________________
चेति, तदेवंभृतमाहारजातं प्रासुकमेषणीयं च मन्यमानो लाभे सति कारण गृह्णीयादिति २ ॥ ग्राह्याग्राघाधिकार एवाहारविशेषमधिकृत्याह
से भिक्खू वा जाव समाणे से जं पुण जाणिजा-पिहुयं वा बहुरयं वा भुजियं वा मंथु वा चाउलं वा चाउलपलंबं वा सई संभजियं अफासुयं जाव नो पडिगाहिज्जा। से भिक्खू वा जाव समाणे से जं पुण जाणिजा- पिहुयं वा जाव चा उलपलंबं वा असई भजियं दुक्खुत्तो वा निकावुनी वा भन्जियं फास्यं एसणिज्जं जाव पडिगा
हिन्जा २॥ सू०३॥ स भावभिक्षु हपतिकुलं प्रविष्टः सन् इत्यादि पूर्ववद्यावत् 'पिहुय वत्ति पृथुकं जातावेकवचनं नवस्य शालिव्रीह्यादेरग्निना ये लाजाः क्रियन्ते त इति, बहु रजा-तुषादिकं यस्मिस्तद्बहुरजः, 'भुजिय'न्ति अग्न्यर्द्धपक्वं गोधूमादेः शीर्षकमन्यद्वा तिलगोधूमादि, तथा गोधूमादेः 'मन्थु' चूर्ण तथा 'चाउलाः' तन्दुला: शालिव्रीह्यादेःत एव चूणीकृतास्तत्कणिका वा चाउलपलंचंति, तदेवंभूतं पृथुकाद्याहारजातं सकृद् एकवारं 'संभजिय'ति आमर्दितं किश्चिदग्निना किञ्चिदपरशस्त्रेणापासुकमनेषणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् १॥ एतद्विपरीतं ग्राह्यमित्याह-पूर्ववत , नवरं यदसकृद्-अनेकशोऽग्न्यादिना पक्कमामर्दितं वा दुष्पक्कादिदोषरहितं प्रासुकं मन्यमानो लामे सति गृह्णीयादिति २॥ साम्प्रतं गृहपतिकुल प्रवेशविधिमाह