Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
८६७ ॥
***
या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना - आदानभाण्ड मात्र निक्षेपणा समितिः, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति तथाऽपरा पञ्चमी भावना - 'आलोकित' प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवादिति इत्येवं पञ्चभिर्भाश्नाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्णं कीर्त्तितमवस्थितमाज्ञयाssराधितं भवतीति । द्वितीयव्रत भावनामाह, तत्र प्रथमेयम् - अनुविचिन्त्यभाषिणा भवितव्यं तदकरणे दोष सम्भवात्, द्वितीय - भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीय भावनार्या तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पश्चमभावनायां तु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयवते प्रथम भावनैषा - अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति द्वितीय भावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा- अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रह ग्राह्म इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरत मवग्रहपरिमाणं विधेयमिति, पञ्चम्यां स्वनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् इत्येवमाज्ञया तृतीयत्रतमाराधितं भवतीति । चतुर्थव्रते प्रथमे - यम् - स्त्रीणां सम्बन्धिनीं कथं न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत्, तृतीयायां तु पूर्वक्रीडितादि न स्मरेत्, चतुर्थ्यां नातिमात्रभोजनपानासेवी स्यात् पञ्चम्यां तु श्रीपशुपण्ड कविर हितशय्याऽवस्थानमिति । पञ्चमवप्रथमभावना पुनरेषा - 'श्रोत्रतः' श्रोतमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गार्यं विदध्यादिति, एवं द्वितीयतृतीयचतुर्थ पञ्चमभावनासु यथाक्रमं रूपरसगन्धस्पर्शेषु गार्यं न कार्यमिति, शेषं सुगमं यावदध्ययनं समाप्तपिति ॥ भावनाख्यं पञ्चमदशमध्ययनं । तृतीया चूडा समाप्तेति ।। २-३-१५ ।।
*******
॥ ६७ ॥

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466