SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः शीलाङ्का.) ܀܀܀܀܀܀܀܀܀܀ श्रुतः २ चूलिका र अवग्र०७ उद्देशकः १. ॥८ ॥ नामस्थापने तुण्णत्वादनादृत्य द्रव्यादिचतुर्विधं निक्षेपं दयितुकामो नियुक्तिकार आह दव्वे खित्ते काले भावेऽवि य उग्गहो चउडा उ । देविंद रायउग्गह२ गिहवइ ३ सागरिय ४ साहम्मी ॥३१६॥ द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्य लोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः १, राज्ञश्चक्रवर्त्यादेर्भरतादिक्षेत्रं २, गृहपतेाममहत्तरादेामपाटकादिकमवग्रहः ३, तथा सागारिकस्य-शय्यातरस्य धवशालादिकं ४, साधर्मिका:-साधवो ये मासकल्पेन तत्रावस्थितास्तेषां वसत्यादिश्वग्रहः सपादं योजनमिति ५, तेदेवं पश्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्ये ते | यथाऽवसरमनुज्ञाप्या इति ॥ साम्प्रतं द्रव्याघवग्रहप्रतिपादनायाहदव्वुग्गहोउ तिविहो सचित्ताचित्तमीसओ चेव । खित्तग्गहोऽवि तिविहो दुविहो कालग्गहो होइ॥३१७॥ द्रव्यावग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहग्णादेमिश्रः, क्षेत्रावग्रहोऽपि सचित्तादित्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाद्विधेति ॥ भावावग्रहप्रतिपादनार्थमाहमइउग्गहो य गहणुग्गलो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अत्यवंजणे उग्गहो दसहा ॥३१८॥ भावावग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्च, तत्रार्थावग्रह इन्द्रियनोइन्द्रियमेदात् पोढा, व्यञ्जनावग्रहस्तु चतुरिन्द्रियमनोवश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ॥ ܀܀܀ ॥८२८॥ ܀܀܀܀܀܀܀
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy