SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ अर्हम् अथ तृतीयो विध्युभयारः। अथ किं भवता पुरुषादिवादेषु प्रतिखं तथा तथा या एता अवस्था उक्ताः पुरुषादि तत्त्वं तल्लक्षणम् , उत पुरुषादिलक्षणास्ताः ? 5 यद्यवस्थावात्मैव पुरुषादि, न पुरुषाद्यात्मा अवस्थाः, ततः पुरुषो नाम न कश्चिञ्चतुरवस्थाव्यतिरिक्तः, समुदयिमानसमुदायाभ्युपगमाद् रूपादिसमुदायवत् कमलदलविपुलनयना कमलमुखी कमलगर्भसमगौरी । कमले स्थिता भगवती ददातु श्रुतदेवता सिद्धिम् ॥ इदानीं विध्युभयारावसरः । यद्ययं विधिविधिनयारोक्तो भावो निर्दोषः स्यादरान्तरारम्भोऽनर्थकः 10 स्यात्, स तु सदोष एवेति प्राप्तावसरं तद्दोषमुक्त्वोत्तरत्र विध्युभयारं निर्दिदिक्षुः प्राच्यदोषाभिधानार्थमेव तावदाह-अथ किं भवता इत्यादि । अथेत्यधिकारोपन्यासे, अनन्तरोक्तपुरुषादिवाददूषणाधिकारोपन्यासार्थोऽथशब्दः । किंशब्दः प्रश्ने, सामान्येन पुरुष-नियति-काल-स्वभाव-भावेषु अनन्तरोक्तेषु प्रतिस्वमात्मनो प्राहे तथा तथा तेन तेन प्रकारेण पुरुषः सुप्तादिचतुरवस्थः, नियतिरेव पूर्वपरादिक्रियाऽक्रियादिनियतावस्थारूपा, काल एव क्रमयोगपद्यभूतभवद्भाविव्यवस्थातत्त्वः, स्वभाव एवात्मप्रविभागमात्रāतिविविक्त15 भवनभेदतत्त्वः, भाव एव स्वत्वास्वत्वाद्यविद्याविकल्पविनिर्मुक्तसत्तामात्रव्याप्यनञ्जनशब्दार्थज्ञानाद्यवस्थाविशेष जगत्तत्त्व इति या एताः प्रतिस्वमशेषा व्रीह्यङ्करादिघटपटादिवस्तुव्याप्तिवृत्तयोऽवस्थास्तस्य तस्य पुरुषादि, दर्शनस्य व्यापित्वप्रदर्शनार्थमुक्तास्तासु किं पुरुषादि तत्त्वमवस्थालक्षणं तल्लक्षणम् ? तानि च लक्षणं* तस्याः, न सोऽस्ति तद्वयतिरिक्तः, यथा रूपादय एव घट इति । उत पुरुषादिलक्षणास्ताः ? पुरुषाद्येव सत्यम् , न ताः काश्चिदवस्थाः, यथा घट एव रूपादयः न रूपादयो नाम केचिद् घटव्यतिरेकेण, इति द्वयो20 विकल्पयोरन्यतरोऽवधार्यः । "किश्चातः ? यद्यवस्थास्वात्मेत्यादि यावत् समुदयमात्रवाद एवायमन्यः । यदि पुरुषादि न किञ्चिदस्ति, अवस्थास्वात्मैव तल्लक्षणम् , ता एव सत्याः, न पुरुषाद्यात्मावस्थाः पुरुषादिस्वरूपास्ता अवस्था न भवन्ति इत्येवमभ्युपगतं भवति ततः पुरुषो नाम न कश्चिच्चतुरवस्थाव्यतिरिक्त इत्येतदा १७८-१ १ भवत २० ही०॥ २ न्यासोर्थे भा० । न्यासोर्थों य० ॥ ३°द्भाविविवस्थात्ततः यः । द्भाविवृवस्थात्ततः भा०॥ ४ प्रतिविवक्त य० ॥ ५ स्वनशेषः प्र०॥ ६ * * एतच्चिहान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ७ किं वातः प्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy