Book Title: Nandanvan Kalpataru 2013 07 SrNo 30
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521030/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ वि.सं. २०६९ उत्तरायणम् w कीर्तित्रयी सङ्कलनम् शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन - सत्कोऽयं-नन्दतात् सुचिरम् ॥ Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ३० शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ वि.सं. २०६९ उत्तरायणम् सङ्कलनम् : कीर्तित्रयी Jain Educationa Interational For Personal and Private Use Only Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः २९ सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०६९ ई.सं. २०१३ मूल्यम् : रू. १००/ जालपुटसङ्केत्तः प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाषः 079-26622465, 09408637714 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M. 9979852135 मुद्रणम् : 'क्रिष्ना ग्राफिक्स' नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079 - 27494393 Jain Educationa International For Personal and Private Use Only Page #4 -------------------------------------------------------------------------- ________________ অনুচ্চ সুবিতে: नन्दनवनकल्पतरोरेकोनविंशी सञ्चिका प्राप्ता । विविधविषयकैर्लेखैः काव्यैः कथादिभिश्च शाखेयं मनोज्ञा सुपठनीया च जाता । तत्राऽपि काष्ठच्छिदः कथाऽस्मभ्यमधिकतरं रुचिता यतस्तत्राऽऽधुनिकजनोचितां विचारधारां प्रति, मनुष्यस्य सङ्ग्रहवृत्तिं प्रति च सुष्ठ व्यङ्गः कृतोऽस्ति, आहत्य किञ्चन्नूतनं चिन्तनं प्रस्तुतमस्ति । एतस्य सर्वस्याऽपि च कृते भवद्भयो बहुशो धन्यवादाः । इति शम् - उपा. विश्रुतयशविजयः पादलिप्त(पालीताणा)पुरम् * * * नन्दनवनकल्पतरुशाखा एकोनत्रिंशी लब्धा, कीर्तित्रयी जयतु विद्वदभीष्टदानात् लोकस्य सद्विषयदर्शनकारिणीयम् । काश्मीरमेरुशिखरात् सहक्षिन्धुपूर्वकाम्भोजिनी भरतवर्षकुमारिकान्ता ॥ प्राकृतप्रकृति चाऽपि संस्कृतं सह यच्छतु । षट्प्राकृतस्य शिक्षायै क्वचित् कल्पतरुस्स्वयम् ।। इति विज्ञापकः अरैयर् श्रीरामशर्मा Jain Educationa Interational For Personal and Private Use Only Page #5 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः सन्मान्याः, नमो नमः । भवद्भिः प्रेषितोऽन्वर्थनाम्नो नन्दनवनकल्पतरोः २९तमः अङ्को सम्प्राप्तः । भृशमुपकृतोऽस्मि । अस्मिन्खलु महति विषमे काले सुरभारतीसेवाव्रतरतेभ्यः पूज्यपादश्रीमद्विजयशीलचन्द्रसूरिमहाराजेभ्यो मे प्रणतिततयः । नीरक्षीरविवेकशीलेभ्यस्तपस्विभ्यो ग्रन्थसम्पादनकर्तृभ्यो वन्दनापुरःसरं ग्रन्थे केचन मूललेखगतादोषा मुद्रणदोषा वा अधस्तानिर्दिश्यन्ते । 'ललितकथा'स्तम्भे श्रीदेवर्षिकेलानाथशास्त्रिणः 'छन्दश्छटाचमत्काराः' इति ललितनिबन्धो (पृ. ३९-४५) वर्तते । तस्मिन् ४२ तमे पृष्ठे लेखकेन 'टिड्ढाणञ्' इति श्लोक उद्धृतः । तस्मिन् शब्दचमत्कृतिलक्ष्मैकचक्षुष्केन केनचित् कविना भगवतः पाणिनेः अष्टाध्याय्याः पञ्चदशसूत्राणि शार्दूलविक्रीडितछन्दोबन्धेन ग्रथितानि वर्तन्ते । तत्र प्रथमे चरणे चत्वारि सूत्राणि सन्ति यथा ४-१-१५, १-३-७, ६१-११०, ३-४-७८ इति । इह तृतीये सूत्रे 'ङसिङयो'रिति (७-१-१५) अपपाठः, छन्दोभङ्गदोषात् । अत्र 'ङसिङसो'रिति (६-१-११०) शुद्धेन पाठेन भाव्यम्, छन्दोऽनुरोधात् । अस्मिन्नेव चरणे 'तिपतस्सि०' इति पाठोऽप्यशुद्धः । इहाऽपि 'तिप्तस्सि०' इति (३-४-७८) शुद्धः पाठः । द्वितीये चरणेऽष्टाध्याय्याः पञ्चसूत्राणि संगृहीतानि सन्ति । तानि यथा ६-१-११४, ८-४-४१, ४-१-९५, ८-४-६३, १-१-६४ इति । अत्र 'ष्टुनाष्टरत' इति अपपाठः । इह 'ष्टुनाष्टुरत०' इति (८-४-४१) शुद्धेन पाठेन भाव्यम् । तृतीये चरणे पाणिनेरष्टकस्य षट् सूत्राणि गुम्फितानि वर्तन्ते । तानि यथा ६-१-६६, १-१-८८, १-४-१८, ११-२०, ६-१-७३, ६-४-१४३/१५५ इति । अत्र 'दाधाध्वदाप' इत्यप्यशुद्धः पाठः । अत्र 'दाधाध्वदाप्' इति (१-१-२०) शुद्धः पाठो भवितुमर्हति । भावत्कः किशोरचन्द्रपाठकः अमरेली ३६५००१ * अस्माकमनवधानात् पाणिनीयव्याकरणानभ्यासाच्च प्रमादोऽयं जातोऽस्तीति क्षन्तव्याः वयम् । अपरं च वारं वारमस्माभिनिवेदिते सत्यपि केचन लेखकाः झेरोक्ष(Xerox)प्रतिमेव प्रेषयन्ति, तत्र च बहुशोऽक्षरास्त्रुटिता भवन्ति । ततश्च मुद्रणे प्रूफवाचने च काठिन्यं भवत्येव, फलतश्चेदृश्योऽशुद्धयोऽप्रमार्जिता अवतिष्ठेयुः । अतः कृपया स्वच्छाक्षरैलिखिता प्रतिरेव प्रेषणीयेति पौनःपुन्येन निवेदयामः । Jain Educationa Interational For Personal and Private Use Only Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः समादरणीया कीर्तित्रयी, सादरं प्रणतयः । प्राप्तिः नन्दनवनकल्पतरोः अष्टाविंश्याः शाखायाः । प्रसन्नाः स्मः । सन्निष्ठयैव संलग्नाः, साध्ये सारस्वतार्चने । समाः साधवः सौम्याः, श्रेष्ठसंस्कृतिसाधकाः ।। सम्प्रेषितस्य सद्भावैः, साहित्यस्य समन्ततः । सम्मार्जनं यथायोग्यं, सम्पादकैर्निभाल्यते ।। गुरुचरणानामाशीर्वादैः, प्रतिशाखां विशेषोपक्रमः