Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 41
________________ XXXXXXXXXXXXXHOR XXXXXXXXXX KARORAKARKIOKORAOKARMACOOOOOOOOOOOOOOOrcedeocomdoodoo परीक्षा eg यशो० : तथापि जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानविप्रतिपत्तिविषयपक्षद्वयान्यतरस्य में वस्तुतः शास्त्रबाधितत्वात्तदन्यतरश्रद्धानवतोऽभिनिवेशित्वप्रसङ्ग इति तद्वारणार्थं से में विदुषोऽपीति-शास्त्रतात्पर्यबाधप्रतिसन्धानवत इत्यर्थः। चन्द्र० : "विदुषोऽपि" इति पदस्य कृत्यमाह - तथाऽपि = 'स्वरसवाही' असे २ पदेनातिव्याप्तिवारणेऽपि यदि 'विदुषोऽपि' इति पदं नोपादीयते तर्हि जिनभद्रसिद्धसेनेत्यादि, * प्रावचनिकाः = शासनप्रभावकप्रथमभेदस्वरूपास्तत्तत्कालीनश्रुतार्थपारगामिनो गुणभाजः, तेषु । प्रधाना इति प्रावचनिकप्रधानाः । जिनभद्रसिद्धसेनादयश्चामी प्रावचनिकप्रधानाश्च इति । जिनभद्रसिद्धसेनादिप्रावचनिकप्रधानाः । “प्रावचनिकप्रधान" पदेन जिनभद्रादीनां सम्यग्दृष्टित्वं । में निवेदितं भवति । न मिथ्यादृष्टयः प्रावचनिका अपि भवितुमर्हन्ति, तर्हि प्रावचनिकप्रधानास्तु में कथं भवितुमर्हन्ति । 3 एतेषां प्रावचनिकप्रधानानां या विप्रतिपत्तिः = 'केवलिनां क्रमशो ज्ञानदर्शनोपयोगी ॐ र भवतः' इति जिनभद्रक्षमाश्रमणानां मतं, 'केवलिनामनवरतं ज्ञानोपयोग एवे'ति सिद्धसेन* दिवाकरसूरीणां मतम् । ततश्च केवल्युपयोगविषये या तेषां परस्परं विरुद्धा प्रतिपत्तिः, तस्या * विषयभूतं यत् पक्षद्वयं = क्रमशो ज्ञानदर्शनोपयोग-सततज्ञानोपयोगात्मकं, तस्माद् अन्यतरस्य * = क्रमशो ज्ञानदर्शनोपयोगस्य सततं ज्ञानोपयोगस्य वा वस्तुतः = परमार्थतः सर्वज्ञदृष्ट्या इति यावत्, शास्त्रबाधितत्वात् = जिनमतविरूद्धत्वात् तदन्यतरश्रद्धानवतो = तस्मात्पक्षद्वयाद् । यदन्यतरः पक्षः = क्रमशो ज्ञानदर्शनोपयोगः सततं ज्ञानोपयोगो वा, तच्छ्रद्धानवतः = * जिनभद्रक्षमाश्रमणस्य सिद्धसेनदिवाकरस्य वा अभिनिवेशित्वप्रसङ्गः = अभिनिवेशिकमें मिथ्यात्वापत्तिः । इति = एतस्मात्कारणात् तद्वारणार्थं = जिनभद्रादीनां अभिनिवेशित्व* प्रसङ्गवारणार्थं विदुषोऽपीति = शास्त्रतात्पर्यबाधप्रतिसन्धानवतः "ममेदं मतं से शास्त्रतात्पर्यबाधवान्" इति बोधवान् अत्र “विदुषोऽपि" इति पदेन ग्राह्य इति भावः । इदमत्र तात्पर्यम्-जिनभद्रगणिक्षमाश्रमणाः "केवलिनां क्रमशो ज्ञानदर्शनोपयोगौ भवतः" * इति भगवत्याद्यागमबलात्प्राहुः, सिद्धसेनदिवाकरसूरयस्तु “केवलिनामनवरतं ज्ञानोपयोग एव में * भवति" इति सूक्ष्मयुक्तिबलात्प्राहुः । अत्र जिनभद्रगणिनः सिद्धसेनाश्च उभयेऽपि निजाभिप्रायं में ॐ शास्त्रानुसारिणमेव मन्यन्ते, प्रतिपादयन्ति च । किन्तु केवलिज्ञानेन तु कस्यापि एकस्य मतं से शास्त्रबाधितमस्त्येव । ततश्च यस्य मतं केवलिदृष्ट्या शास्त्रबाधितं, तस्य स्वपदार्थश्रद्धानं * भगवत्प्रणीतशास्त्रबाधितार्थश्रद्धानं सञ्जातम् । तथा वक्तृभिः सम्यग्वचनैः प्रज्ञाप्यमाना अपि ते મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૨૯ નું 双双双旗英双双双双双双涨观观观观观观观观观观双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178