगपदवस्थचतुरवस्थासमुदयवाद इति एष देशभिन्नरूपादिसमुदयवादतुल्यः । नायं देशभिन्नरूपादि-१७८-२ समुदयवादतुल्य एव, किं तर्हि ? कालभेदभिन्नायुगपद्भाविसततसंवृत्तजनननिधननामरूपवादतुल्यः क्षणिकवादोऽपि, यस्मात् तुरीयत्वप्रतिपादनार्थीभ्युपगतमुक्तिक्रमवत्त्वयुगपदवस्थावृत्तेः क्षणिकवाद इति, सुषुप्तसुप्तजाग्रत्परमविनिद्रावस्थाविशुद्धिक्रमान्यथावृत्त्यभ्युपगमादवस्थाक्षयोऽन्यथात्वम् , अन्ते च क्षयदर्शना-15 दादौ क्षयोऽनुमेयोऽवस्थानामिति क्षणिकवादः । को दृष्टान्तः ? वासोवत्, यथा वस्त्रं क्षणे क्षणे जीर्यजीर्यदन्ते विशीर्यते तथावस्था अपि । न केवलं समुदयक्षणिकवादावेव, किं तर्हि ? शून्यवादोऽपि, तद्यथा- चतुर्णा(ज्ञा?)नेत्यादि, यथा पुरुषवादिना चतस्रोऽवस्थाः पृथक् परिगृह्य तास्वपि ज्ञानमेव सुप्तत्वात् सुप्तपुरुषवत् सुषुप्तत्वाद् मदिरामत्तवदित्यादिना प्रतिपादितम् , तथा तथा रूपाद्यमूर्तमूर्त्यापत्त्या त्वयैव 'रूपणाद् रूपम्' इति च ज्ञानात्मना चैतन्यस्वरूपादनपेता रूपरसादिघटादिसृष्टिश्चानेकधोपपा-20 दिता, सा च कल्पनाज्ञानम् , तन्मात्रमेव सत्यम् , न रूपादि किञ्चित् तदाभासज्ञानबहिर्भूतं स्वप्नवत् , यथा स्वप्ने सिंहाद्याभासज्ञानमात्रम् न सिंहादिः कश्चित् तद्वहिर्भूतस्तथा जाग्रद्विज्ञानमपि ज्ञानमात्रमेव प्रामारामस्त्रीपुरुषादिरूपाद्याकारज्ञानमात्रं तद्वयतिरिक्तार्थशून्यस्वप्नविज्ञानवद्वेत्येतदापन्नम् । अतः कल्पनाज्ञानमात्रसत्यमिति विज्ञानव्यतिरिक्तार्थशून्यवादः, विज्ञानमात्रवादस्यापि ग्राह्यग्राहकविकल्पातीतनिर्विकल्पत्वाश्रयस्य शून्यत्वापत्तेः।
पुरुषवाद्याह - अचिन्त्यमेवेदं चिन्त्यत इत्यादि । मद्वचनापरिज्ञानादसम्बद्धं दूषणम् , मया हि 'पुरुष एवेदम्' इत्यवधार्योक्तम् , नोक्तम् 'इदमेव पुरुषः' इति प्रत्यक्षाः सुप्ताद्यवस्था उद्दिश्येति । अत्र,...
१७९-१ १°समुदायवत् य० प्रतिषु नास्ति ॥ २ एव एवायमन्यः प्र०॥ ३°दाय पु प्र० ॥ ४ णीयाक्ष भा० । °णीयोक्ष य० । दृश्यतां पृ० ७६ टि० ९॥ ५ वस्यदि(वस्थायि?)चतु भा० ॥ ६ तुल्य क्षप्र० ॥ ७ अन्ते क्षय य० ॥ ८क्षयोनुमयावस्था प्र०॥ ९ तथा तथा तथा भा०॥ १० कश्चिक्तद्वहि भा० । कश्चिद्धहि य० ॥ ११ (शून्यं ?) ॥ १२ वास्यापि प्र० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org