नन्दनवनकल्पतरोः । प्रत्येकं शाखा, नवं नवमानयति फलम्, इत्यतः सामयिकस्य नामाभिधानमपि चरितार्थीक्रियते।. एतदर्थं सप्रणाममभिनन्दनानि । संस्कृतभाषायाः प्रचार-प्रसारार्थं भवद्भिः कृता चिन्ता स्थाने एव । (गूर्जरभाषाऽपि नामशेषा स्यादिति चिन्ता क्रियते भाषाविद्भिः ।) संस्कृत-संरक्षणार्थं सहचिन्तनमावश्यकम्। भारतीय-संस्कृति-पक्षपातिभिः प्रयत्नाः विधेयाः । संस्कृते लेखकाः, प्रचारकाः, प्रकाशकाः, संस्कृतिपोषकाश्च सर्वे सम्मिलिता भवेयुरित्यावश्यकम् । सर्वकारेणाऽपि एतदर्थमनुदानरूपेण विशिष्टः सहयोगः कार्यः, यदि भारतस्य भा-रतत्वं अपेक्षितम् ।। संस्कृते संगृहीतः संस्कारसंग्रहः नाऽल्पः । समृद्धिरेषा व्यापकत्वेन विस्तरणीया मानवत्वरक्षणार्थमपि। __बालानां चित्ते संस्कृतस्य संस्कारा दृढाः स्युरित्येतदर्थं विधेयाः प्रयत्नाः । प्राथमिककक्षासु यदि, सर्वकारस्याऽऽदेशेन, अनिवार्यतया संस्कृतस्य पाठनं भवेत्तर्हि सर्वं सुकरं स्यादिति ।। मूलतः, संस्कृत-संस्कृति प्रति, अस्मद्राष्ट्रस्य उदात्ततां प्रति च, भक्तिर्भवेत्तदैव तत् शक्यं भवेत् । साफल्यं स्यात्प्रयत्नेषु, इत्यर्थं प्रार्थ्यते प्रभुः ।। भवदीयः डॉ० वासुदेवः पाठकः 'वागर्थः' अमदावाद-१५ Jain Educationa International For Personal and Private Use Only Page #7 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् "कुछ बात है कि हस्ती मिटती नहीं हमारी... विवचकया दृष्ट्या याद वयं भारतदेशस्य परिस्थितिं समवलोकयेम तदा प्रायः सर्वत्र दारिद्यमज्ञानं मालिन्यं सत्त्वहीनताऽन्धश्रद्धा भ्रष्टाचारः - इत्यादिभिर्व्याप्तावेवाऽस्मद्देश-कालौ दृश्येते । एतच्च सर्वथा सत्यं तथ्यं चेत्यस्माभिः सर्वैरप्यनिच्छद्भिरपि स्वीकर्तव्यमेव । एवं सत्यपि तादृशं किमपि तत्त्वमस्ति देशेऽस्मिन् येन पङ्कात् कमलमिवाऽनिष्टप्राचुर्यादपि काले कालेऽत्र महामानवाः समुद्भवन्ति । गतं शतकमेव विलोकयेम चेत् समग्रेऽपि भारतवर्षे बहवः स्व-परकल्याणकारिणो महापुरुषाः सञ्जाता यथा – श्रीरमणमहर्षिः, श्रीअरविन्दः, विनोबा, महात्मा गान्धिः, रविशङ्करमहाराजः, रामकृष्णपरमहंसः, स्वामिरामतीर्थः, स्वामिविवेकानन्द इत्यादयः । तथा प्रत्येकं धर्म-सम्प्रदायेष्वपि महाप्रभावका बहवः सत्पुरुषाः सञ्जाता यैर्धर्मक्षेत्रे, समाजकल्याणक्षेत्रे, ज्ञानप्रसारक्षेत्रे, तीर्थोद्धारादिक्षेत्रेषु च सत्कार्याणां परम्परैव प्रवर्तिता । एवमेव येषां नामानि बहुप्रसिद्धिं नैव प्राप्तानि तादृशा अपि बहवः सज्जनाः सुजनाश्च सञ्जाता एव देशे सर्वत्र, ये हि नैराश्यतमसाऽऽवृते समाजे सदाशादीपायितं समाचरन् । एकत एतेषां महापुरुषाणां सत्पुरुषाणां सज्जनानां च जीवने दृश्यमाना परां कोटि प्राप्ता सत्त्वशालिता परोपकारकारिता सङ्ख्यातीतगुणप्रकर्षवत्ता च, अन्यतश्च प्रायो बहुसङ्ख्ये समाजे परिस्फुरन्ती भ्रष्टाचाराज्ञानधनलालसा-दुराचरणादिभिश्च सुदाढ्य प्राप्ता सत्त्वहीनता स्वार्थवृत्तिश्च । महदाश्चर्यं नामेदमेव यत्, तत् किं तत्त्वमस्ति - यत्प्रभावादेतावत्स्वनिष्टेषु सत्स्वपि देशेऽत्रैतादृशा महाजना जनिं प्राप्नुवन्ति, प्रतिश्रोतस्तरणमिव च सत्कार्यश्रेणि समाचरन्तः परोपकारं कुर्वन्ति खलु ? एतदेव मनसि निधाय कवि-इकबालः स्वीये "सारे जहाँ से अच्छा...' गीते लिखति यत् "कुछ बात है कि हस्ती मिटती नहीं हमारी" "कुछ बात" नाम "किञ्चित् तत्त्वं" तादृशं किमप्यत्रत्ये वातावरणे प्रसृमरमस्ति येनैतादृशैरप्यनिष्टैः परिपूर्णाऽप्यस्माकं सत्ता खण्डिता विनष्टा वा नैव भवति । तद्धि तत्त्वं किम् ? इति सर्वैरप्यस्माभिरन्वेष्टव्यमुपासितव्यमात्मसाच्च कर्तव्यम् । अद्यतनीयो युवसमुदायो हि सततमुपभोक्तृवादं समर्थयन्नपि किञ्चिदिव विचारशीलवस्तु वर्तते एव । तेन त्वेतत्तत्त्वगवेपणायाऽवश्यं चिन्तनं कर्तव्यमेव । केवलं तद्गवेषणार्थं प्रवर्त्तनेनैवाऽनिष्टानां बढी मात्रा स्वयमेव हासं प्राप्स्यति क्रमशश्च देशस्य समाजस्य चाऽऽन्तरो बाह्यश्चेत्युभयथाऽपि विकासो भविष्यत्येव । केवलमैदम्प्राथम्येन तत् तत्त्वं - यदस्माकमान्तरिकवातावरणाद् विलुप्तमिव जातमस्तिअवश्यं गवेषणीयं येन वयं सर्वथा विनाशं नैव प्राप्नुयाम । किं वयं तदन्वेषणे प्रवर्तेमहि खलु ? चैत्र शुक्ला प्रतिपत्, २०६९ गोधरानगरम् कीर्तित्रयी Jain Educationa International For Personal and Private Use Only Page #8 -------------------------------------------------------------------------- ________________ श्रीवीरचित्राष्टकम् श्रीमहावीरचित्रकाष्टकम् श्रीमदृषभदेवस्तवतरङ्गिणी स्वामिरामकृष्णपरमहंसचरितम् कविकुलतिलकेभ्यः प्रणत्यञ्जलिः दुर्जनश श्रीभक्तामरस्तोत्र-स्तोत्रम् हितार्थं तवैव हाईकु काव्यानि सत्यस्याऽनुवादः अन्तरालापाः आस्वादः कृति: पशु-पक्षिणां स्मरणशक्ति: नीरोगिताया रहस्यम् पत्रम् Jain Educationa International अनुक्रमः 7 कर्ता प्रवर्त्तकमुनिश्रीयशोविजयः प्रवर्त्तकमुनिश्रीयशोविजयः डॉ. आचार्य रामकिशोरमिश्रः डॉ. आचार्य रामकिशोरमिश्रः देवर्षिकलानाथशास्त्री एच्. वि. नागराजराव् डो. वासुदेव: पाठकः 'वागर्थः ' डो. वासुदेव: पाठक: 