Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ ६६ ॥
आवसन्त्यस्मिनित्यावासो - मनुष्यादिभत्रस्तच्छरीरं वा तमनित्यमुप- सामीप्येन यान्ति - गच्छन्ति जन्तवः - प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा ‘प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते - दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य च विद्वान् 'व्युत्सृजेत्' परित्यजेत् ' अगारबन्धनं' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं किम्भूतः सन् १ इत्याह'अभीरुः' सप्तप्रकारभयरहितः परीषहोपसर्गाप्रधृष्यश्च 'आरम्भ' 'सावद्यमनुष्ठानं परिग्रहं च सवाह्याभ्यन्तरं त्यजेदिति ॥ १ ॥ साम्प्रतं पर्वताधिकारे,—
तहागयं भिक्खुमणंतसंजयं, अणेलिसं विन्नु चरंतमेसणं ।
तुदति वायाहि अभिद्दवं नरा, सरेहिं संगामगयं व कुञ्जरं ॥ २ ॥
तथाभूतं साधुम् - अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं तथाऽनन्तेष्वे केन्द्रियादिषु सम्यग् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणां चरन्तं' परिशुद्धाहारादिना वर्त्तमानं, तमित्थंभूतं भिक्षु ं 'नरा:' मिध्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयतीत्यर्थः तथा लोष्ट प्रहारादिभिरभिद्रवन्ति च कथमिति दृष्टान्तमाह - सरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २ ॥ अपि च
Hεill

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466