Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 385
________________ ॥ ८२७ ॥ ܀܀܀ पाएसणा समत्ता ॥ २-१-६-२ ॥ समिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात् - कदाचित्स परो गृहस्थोऽना भोगेन प्रत्यनीकतया वा तथाऽऽनुकम्पया विमर्षतया वा गृहान्तः - मध्य एवापरस्मिन् पतन्दहे स्वकीये भाजने आहत्य शीतोदकं 'परिभाज्य' विभागीकृत्य 'णीहद्दु'ति निःसार्य दद्यात् स - साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुकमिति मत्त्रा न प्रतिगृह्णीयात्, तद्यद्यकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः चिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापन विधिना प्रतिष्ठापनं कुर्यात्, तदभावेऽन्यत्र वा छायागर्त्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेदिति । तथा स मिचुरुदकार्द्रादेः पतग्रहस्या (स्य प्र) मार्जनादि न कुर्यादीषच्छुकस्य तु कुर्यादिती पिण्डार्थः ॥ किञ्च स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥ २-१-६ ॥ wedhiigeser ॥ अथ सप्तमे अवग्रहप्रतिमाध्ययने प्रथम उद्द ेशकः ॥ उक्तं पठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः - पिण्डशय्या वस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य ॥ ८२७ ॥

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466