SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ॥ ८२७ ॥ ܀܀܀ पाएसणा समत्ता ॥ २-१-६-२ ॥ समिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात् - कदाचित्स परो गृहस्थोऽना भोगेन प्रत्यनीकतया वा तथाऽऽनुकम्पया विमर्षतया वा गृहान्तः - मध्य एवापरस्मिन् पतन्दहे स्वकीये भाजने आहत्य शीतोदकं 'परिभाज्य' विभागीकृत्य 'णीहद्दु'ति निःसार्य दद्यात् स - साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुकमिति मत्त्रा न प्रतिगृह्णीयात्, तद्यद्यकामेन विमनस्केन वा प्रतिगृहीतं स्यात् ततः चिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदके प्रतिष्ठापन विधिना प्रतिष्ठापनं कुर्यात्, तदभावेऽन्यत्र वा छायागर्त्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजने तत् सभाजनमेव निरुपरोधिनि स्थाने मुञ्चेदिति । तथा स मिचुरुदकार्द्रादेः पतग्रहस्या (स्य प्र) मार्जनादि न कुर्यादीषच्छुकस्य तु कुर्यादिती पिण्डार्थः ॥ किञ्च स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामग्र्यमिति ॥ षष्ठमध्ययनं समाप्तम् ॥ २-१-६ ॥ wedhiigeser ॥ अथ सप्तमे अवग्रहप्रतिमाध्ययने प्रथम उद्द ेशकः ॥ उक्तं पठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः - पिण्डशय्या वस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य ॥ ८२७ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy