Book Title: Dharm Pariksha Part 02
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 151
________________ XXXXXXXXXXXXXX ધર્મપરીક્ષા खाहि ४ छे. मिथ्यात्वाविरतिकषाययोगैः कर्मसंयोगो जायत इति । ॥ पाठभां इति = खारासर खेम अर्थ एवो. हेतुथी ४न्य श्रेया वस्तु साहि ४ छे. भेभ अकामनिर्जरादिभिः:... विघटत इति = ते पाठमां पए इति = शब्हनो "ते अरएासर..." खेम अर्थ ९२वो. नाश पामती કોઈપણ વસ્તુ અનંત ન કહેવાય. ધૃત્તિ એ ત્રીજા પુરુષ બહુવચન રૂપ છે. બીજા गानो धातु छे भाटे 'न' नो लोप थयो छे. माटे अन्ति ने जहले "अति" प्रत्यय लाग्यो छे से ध्यानमा राज.) यशो० : तथा तत्रैव प्रदेशान्तरे प्रोक्तं - ततो बलिनरेन्द्रेणोक्तं 'स्वामिन्! तर्हीदमेव श्रोतुमिच्छामि, प्रसादं विधाय निवेदयन्तु भगवन्तः । ततः केवलिना प्रोक्तं- 'महाराज ! सर्वायुषाऽप्येतत्कथयितुं न शक्यते, केवलं यदि भवतां कुतूहलं तर्हि समाकर्णयत, संक्षिप्य किंचित्कथ्यते-इतोऽनन्तकालात्परतो भवान् किल चारित्रसैन्यसहायो भूत्वा मोहारिबलक्षयं करिष्यतीति कर्मपरिणामेनासंव्यवहारपुरान्निष्काश्य समानीतो व्यवहारनिगोदेषु । ततो विज्ञातैतद्व्यतिकरैर्मोहारिभिः प्रकुपितैर्विधृतस्तेष्वेव त्वमनन्तं कालम् । ततः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियतिर्यक्षु नरकेष्वनार्यमनुष्येषु चानीतस्त्वं कर्मपरिणामेन, पुनः पुनरनन्तवाराः कुपितैर्मोहादिभिर्व्यावर्त्य नीतोऽसि पश्चान्मुखो निगोदादिषु । एवं तावद्यावद् भावितोऽतिदुःखितस्तैरनन्तानन्तपुद्गलपरावर्त्तान् । ततश्चार्यक्षेत्रेऽपि लब्धं मनुष्यत्वमनन्तवाराः, किन्तु हारितं क्वचित् कुजातिभावेन, क्वापि कुलदोषेण, क्वचिज्जात्यन्धबधिरखञ्जत्वादिवैरूप्येण, क्वापि कुष्ठादिरोगैः क्वचिदल्पायुष्कत्वेन, एवमनन्तवाराः (रम्), किन्तु धर्मस्य नामाप्यज्ञात्वा भ्रान्तस्तथैव (स्तेष्वेव) पराङ्‌मुखो व्यावृत्त्यानन्तपुद्गलपरावर्त्तानेकेन्द्रियादिषु । ततोऽन्यदा श्रीनिलयनगरे धनतिलकश्रेष्ठिनो जातस्त्वं वैश्रमणनामा पुत्रः । तत्र च 'स्वजनधनभवनयौवनवनितातत्त्वाद्यनित्यमिदमखिलं ज्ञात्वाऽऽपत्त्राणसहं धर्मं शरणं भजत लोकाः' इति वचनश्रवणाज्जाता धर्मकरणबुद्धिः । केवलं साऽपि कुदृष्टिसंभवा महापापबुद्धिरेव परमार्थतः सञ्जाता। तद्वशीकृतेन च स्वयंभूनाम्नस्त्रिदण्डिनः शिष्यत्वं प्रतिपन्नम्। ततस्तदपि मानुषत्वं हारयित्वा व्यावर्त्तितो भ्रामितः संसारेऽनन्तपुद्गलपरावर्त्तानिति । ततोऽनन्तकालात्पुनरप्यन्तराऽन्तरा लब्धं मानुषत्वं परं न निवृत्ताऽसौ कुधर्मबुद्धिः, शुद्धधर्मश्रवणाभावात्। तदभावोऽपि क्वापि सद्गुरुयोगाभावात्क्वचिदालस्यमोहादिहेतुकलापात्, क्वचिच्छुद्धधर्मश्रवणेऽपि न निवृत्ताऽसौ शून्यतया तदर्थानवधारणात्, क्वचित्तत्त्वाश्रद्धानेन । મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૨૧૩૬ 2

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178