________________
भीमानागङ्गवृत्तिः शीलाका.
श्रुत०२ चूलिका भावनाभ्य०
द्वामनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ॥ ज्ञानभावनामधिकृत्याह- . तत्तं जीवाजीवा नायव्वा जाणणा इहं दिहा । इह कजकरणकारगसिद्धी इह बंधमुक्खो य॥ ३३५॥ बडो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु । संसारपवंचोऽवि य इहयं कहिओ जिणवरेहिं ॥ ३३६॥ नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥ ३३७॥
तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभृतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थ श्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव पदार्थाः, ते च तत्वज्ञानार्थिना सम्यग् ज्ञातव्याः , तत्परिज्ञानमि हैव-आर्हते प्रवचने दृष्टम-उपलब्धमिति, तथेहैव-आर्हते प्रवचने कार्य-परमार्थरूपं मोक्षास्यं तथा करणं-क्रियासिद्धो प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः-साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः-कर्मबन्धनं तस्मान्मोक्ष:- कर्मविचटनलक्षणः, असावपी हैव, नान्यत्र शाक्यादिकप्रबचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति । तथा 'बद्धः अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमषष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभव नरूपमिति, एतत्सर्वमत्रैव सुकथितम् , अन्यद्वा यत्किश्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचित्ततादयो
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
॥८७४।