________________
॥७॥१॥
सम्यग्निश्चिन्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्टाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या 'समतया वा' रागद्वेषाकरणलक्षणया षोडशवचन विधिज्ञो भाषा भाषेत । यादृग्भृता च भाषा भाषितव्या तां षोडशवचनविधिगतां दर्शयति-तद्यथेत्ययमुपप्रदर्शनार्थः, एकवचन वृक्षः १, द्विवचनं वृक्षौ २, बहुवचनं वृक्षा इति ३ ॥ स्त्रीवचनं वीणा कन्या इत्यादि ४, पुवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्म- 2 वचनम , आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनोतवचनं' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति है, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिन्निन्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वृत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सवृत्तेति ११, 'अतीतवचनं' कृतवान् १२ 'वर्तमानवचनं' करोति १३, 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम्' एष देवदत्तः १५, 'परोक्षवचनं स देवदत्तः १६, इत्येतानि षोडश वचनानि, अमीषां च स भिक्षुरेकार्थविवक्षायामेकवचनमेव जयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्र यादिति । तथा स्च्यादिके दृष्टे सति स्येवैषा पुरुषो वा नपुसकं वा, एवमेवैतदन्यद्वैतत् , एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषा भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि दोषस्थानानि 'उपातिक्रम्य' अतिलङ्घन्य भाषा माषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतस्रो भाषा: तद्यथा-सत्यमेकं प्रथम भाषाजातं यथार्थम्-अवितथं, तद्यथा-गौगौरेवाश्वोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया,