________________
भोआचागनवृत्तिः
भीलाबा.)
चूलिका.. पिण्डैष. १ उद्देशक
से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया . अणेसणिज्जे सिया वितिगिछसमावन्नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं
असणं वा ४ लाभे संते नो पडिगाहिज्जा ॥ सू०१८॥ स भिक्षाहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथा-विचिकित्सा-जुगुपण वाऽनेषणीयाशङ्का तया समापन्नः- शङ्कागहीत आत्मा यस्य स तथा तेन शङ्कासमापन्नेनात्मना 'असमाहडाए' अशुद्धया लेश्यया--उद्गमादिदोषदुष्टमिदमित्येवं चित्तविप्लुत्याऽशुद्धा लेश्या--अन्तःकरणरूपोपजायते तया सत्या 'तथाप्रकारम्' अनेषणीयं शङ्कादोषदुष्ट माहारादिकं सति लामे "जं संकेतं समावज्जे" इति वचनान प्रतिगहीयादिति ॥ साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह
से भिक्खू वा २ गाहावइकुलं पविसिउकामे सव्वं भंडगमायाए गाहावाकुलं पिंडवायडियाए पविसिज्ज वा निक्खमिज्ज घा१॥ से भिक्खू वा २ बहिया विहारभूमि वा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सव्वं भंडगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्वमिज्ज वा पविसिज वा २॥ से भिक्ख पा २ गामाणुगाम
दूइज्जमाणे सव्वं भंडगमायाए गामाणगामं दूइज्जिज्जा ३॥ सू. १९॥ स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिर्गृहपतिकुलं प्रवेष्टुकामः 'सर्व' निरवशेष 'भण्डक' धर्मोपकरणम् 'आदाय'