'वागर्थ:' डॉ. हर्षदेव माधव: डॉ. वासुदेव: पाठक: 'वागर्थ:' डो. वासुदेव: पाठकः 'वागर्थः' मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजय: मुनिधर्मकीर्तिविजयः For Personal and Private Use Only पृष्ठम् १ ३ ४ ६ ८ ९ 2 2 2 2 a १७ १८ २० २१ २३ २८ ३० Page #9 -------------------------------------------------------------------------- ________________ ललितकथा वैविध्यमयी व्यसनवीथिका ग्रन्थसमीक्षा श्रीगोस्वामितुलसीदासचरितम् (महाकाव्यम्) बालकृष्णचम्प्वाख्यः प्रबन्धः विचारणम् अनुवाद: भोजराजसरस्वतीत्वेन प्रसिद्वैषा प्रतिमा किमम्बिकादेव्या: ? कीर्तित्रयी यदि .... कः पुटीकरोति पेराशुटच्छत्रम् ? मर्म गभीरम् सत्यघटना साम्राज्यस्थैर्यमूलम् योगक्षेमं वहाम्यहम् व्यङ्ग्यकथा कथा भिक्षुकाण देशस्य जातोऽस्ति प्रतिश्यायव्याधिः : ईश्वरस्य मनुष्यावतारः लघुबालकस्य निबन्धः संस्कारतुल्यं धनमस्ति नाऽन्यत् कः प्रभुभक्तः ? यथा दानं तथा फलम् मर्म - नर्म मौनं सर्वार्थ : शाधनम् प्राकृतविभागः कथा पाइयविन्नाणकहा उवएसाओ वि आयरणं वड्डयरं Jain Educationa International देवर्षिकलानाथशास्त्री डॉ. रूपनारायण पाण्डेयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिअक्षयरत्नविजयः सा. धृतियशा श्रीः सा. दीप्रयशाश्रीः कीर्ति अध्यक्ष संस्कृतविभागः आचार्यविजयकस्तूरसूरि : मुनिकल्याणकीर्तिविजय: 8 For Personal and Private Use Only ३६ ४४ ४७ ५१ ५२ ५३ ५५ ५७ ५९ ६१ ६४ ६६ ६८ ६९ ७२ ७३ ७४ ७६ ७७ ८५ Page #10 -------------------------------------------------------------------------- ________________ Jain Educationa International श्रीवीरचित्रकाष्टकम् आचार्य श्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्त्तकमुनिश्रीयशोविजयः अथ च्छत्रबन्धः (पद्मबन्धोऽपि ) अविदितगुणमानं सर्वदा भासमानं अकलितमहिमानं ध्वस्तमोहाभिमानम् । विहितमदनमानं शान्तिसंशोभमानं । प्रकटितपटिमानं नौम्यहं वर्धमानम् ॥ १ ॥ १ For Personal and Private Use Only Page #11 -------------------------------------------------------------------------- ________________ अथ धनुर्बन्धा वसन्ततिलका वीरं नमामि विपदादलनं दयालु घोरान्धकारविधुरान् विविधोपतापान् । पापान समुद्धरति यो जितभाववैरी दर्पोद्गमप्रशमनं जगदेकसारम् ॥२॥ अथ खड्गबन्धः धीरं धीरं वन्देव, देवमावसथं श्रियाम् । यदर्शनमघध्वंसि सर्वदा तं जिनं स्तुवे ॥३॥ अथ द्वाभ्यां श्लोकाभ्यां खड्गबन्धः सारशौर्याप्तमोक्षश्रीर्जितकाममहारिपुः । पुण्यकेलिगृहं वीर: क्रान्तविश्वः स्वतेजसा ॥४॥ सानुकम्पो भवच्छेदी शक्रसन्दत्तवाससा सारं संशोभमानो मां पातु पापात् प्रभद्रकः ॥५॥ अथ शरबन्धः सर्वदा दारितोन्मादं सर्वर्द्धिधिषणैर्नुतम् । वन्दे वीरं महाधीरं भवसत्रत्रसन्नतम् ॥६॥ __ अथ त्रिशूलबन्धः उद्दामतेजसाभासदेहसौन्दर्यभासितम् । तं सदा दासतं देवं वन्दे तं विदितं दिवि ॥७॥ ___अथ शक्ति बन्धः वरं तत्त्वविदामीशं तं शं सौख्यददं वरम् वगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा ॥८॥ इतिश्रीनिरुपमप्रौढसाम्राज्यराजविराजमानतपत्तपस्तेजःप्रकरप्रकीर्वमानकीर्तिनिकरस्वच्छतपगच्छगगननभोमणीयमानसकलजनप्रार्थितार्थसार्थचिन्तामणीयमानश्रीमद्विजयनेमिसूरीश्वराचार्यचरणचञ्चरी कायमाणपवर्तकयशोविजयविरचितं श्रीवीरचित्रकाष्टकं समाप्तम् ॥ Jain Educationa Interational For Personal and Private Use Only Page #12 -------------------------------------------------------------------------- ________________ श्रीमहावीरचित्रकाष्टकम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः भगवान् भुवनाधीशो धीशो धैर्यगुणे नगः । गभस्तिर्मोहविध्वंसे पापाद्वीरोऽवतात् स माम् ॥१॥ अथ हलबन्धः वीरं नमामि विश्वेशं तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगद्बोधं सर्वज्ञं वरकेवलम् ॥२॥ अथ हलबन्धः वीरं धर्मप्रदातारं वारं दोषततेर्वरम् । रोद्धारकरं विश्वे वन्देऽहं देवदेवनम् ॥३॥ जय भवभयहरणचरणकमल जय कनकभ जय वजनशरण । जय समसहमददवदहनदक जय वरजनभरनतततपदक ॥४॥ अथ समासगुप्तं प्रबलमदनदावं घोरमोहप्रतानं, प्रकुपितमदकालव्यालसङ्घप्रचारम् । भववनमधिभव्यश्रेणिसौख्याय यस्याऽभिभवति शरणं स त्रायतां वोऽथ वीर: ॥५॥ अथ गोमूत्रिकाबन्धः सम्पदानपरं वन्दे लोकजालस्य पालिनम् । विपन्मानहरं मन्दे शोकजालस्य पातिनम् ॥६॥ अथ गद्यबन्धः (अयं गोमूत्रिकाबन्धेऽपि) जिन श्रीन घनध्यान च्छिन्नमान घनस्वन । धनदीनजनग्लानजनसन्नतनन्दन ॥७॥ अथ प्रथमान्तबन्धः विश्ववयत्राणनिबद्धचेताः कुबोधविध्वंसनवाग्विलासः । तृष्णातमस्संहरणो मुनीशः श्रीवीरदेवः सुखदः सदाऽस्तु ॥८॥ इतिश्रीसहृदयहृदयारविन्दविकासनसवित्रीयमाणसकलजनमनोऽन्तस्तापप्रशमनप्रपीयूषायमाणभीष्मभववनभ्रान्तिक्लान्तिमच्छान्तिदानैककल्पतरुयमाणश्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण प्रवर्तकयशोविजयविरचितं श्रीमहावीरचित्रकाष्टकं समाप्तम् ॥ Jain Educationa Intemnational For Personal and Private Use Only Page #13 -------------------------------------------------------------------------- ________________ श्रीमदृषभदेवस्तवतरङ्गिणी आचार्यरामकिशोरमिश्रः वन्दे जिनं जगति जैनसमाजपूज्यम्, तीर्थङ्करेषु ऋषभं जिनधर्मदूतम् । यं जैनधर्मजनकं मनसा स्मरामि, तस्मै नमो भगवते ऋषभाय लोके ॥१॥ श्वेताम्बर: प्रथम आदिगृहस्थभोगी, पश्चादयं स्वतपसात्र तपश्चरोऽभूत् । यं जैनदेवमधुना हृदये भजामि, तस्मै नमो भगवते ऋषभाय लोके ॥२॥ Jain Educationa Intemational For Personal and Private Use Only Page #14 -------------------------------------------------------------------------- ________________ भाषोपदेशकवराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय । विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते ऋषभाय लोके ॥३॥ यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तस्मै नमो भगवते ऋषभाय लोके ॥४॥ यः स्वीचकार जडचेतनमूलरूपम्, तस्मिन् कदापि न च यो विकृतिं चकार । यं सत्यवादिनमहं हृदये भजामि, तस्मै नमो भगवते ऋषभाय लोके ॥५॥ सत्यं त्वसंग्रहमहिंसकतां च विश्वे, कल्याणहेतव इतीदमुपादिशद् यः । यश्चाऽब्रवीदिह सदाचरणं विधातुम्, तं जैनधर्मजनकम् ऋषभं नमामि ॥६॥ श्रीहोतिलाल इह यस्य कलावती च, माता पिता च जनिभूनगरी च सोरों । देवं च यं नमति रामकिशोरमिश्रः, तस्मै नमो भगवते ऋषभाय नित्यम् ॥७॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. Jain Educationa International For Personal and Private Use Only Page #15 -------------------------------------------------------------------------- ________________ स्वामिरामकृष्णपरमहंसचरितम् डॉ. आचार्यरामकिशोरमिश्रः कालीभक्तो रामकृष्णपरमहंसस्त्वब्रवीत् । ईश्वरोऽस्ति सर्वव्यापी सत्यो नित्यः सनातनः ॥१॥ स सूर्यः स एव वह्निः स आकाशः स मारुतः । स जलं स प्रमात्मा यो वसति सदात्मसु ॥२॥ गुरुदेव ! कः पुण्यात्मा ? नरेन्द्र इति पृष्टवान् । परोपकृतये यस्तु पीड्यते स कृती जनः ॥३॥ Jain Educationa International For Personal and Private Use Only Page #16 -------------------------------------------------------------------------- ________________ कथ्यतेऽत्र स पुण्यात्मा परतापं छिनत्ति यः । तस्य गुरू रामकृष्णो नरेन्द्रमित्युवाच सः ॥४॥ यो दुःखी परदुःखेन सुखी परसुख्खेन च । यो हरेत् परकष्टं स पुण्यात्माऽस्ति सुमानवः ॥५॥ कोऽस्ति धर्मो मनुष्याणां? विवेकानन्दः पृष्टवान् । न कस्याऽप्यहितो भावो मनसा वाचा कर्मणा ॥६॥ दमनमिन्द्रियाणां च मौनं च सत्यभाषणम् । पालनं सद्गुणानां च दानं दया मनःशमः ॥७॥ चित्तेन कर्मभिर्वाण्या न कस्याऽप्यहितं कुरु । प्रताडयेर्न कस्यापि शरीरं हृदयं मनः ॥८॥ समय एव सम्पत्तिर्व्यर्थं तलहि यापय । समयेनैव सिद्ध्यन्ति कार्याणि नहि वेतसा ॥९॥ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः । संत्यज्य तस्मादालस्यं कर्मनिष्ठः सदा भव ॥१०॥ निराशो नो भवेस्त्वं हि, हताशोऽपि च नो भवः । कालव्ययी नाऽत्र भूत्वा संयमी च सदा भवेः ॥११॥ निद्रालुनॊ भव त्वं हि, तन्द्रालुश्चाऽपि नो भवः । सत्समयञ्च विज्ञाय मितव्ययं त्वमाचरेः ॥१२॥ कुर्याः परोपकारं च येन पुण्यं सदा भवेत् । शिष्य ! कार्या साधुसेवा रक्षामीशः करोतु ते ॥१३॥ गुरुदेव ! नमस्तुभ्यं विवेकानन्द इत्यवक् । नमः परमहंसाय रामकृष्णाय स्वामिने ॥१४॥ वर्षे षडशीत्यधिके त्वष्टादशशताब्दके । षोडशेडगस्त्ये पञ्चत्वं रामकृष्णो जगाम हि ॥१५॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. Jain Educationa International For Personal and Private Use Only Page #17 -------------------------------------------------------------------------- ________________ कविकुलतिलकेभ्यः प्रणत्यञ्जलि: देवर्षिकलानाथशास्त्री अजरामरकाव्यस्य प्रथमः कविः आदित्य-मङ्गलैयों द्यावाभूमी कविर्हि जग्रन्थ । तदनु निरन्तर-सर्गक्रमबद्धां काव्यपद्धतिं सुषुवे ॥ कोटिकल्पशतकेष्वपि यल म्रियते न जीर्यते जातु । आद्यं हि रचयितारं वन्दे तं देवमस्य काव्यस्य ॥ वाल्मीकिः क्रौथीकारुणिकान्तरोत्थितमहत्-संवित्-प्रकाश-स्फुरन्मर्यादापुरुषोत्तमीयचरिताऽऽलोकैर्जगद् भासयन् । सीतायाश्चरितामृतं प्रकटयन्नुभावयन् मारुते श्चारित्र्यं प्रतिभांशुभिर्विजये वाल्मीकि राद्यः कविः ॥ कालिदास-भारवि-माघ- वैदुष्यस्य द्रढिम्ने सुरगिरिसुधियोऽधीयते नैषधीयं जयदेव-श्रीहर्षाः शृङ्गारोत्कर्षसिद्ध्यै सुरसिकजयदेवस्य गीतीणन्ति । यान्ति प्रौढार्थभङ्गीरधिजिगमिषवो भारविं वाऽथ माघं किन्तु द्राक्षाम्रदीयःकृतिपरिचितये कालिदासं श्रयन्ते ॥ बिल्हणः काव्यज्ञाः कलयन्तु कर्णकुहरे मोचारसस्पर्धिनीः शीताश्मप्रतिबिम्बिताउमलकलानाथप्रभासोदरीः । फुल्लत्-पल्लव-सौविदल्ल-विसरल्लोलम्बकल्लोलकूत् कडूल्लिप्रतिमल्ल-बिल्हण-वचोवैदग्ध्यविस्तारिकाः ॥ जगन्नाथः ललितां कवितां सहैव गुम्फन् रसगङ्गाधर-सिद्धशेमुषीभिः । लहरीषु लयं गिरां विवृण्वन् स जगन्नाथकृती विलक्षणोऽमि । मञ्जुनाथः श्रीकृष्णकवेर्वंशे तैलङ्गानां विदां जनि लेभे । मथुरानाथकवीन्द्रो जयपुरविद्वत्-कुलाऽग्रगण्यो यः ॥ स हि मञ्जुनाथनाम्ना नूतनछन्दःसु नव्यकाव्यभिदाः । ललितनिबन्धकथोपन्यासादीन्यद्भुतानि जग्रन्थ ॥ नूतनपथप्रवर्तक-कृतये तस्मै स्व-नामधन्याय । कविवृन्दशिरोमणये श्रद्धासुमनांस्यभीक्ष्णमर्प्यन्ते ॥ __ -C/8, पृथ्वीराज रोड, सी.स्कीम, जयपुर ३०२००१ Jain Educationa Interational For Personal and Private Use Only Page #18 -------------------------------------------------------------------------- ________________ दुर्जनशतकम् एच्. वि. नागराजराव् जिना जयन्ति जीवेभ्यो जातेभ्यो जगतीतले । दुर्मदैर्दुर्जनैर्दत्तं दुःखं दग्धुं धृतोद्यमाः ॥१॥ कृष्णः करोतु कुशलं कालिन्दीकूलकेसरी । तर्जयन्तश्च गर्जन्तो दुर्जना येन भर्जिताः ॥२॥ दुर्जनानां स्वभावं च सतां क्लेशं च तत्कृतम् । विवरीतुं नागराजो विद्वान् शतकमभ्यधात् ॥३॥ ब्रह्मा विष्णुश्च शम्भुश्च विलसन्ति दिवौकसः । विहाय तान् दुर्जनानां काव्यं कस्माच्चिकीर्षसि ॥४॥ इति पृच्छन्ति विद्वांसः सप्रश्रयमहं ब्रुवे । यन्निवारणमिष्टं स्यात् ते ज्ञेया आमया इव ॥५॥ समाजस्याऽऽमया दुष्टा वर्ण्यन्ते ते मयाऽधुना । तत्स्वभावं विजानन्तो जनास्तिष्ठन्तु जागृताः ॥६॥ हेतुः सज्जनदुःखानां केतुः कलिथस्य च । ओतुः सौजन्यदुग्धस्य दुर्जनो वर्धतेऽनिशम् ॥७॥ दुर्जनाः कपटाटोपपटवः कटुभाषिणः ।। कठोराः कष्टजलधौ सज्जनं मज्जयन्त्यमी ॥८॥ Jain Educationa Interational For Personal and Private Use Only Page #19 -------------------------------------------------------------------------- ________________ तर्जयन्ति गिरा मुग्धान् भर्जयन्ति सुहृद्वजान् । वर्जयन्ति सुधीवृन्दं दुर्जनाः पापकारिणः ॥९॥ दुर्जनाः पण्डितंमन्याः खण्डयन्त्यखिलान् कवीन् । सत्यवाचो दण्डयन्ति मण्डयन्त्यसतीगिर: ॥१०॥ वर्णयन् मूर्खधनिनः सर्वदा कार्यचातुरीम् । आकर्णयंस्तत्प्रलापान दुर्जनोऽर्जति भोजनम् ॥११॥ कार्यं यदा साधनीयं गृह्णन्ति चरणौ तदा । कार्ये सिद्धे विकर्षन्ति दुर्जनास्तौ विना त्रपाम् ॥१२॥ नारिकेलस्य काठिन्यं दुर्गन्धो लशुनस्य च । कारवेल्लस्य तिक्तत्वं दुर्जनेऽस्ति गुणत्रयम् ॥१३॥ पूजयन्ति प्रशंसन्ति सत्कुर्वन्ति च पण्डितम् । दुर्जनाः स्वार्थसिद्ध्यर्थं तद्भङ्गे दूषयन्ति तम् ॥१४॥ पर्जन्य इव भूतेषु समदृष्टिर्हि दुर्जनः । निष्पक्षपातौ तौ यस्माज्जलं हिंसां च यच्छतः ॥१५॥ पर्जन्यरहिते देशे निर्जने दुर्जनं सृज । इत्युक्तः पद्मजः प्राह स मां तर्हि विहिंसति ॥१६॥ पुरोहितो वा राजा वा दासो वा गणको भटः । दुर्जनो यदि दूरात्तं त्यज मित्र सुखं भज ॥१७॥ येभ्योऽशिक्षत शास्त्राणि येभ्योऽलभत जीविकाम् । कष्टं दुष्टः स तान् शिष्टान् कृष्ट्वा पिष्ट्वा च नन्दति ॥१८॥ औदासीन्यं स्वदारेषु रासिक्यं च पस्त्रियाम् । धनोत्सर्गो वारनार्यां दुर्जने दृश्यते दृढम् ॥१९॥ मित्रं शत्रु तटस्थं च वञ्चयित्वाऽर्जितं धनम् । दुर्जनो द्यूतगेहेषु निर्लज्जं व्ययति स्वयम् ॥२०॥ यस्य क्रीडा शिष्टपीडा तोषणं परदूषणम् । विनोदो मित्रविद्रोहो वेधास्तं निर्ममे कुजः ॥२१॥ वाचंयमः कविगुणे कविदोषे तु वाक्पतिः । स्वोक्तिस्तुतौ चतुर्वक्त्रो दुर्जनो ज्ञायते न कैः ॥२२॥ दुर्जनो गृहमायाति दधानोऽतिथिकैतवम् । लब्धावकाशो हरते वित्तं गेहं च गेहिनीम् ॥२३॥ १० Jain Educationa Interational For Personal and Private Use Only Page #20 -------------------------------------------------------------------------- ________________ अन्धकारस्य हेतुत्वात् समौ दुर्दिनदुर्जनौ । मित्रदर्शनविघ्नौ तौ परिहायौँ प्रयत्नतः ॥२४॥ कृपणो दानवेलायां निपुणः स्वार्थसाधने । विचक्षणस्तथाऽन्येषां दुर्जनो लाभनाशने ॥२५॥ वृकोदरायते दुष्टः परगेहान्नभक्षणे । सतां च प्राणहरणे नित्यं काकोदरायते ॥२६॥ मन्दहासोऽपि दुष्टस्य चेतस्तुदति धीमताम् । लावण्यमिव वेश्यायाश्चोरस्येव च कौशलम् ॥२७॥ अरण्यं जम्बुकै हीनं नगरं मशकोज्झितम् । सो दुर्जनशून्यश्च विधात्रा किं न सृज्यते ॥२८॥ भञ्जयन्ति सतां यत्लान् रञ्जयन्ति नृपाधमान् । व्यञ्जयन्ति गुरोर्दोषान् प्रकृत्या हन्त दुर्जनाः ॥२९॥ नाऽस्त्राणि न च शस्त्राणि न शास्त्राणि न नीतयः । त्रायन्ते दुर्जनाल्लोकं भेकं सर्पादिवोत्प्लवाः ॥३०॥ पैशुन्यं यस्य मृष्टानं शिष्टपीडा च पायसम् । पीयूषं परिवादश्च दुष्टं तं वर्णये कथम् ॥३१॥ शैशवे चौर्यमभ्यस्य यौवने पारदारिकम् । दुर्जनो वार्धके द्रोहं कृत्वाऽन्ते याति नारकम् ॥३२॥ पुष्टा धृष्टाश्च ये दुष्टाः शिष्टान् कष्टेषु युञ्जते । गर्विष्ठान् लोकविद्विष्टान् तान् दष्ट्वाऽश्नन्ति कुक्कुराः ॥३३॥ सुहृत्तमा यस्य विटाः शठा यस्य च बान्धवाः । यस्योपदेशकाचोरा दुर्जनं तं विवर्जयेत् ॥३४॥ काटवं वचने यस्य पाटवं परदूषणे । चाटवो येन रच्यन्ते दुष्टं तं दूरतस्त्यजेत् ॥३५॥ दुर्जनो रात्रिवेलायां घूकवद् घोरदर्शनः । दिवा स एव रटति काकवत् कर्कशस्वर: ॥३६॥ निवार्यमाणा अपि ये गायन्ति मशका इव । कर्णाभ्यर्णं समागत्य वध्यास्ते दुर्जनाधमाः ॥३७॥ रन्ध्रान्वेषणनिष्णाता आधिव्याधिप्रसारकाः । सद्विच्छेदनविद्वांसो दुर्जना मूषिका इव ॥३८॥ Jain Educationa Interational For Personal and Private Use Only Page #21 -------------------------------------------------------------------------- ________________ गृधवत्सूक्ष्मदृष्टिश्च गोमायुरिव वञ्चकः । काकवत्सर्वभक्षश्च दुर्जनः केन वर्ण्यते ॥३९॥ संनिवेशानुगुण्येन वर्णस्य परिवर्तने । कृकलासान् हेपयन्तो विजयन्तेऽत्र दुर्जनाः ॥४०॥ सिंहायते दुर्बलेषु दुर्जनस्तर्जयन् बहु । सारमेयायते धुन्वन् पुच्छं प्रबलसम्मुखे ॥४१॥ विधातर्दुर्जनं सृष्ट्वा कृतार्थो जनपीडने । मशकान् मत्कुणान् आखून् किमर्थमसूजः पुनः ॥४२॥ चिपिटैरअलिग्रारुिदरं परिपूर्यते । दुर्जनाः किं नु कुर्वन्ति तदर्थं पापसंचयम् ॥४३॥ नाऽन्लेन न च गीतेन स्त्रीसङ्गेन न दुर्जनः । तथा तुष्यति लोकानां मुग्धानां पीडया यथा ॥४४॥ पीडनाय च साधूनां पोषणाय च दुष्कृताम् । दुर्जनाः पापरक्षायै सम्भवन्ति युगे युगे ॥४५॥ दुर्जनं नीतिवाक्येन सज्जनं यश्चिकीर्षति । क्षीरस्नानेन स शिलां मृद्वी कर्तुमिहेच्छति ॥४६॥ परेषामवमानेन मातापित्रोरवज्ञया । गुरुणां खण्डनेनाऽपि मोदन्ते दुर्जनास्सदा ॥४७॥ विराजते दुर्जनेषु द्वयमन्योन्यसलिभम् । क्रौर्यमत्यन्तनिशितं तीक्ष्णं चाऽसत्यभाषणम् ॥४८॥ रामो राम इव श्लाध्यः पितृवाक्परिपालने । दुर्जनो दुर्जन इव निन्द्यो विश्वस्तवञ्चने ॥४९॥ क्षुधार्तव्याघवत्क्रूरो दुर्जनो ज्ञातिमारणे । जालनिर्बद्धमृगवद् दीनः साहाय्ययाचने ॥५०॥ मेषे यथा मेषपालप्रीतिः स्वार्थेरिता सदा । तथैव दुर्जनप्रेमा मित्रेष्वपि च बन्धुषु ॥५१॥ यथैव मृगयोर्दृष्टिलग्ना लक्ष्ये पशौ स्थिरा । दुर्जनस्य तथा चित्तं वञ्चनीये नरे स्थितम् ॥५२॥ विद्याहीनो दुर्जनः स्यान्मनाग लोकापकारकः । विद्यावान् दुर्जनो भूयः सर्वलोकभयङ्करः ॥५३॥ १२ Jain Educationa International For Personal and Private Use Only Page #22 -------------------------------------------------------------------------- ________________ Jain Educationa International राजानं वञ्चयित्वा च त्रासयित्वा च दुर्बलान् । दुर्जनोऽर्जति यत्तस्य तत्पापं वर्धयिष्यति ॥ ५४॥ निष्कारणं हसन् दन्तान् दर्शयंश्च कृताञ्जलिः । स्वार्थं संसाधयन् श्वेव द्वारि तिष्ठति दुर्जनः ॥५५॥ द्वेषे कारणे शीघ्रं कारणं तन्निवारयेत् । निष्कारणद्वेषिणः का दुर्जनस्य प्रतिक्रिया ॥ ५६ ॥ अन्तरं सज्जने नाऽस्ति नमस्कारे कृतेऽकृते । अकृते दुर्जनः कुप्येत्तदादौ नम दुर्जनम् ॥ ५७ ॥ शिवालयं समागत्य दुर्जनैर्भाषितं मिथः । श्रुत्वा हालाहलरसं देवः स्मरहरोऽस्मरत् ॥५८॥ अग्निं विषं खड्गधारां सर्पदंष्ट्रां च पद्मजः । स्मारं स्मारं दुर्जनस्य जिह्वां रम सृजति ध्रुवम् ॥५९॥ पितरं मातरं पत्नीं भ्रातरं सुहृदं गुरुम् । यो हन्ति दुर्जनोऽर्थाय क्च तस्य नरकः कृतः ॥६०॥ पण्डितान् अवजानीते याचकान् अवमन्यते । अतिथीन् ह्रेपयत्युक्त्या दुर्जनो मानुषाधमः ॥ ६१॥ एकचक्रपुरे येन पाण्डवा भिक्षुकाः कृताः । दुर्योधनो दुर्जनानां गुरु: केनाऽत्र वर्ण्यताम् ॥६२॥ दुर्जनत्वमहावार्धेस्तरङ्गाः सर्वतोमुखाः । कामक्रोधद्वेषलोभा दुर्निवाराश्च दुःखदाः ॥६३॥ दुर्जनाग्निमहाज्वाला दन्दहीति जगद्वनम् । सिक्तं सज्जनमेघाद्भिस्तत् कथञ्चित् प्ररोहति ॥ ६४ ॥ रूपं वस्त्रं वचोऽपि स्यात् समानं दुष्टशिष्टयोः । व्यङ्क्तः किन्तु तयोर्भेदं कृतघ्नत्वकृतज्ञते ॥ ६५ ॥ समस्तलोकोपकारी सज्जनः क्वाऽमृतप्रदः । समस्तलोकापकारी दुर्जनः क्व विषप्रदः ॥६६॥ सज्जनस्याऽवमानेन भूयस्तुष्यन्ति दुर्जनाः । हंस विद्राव्य सरसो बका हृष्यन्ति सर्वदा ॥ ६७ ॥ कैर्विना सरो भाति विना सर्पैश्च चन्दनः । दोषैर्विना भाति काव्यं दुर्जनैश्च विना सभा ॥६८॥ १३ For Personal and Private Use Only Page #23 -------------------------------------------------------------------------- ________________ गीताश्लोकांस्त्रिचतुरान् कण्ठस्थीकृत्य दुर्जनः । प्रतारयत्यचतुरान् सभायां शुक्रवत् पठन् ॥६७॥ वृषभो निर्विषाणोऽयं पुच्छहीनश्च जम्बुकः । अदंष्ट्रः कालसर्पश्च दुर्जनस्तर्जनस्सताम् ॥६८॥ योजयत्येव कपटं पूजयन्नपि दुर्जनः । भोजयलपि मृष्टानं चामरैर्वीजयलपि ॥६९॥ यस्य रोषाज्जगत्प्लोषो यस्य द्वेषाज्जनक्षयः । यस्य दोषात् सतां क्लेशो दुर्जनो दुर्जयो हि सः ॥७०॥ अवज्ञा सर्वविद्वत्सु प्रज्ञा पविनाशने । प्रतिज्ञा शान्तिभङ्गे च ख्यातं दुर्जनलक्षणम् ॥७१॥ निष्कारणं प्रजायन्ते केषुचिद् द्रुषु कण्टकाः । दुर्जनेषु च मात्सर्यद्वेषक्रोधमदाः सदा ॥७२॥ मयूरदुर्जनौ लोके ख्यातौ प्रकृतिगर्विणौ । चारेणाऽऽद्यो धिनोत्यस्मान् धुनोत्यन्यो मनस्सदा ॥७३॥ दनुजेन्द्रो रामजायां जहार जनकात्मजाम् । चौर्यं चञ्चलचित्तानां दुर्जनानां निसर्गजम् ॥७४॥ कंसो जिघांसुः श्रीकृष्णं निजघान बहून् शिशून् । दुर्जनः कस्यचिच्छत्रुर्मुग्धान् अन्यान् विहिंसति ॥७५॥ विष्टपे दुष्टभूयिष्ठे कष्टं शिष्टस्य भाषणम् । लोके काकैः समाकीर्णे कथं कूजतु कोकिलः ॥७६॥ सर्वो गर्वोऽपि तेऽखर्चः पर्वतायैव शाम्यतु । काठिन्ये त्वादृशा दुष्टाः सन्ति सर्वत्र भूतले ॥७७॥ बोभूयन्ते वचस्सा दुर्जनाननकानने । निन्दा तेषां तीक्ष्णदंष्ट्रा द्वेषः क्ष्वेडस्तु मारकः ॥