________________
॥ ८७५॥
गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी कम्मं खई" इत्यादि, तथै भिश्च कारणे नमभ्यसनीयं. तद्यथा-ज्ञानसङग्रहार्थ निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञान भावनया नित्यं गुरुकुल वासो भवति, तथा चोक्तम्-'णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुश्चन्ति ॥१॥", इत्यादिका ज्ञानविषपा भावना भवतीति ॥ चारित्रभावनामधिकृन्याह
साहमहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिंग्गहविरई साहु तवो बारसंगो य ॥३३८॥ वेरग्गमप्पमाओ एगत्ता(ग्गे) भावणा य एरिसगं । इय चरणमणगयाओ भणिया इत्तो तवो वुच्छं ॥३३॥
साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमवतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोमनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्ग तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवन रूपा, तथैकाग्रभावना-२एको मे सासओ अप्पा, णाणदंसणसंजुओ। सेसा मे बहिरा भावा, सव्वे संजोगलक्खणा ॥१॥" इत्यादिका भावनाः ( इति प्रकृष्टमषित्वाङ्ग ) 'चरणमुपगता चरणाश्रिताः, इत ऊब तपोभावना 'वक्ष्ये' अभिधास्य इति ॥
१ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १॥ २ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १॥
.८७५॥