Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 462
________________ श्रीजाचा राङ्गवृत्तिः (शीलाङ्का.) ॥ ६०४ ॥ इममि लोए परए य दोसुवि, न विज्जई बघण जस्स किंचिवि । से हु निरालंबणमप्पट्ठिए, कलंकली भाव पहं विमुच्चइ ॥ १२ ॥ ॥ त्ति बेमि ॥ विमुत्ती सम्मत्ता ॥ २-४ ॥ आचाराङ्गसूत्रं समाप्त ॥ ग्रन्थानं २५५४ ॥ अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः 'निरालम्बनः' ऐहिकामुष्प्रिकाशंसारहितः 'अप्रतिष्ठितः' न क्वचित्प्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकली भावात्' संसारगर्भादिपर्यटनाद्विमुच्यते ॥ ब्रवीमीति पूर्ववत् ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च ज्ञानकियानययोरवतरन्ति तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्मिकार्थावासये, तदुक्तम् — “ णायम्मि गिहिअव्वे अगिव्हिअध्वमि चेव अत्थंमि । जइअव्वमेव इइ जो उवएसो सो णओ नाम ॥ १ ॥" यतितव्यमिति ज्ञाने यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थः । क्रियानयग्त्विदमाह - "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ १ ॥” तथा “ शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि किं ज्ञानमात्रेण करोत्यरोगम् १ । १ ।।" तथा - णायमित्यादि, ज्ञातयोरपि ग्राह्यग्राह्ययोरर्थयोस्तथाऽपि यतितव्यमेवेति क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिधाय परमार्थोऽयं निरूप्यते-- 'ज्ञानक्रियाभ्यां मोक्ष' इति, तथा चागमः - "रुव्वेसिंपि नयाणं बहु श्रुतम्कं० २ चूलिका • ४ विमुक्त्य ० ॥ ६०४ ॥

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466