Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 432
________________ भीमानागङ्गवृत्तिः शीलाका. श्रुत०२ चूलिका भावनाभ्य० द्वामनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनामधिकृत्याह- . तत्तं जीवाजीवा नायव्वा जाणणा इहं दिहा । इह कजकरणकारगसिद्धी इह बंधमुक्खो य॥ ३३५॥ बडो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं ॥ ३३६॥ नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥ ३३७॥ तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभृतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थ श्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव पदार्थाः, ते च तत्वज्ञानार्थिना सम्यग् ज्ञातव्याः , तत्परिज्ञानमि हैव-आर्हते प्रवचने दृष्टम-उपलब्धमिति, तथेहैव-आर्हते प्रवचने कार्य-परमार्थरूपं मोक्षास्यं तथा करणं-क्रियासिद्धो प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः-साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः-कर्मबन्धनं तस्मान्मोक्ष:- कर्मविचटनलक्षणः, असावपी हैव, नान्यत्र शाक्यादिकप्रबचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति । तथा 'बद्धः अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमषष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभव नरूपमिति, एतत्सर्वमत्रैव सुकथितम् , अन्यद्वा यत्किश्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥८७४।

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466