Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
'विद्वान्' कालज्ञः 'मत' प्रणतः प्रहः, किं तत् १-'धर्मपदं' चान्त्यादिकं, किंभूतम् १-'अणुत्तरं' प्रधानमित्यर्थः, तस्य चैवंभृतस्य मुनेविगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावतेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति ॥ ५॥ तथा
दिसोदिसंऽणंतजिणेण ताइणा, महव्वया खेमपया पवेइया।
महागुरू निस्सयरा उईरिया, तमेव तेउत्तिविसं पंगासगा ॥ ६॥ __ 'दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिनु 'क्षेमपदानि' रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ?-महागुरूणि'
वहत्वात 'निःस्वकराणि' स्वं-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि 'उदीरितानि' आविकृतानि तेजस इव तमोऽपनयनास्त्रिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोर्धाधस्तिर्यक प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्रिदिशं प्रकाशकानीति ॥६॥ मूलगुणानन्तरमुत्तरगुणानिधित्सयाऽऽह--
सिएहिं भिक्खू असिए परिव्वए, असन्जमित्थोसु चइज पूयणं ।
अणिस्सिओ लोगमिणं तहा परं. न मिजई कामगुणेहिं पंडिए॥७॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः 'असितः अबद्धः-तैः साद्धं
8..॥

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466