७८॥ परनिन्दा स्वप्रशंसा दानाभावः प्रतिग्रहः । पौरोभाग्यं गुणे मौनं स्पष्टं दुष्टस्य लक्षणम् ॥७९॥ सज्जनाः सभयास्सन्ति दुर्जना भान्ति निर्भयाः । निलीयन्ते क्वाऽपि हंसा विजृम्भन्ते च वायसाः ॥८०॥ जिज्ञासया न पृच्छन्ति प्राज्ञं किञ्चन दुर्जनाः । अनिच्छन्नप्यच्छमतिः स यच्छत्युत्तरं शुचि ॥१॥ १४ Jain Educationa International For Personal and Private Use Only Page #24 -------------------------------------------------------------------------- ________________ शिष्टो दुष्ट इति ब्रह्मा न फाले कृतवान् लिपिम् । गुणेन कर्मणा वाचा तौ विज्ञेयौ प्रयत्नतः ॥८२॥ सिंहान् व्याघांश्च कुर्वन्ति विधेयान् कुशला जनाः । दुर्जनान् सज्जनान् कर्तुं कथं ते नहि शक्नुयुः ॥८३॥ दुष्टोऽप्यङ्गुलिमालोऽभूच्छिष्टो बुद्धोपदेशतः । महात्मनां सन्निधानं साधयत्यद्भुतं भुवि ॥८४॥ नर: प्राप्नोति दुष्टत्वं समाजस्य प्रभावतः । व्याधगेहशुको वक्ति “जहि मारय चोरय” ॥५॥ विशिष्टैरुपदिष्टश्चेद् दुष्टः प्राप्नोति शिष्टताम् । सप्तर्षिबोधितो व्याधो बभूवाऽऽदिकविः किल ॥८६॥ दुर्जनेभ्यो नमो येषां कारणाद् भगवान् हरिः । सर्वेषामपि भक्तानां बोभवीत्यक्षिगोचरः ॥८७॥ धिक शिष्टानु येषु सर्वत्र विराजत्सु धरातले । कार्याभावात् सदा निद्रां चाऽऽलस्यं श्रयते हरिः ॥८॥ किं भानि भान्ति गगने भ्राजमाने प्रभाकरे । दुष्टानां कः प्रभावः स्याच्छिष्टे राजनि राजति ॥८९॥ दिवाचरा इवोलूका द्विपदा इव मर्कटाः । सवस्त्रा इव भल्लूका दुर्जनास्सन्ति भूतले ॥१०॥ दुष्टा एवाऽत्र वन्द्या ये कष्टं प्रत्यस्य सन्ततम् । इष्टान् देवान् स्मारयन्तो धृष्टतां वारयन्ति नः ॥१॥ कारुण्यं न व्यञ्जयन्ति ग्राहनेत्राश्रुबिन्दवः । सूचयन्ति न सौजन्यं दुष्टवक्त्रेषु सूक्तयः ॥१२॥ आचार्यान् ये वञ्चयन्ते विनिन्दन्ति जिनानपि । मुनीन् ये च विघांसन्ति ते विनश्यन्तु दुर्जनाः ॥१३॥ पठन्ति भगवद्गीतां गङ्गाम्भसि लुठन्ति च । तथाऽपि दुर्जनाः स्वीयं न मुञ्चन्ति कठोरताम् ॥४॥ विधेर्वक्त्राणि चत्वारि रावणस्य दशाऽभवन् । सहस्रमादिशेषस्य परार्धं दुर्जनस्य तु ॥१५॥ कदाचिच्छत्रुरूपेण कदाचिन्मित्ररूपतः । कदाचित्पुत्ररूपेण जनान् हिंसति दुर्जनः ॥६॥ १५ Jain Educationa International For Personal and Private Use Only Page #25 -------------------------------------------------------------------------- ________________ दुर्योधनस्य दौरात्म्यात् पाण्डवाः प्राप्नुवन् यशः । सतां कीर्तर्निदानाय दुर्जनाय नमो नमः ॥१७॥ महतां नाम बिभ्राणो दुष्टो न सुजनायते । खद्योतनाम बिभ्रत् किं सूर्यति ज्योतिरिङ्गणः ॥८॥ सज्जना यदि दृश्यन्ते जगन्नन्दनसलिभम् । दुर्जना यदि वीक्ष्यन्ते सव्याघ्रगहनोपमम् ॥७९॥ मायाविनां मात्रिकाणां तात्रिकाणां च सन्निधौ । सज्जना यान्ति विलयं लभन्ते दुर्जनाः श्रियम् ॥१०॥ दुर्बलो दुर्जनो ब्रूते पीयूषमधुरं वचः । स एव प्रबलो भूत्वा वक्ति वाचं विषोपमाम् ॥१०१॥ सर्वेभ्यः प्रतिगृह्णाति कस्मैचिल प्रयच्छति । भुङ्क्ते ऽन्येषां गृहे किन्तु न भोजयति दुर्जनः ॥१०२॥ मित्रद्रोहो निष्ठुरत्वं निर्लज्जत्वं नृशंसता । वाचाटत्वं वञ्चकत्वं दुर्जनाभरणानि षट् ॥१०३॥ न कश्चिदस्ति लोकेऽस्मिन् दुर्जनों न पीडितः । अदष्टो मशकैः कश्चिदस्ति किं वसुधातले ॥१०४॥ ईर्ष्यासूया च दम्भश्च क्रोधो द्वेषश्च दुर्जने । पञ्च दोषाः सदा सन्ति व्याघ्रपादे नखा इव ॥१०५॥ रामो विरामः पापानामारामो गुणभूरुहाम् । दण्डयत्वेष कोदण्डी दुर्जनाख्यदशाननान् ॥१०६॥ वीतरागो महावीर: कामक्रोधौ निवार्य मे । तनुतां मङ्गलं धीरो हीरोपमगुणार्णवः ॥१०७॥ रचितं दुर्जनशतकं विद्वन्मोदाय नागराजेन । भवताद् गणेशकूपया सकलानां प्रीतिभाजनं सुधियाम् ॥१०८॥ इति श्रीनागराजरचितं दुर्जनशतकं समाप्तम् । 90, 9th Cross, Navilu Rasta, Kuvempunagar, Mysore 570023 Ph. : 821-2542599 Jain Educationa Interational For Personal and Private Use Only Page #26 -------------------------------------------------------------------------- ________________ Jain Educationa International श्री भक्तामर स्तोत्र - स्तोत्रम् ॥ डॉ. वासुदेव: पाठकः 'वागर्थः' सरलत्वं स्वभावस्य विशिष्टसिद्धिकारणम् । विशिष्टसिद्धि सिद्धानां प्रसादः स्यात्पदे पदे ॥ विना स्वार्थं, परार्थं हि विनोपक्षां विशेषतः । सहजं स्रवते तत्र स्तोत्रं मन्त्रात्मकं हितम् ॥ भेदबुद्धिं विना शिष्टा विशिष्टा वन्द्य-वन्दना । दृढयेद्धि विनाऽऽयासं समेषां धर्मधारणाम् ॥ मुदा मनीषिभिर्भक्त्या निर्व्याजं च जितेन्द्रियैः । यदेव गीयते गानं तन्मन्त्रात्मकमुच्यते ॥ हृद्यं हितकरं स्तोत्रं मानतुङ्गाह्वसूरिभिः । भक्तामरेति नामानं कृतं कल्मषहारकम् ॥ सर्वथा संस्कृतं स्तोत्रं पठितं पाठितं परम् । परमार्थं दिशत्येव परमोन्नतिसाधकम् ॥ भक्तामरसास्वादः कस्य नोन्नतिकारकः । स्तोत्रं मन्त्रात्मकं चैतन्नूनं पतितपावनम् ॥ प्राकृतं परिहृत्यैव संस्कृतं साधयत्यनु । प्रासङ्गिकं तथाऽप्येतत् स्तवनं सिद्धिदं शिवम् ॥ पूजात्मकं परेशस्य यद्यपि स्यात् सहेतुकम् । निराडम्बरतायुक्तं निगडबन्धनच्छिदे ॥ भक्तामरस्तवं भव्यं भावैर्भद्रात्मकैर्युतम् । भूतिदं हृद्गतं कुर्वन् जीवनं धन्यतां नयेत् ॥ १७ For Personal and Private Use Only ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद - १५. ( गुज.) फोन : ०७९-२६७४५७५४ Page #27 -------------------------------------------------------------------------- ________________ हितार्थं तवैव डॉ. वासुदेव: पाठकः 'वागर्थः ' हितार्थं तवैवाऽरखलं चिन्तयामि नमस्ते नमस्ते नवामि नमामि । भवन्तं भवन्तं भवन्तं भजामि मुदा भावभावैर्भवन्तं नमामि ॥ न मे प्रीतिमत्त्वं, न मे शत्रुमत्त्वम् सदा सक्षमत्वं तथाऽपि दयत्वम्; शुभार्थं समत्वे मनः संदधामि हितार्थं तवैवाऽरखलं चिन्तयामि ॥ विरोधे न वीरा विपक्षे वसन्ति नु विषं वैरभावेन वाण्या चमन्ति; सदौदारभावेन तद् विस्मरामि, हितार्थं तवैवाऽरखलं चिन्तयामि ॥ अहं, 'भाव - जेता शुभानां प्रणेता विजेताऽशुभानां, विनम्रोऽस्मि नेता; त्वदीयाय कार्याय सत्तां स्मरामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ गतेऽप्यत्र निर्वाचने सम्मतिर्वः निर्वाचनेऽऽगामिनि स्यात्तथा वः; त्वां सेवितुं जीवनं धारयामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ दम्भश्छलं कैतवं नैव कार्यम् जानेः तवाऽर्थं तथाऽप्यावकार्यम्; कृत्वाऽपि * पापं, सुखं ते सृजामि हितार्थं तवैवाऽस्खलं चिन्तयामि ॥ १. अहंभाव (गर्व) जेता | अहं भाव-जेता = सद्भाव-जेता । अस्तित्त्वम् / ईशत्वम्, सत्ता - आधिपत्यम् । Jain Educationa International — - — नमस्ते नमस्ते नमस्ते नमस्ते नमस्ते - For Personal and Private Use Only - - - - በ " ॥ ॥ २. सत्ताम् = ३. सम्मतिः = 'मत' इति भाषायाम् । ४. अत्र काव्ये, राजकीये क्षेत्रे, येन केन प्रकारेण, परेषां परोपकारस्य छलेन, ये निजं स्वार्थं साधयन्ति, ते सहासं निरूपिताः । १८ " Page #28 -------------------------------------------------------------------------- ________________ हाईकु-काव्यानि डॉ. हर्षदेव माधवः (१) आग्नेयकीटाः पठितुं प्रयतन्ते तमो-हृदयम् ॥ (६) मनः कूर्दते शरीररेलयानात् प्रभ्रष्टस्मृत्यै ॥ (११) सवस्ते पुरे कस्मै पृच्छेच्छलभः पुष्पसङ्केतम् ॥ (२) कांश्चित् पादपान् विहाय परकीयं सर्वं हि मह्यम् ॥ (७) शृङ्गं चालय न्मेघपङ्के निमग्नं चन्द्र-वत्सकम् ॥ (१२) वृष्टिः / पादपान् उन्मूलितान् मे मनः . प्ररोहयति ॥ (३) गृहप्राङ्गणे मेघस्य पत्रकारा इन्द्रगोपकाः ॥ (८) पृच्छति भेकः कुशलं पल्वलाय ग्रीष्मशुष्काय ॥ (१३) कुर्वन्ति भेकाः श्रावणपुण्यस्नानं क्रोडैः पल्वले ॥ (४) वृष्टिः / मातरं मार्गयति प्रभ्रष्टं कपि-शिशुकम् ॥ (९) पुराणी खट्वा यौवनोन्माद-रमृतौ सजीवा जाता ॥ (१४) असुराक्रान्ता रक्षाधीना वसन्ति देवालयेशाः ॥ वृष्टिः / कोटरे विद्युन्मूकं वेपते शुक-मिथुनम् ॥ (१०) मत्तोऽन्विष्यति पशेष पल्वलं वृष्टौ वराहः ॥ (१५) नाऽभिजानन्ति राजमार्गास्तिमिरं पुर-रथ्यानाम् ॥ 8, Rajtilak Bunglow, Nr. Abadnagar, Bopal, Ahmedabad-380058,M. 9427624516 Jain Educationa Interational For Personal and Private Use Only Page #29 -------------------------------------------------------------------------- ________________ *सत्यस्याऽनुवादः डॉ. वासुदेवः पाठकः 'वागर्थः' वच्मि विनम्रा प्रजापतेदुहिता, अहं कविता । वच्मि वेदनांकुर्वन्ति कलुषितां मां कविसुताम् । शृण्वन्त्वधुना मदीयं निवेदनम् विहाय गर्वम् । शुण्वन्तु सर्वे कविकर्मदाक्षिण्ये भ्रान्ताः भवन्तः । कथयत्येकः समर्थो महाकविः अहमेवाऽस्मि । यथाकथञ्चित् शब्दजालं कुर्वाणाः नैव कवयः । अखिले विश्वे कविस्तु प्रजापतिः सत्य-सर्जकः । कथयत्यन्यः अहमहमिकया वैशिष्ट्यं निजम् । याचेऽत्र क्षमा, सर्वेऽप्यत्र भवन्तः अनुवादकाः। तस्यैव काव्यं न कदापि जीर्यति नित्यनूतनम् । जानन्तु सर्वे भो आततायिनः ! त्रस्ताऽरम्यनेन । अनुवादकाः, सत्यस्येव काव्यस्य अनुवादकाः ॥ एवं सत्यपि, कविकल्पानां वान्तं काव्यसर्जने । * अत्र काव्ये 'हाईकु' इति काव्यप्रकारस्य परम्परया दशभिः पद्यैः कवयः(?) बोधिताः सहासम् ॥ २० Jain Educationa Interational For Personal and Private Use Only Page #30 -------------------------------------------------------------------------- ________________ अन्तरालापाः ॥ डॉ. वासुदेव: पाठकः 'वागर्थः ' [संस्कृतसाहित्यस्य विविधासु विधासु, 'अन्तरालापाः' इत्यस्ति विशेषः प्रकारः । तस्याऽप्यनेकेः प्रकाराः । " अत्र, एकप्रकारे, प्रस्तूयन्ते कतिपयानि सुभाषितानि एतेषु पङ्क्तित्रयी प्रश्नरूपा, चतुर्थी तावत् शब्दत्रयीमयी उत्तररूपा । चतुर्थी तु, सूक्तिरूपाऽपि भवति, इत्यस्ति विशेष: ॥] रासे हतासु का मुग्धा ? धन्या का धारणे वरा ? सीता तुष्टा कदा प्रीता ? राधा धरैव वत्सला ॥ अहिंसादेशिकः कोऽस्ति ? प्रसन्नः सज्जनः कदा ? कश्च साफल्यमाप्नोति ? महावीरः शुभे रतः ॥ प्राथम्यतश्च किं सेव्यम् ? स्वास्थ्यं कस्माच्च लभ्यते ? कदा सेवा समर्च्यानाम् ? आरोग्यं भास्करात् सदा ॥ सत्कार्यं कार्यमद्यैव ? महत्त्वं कस्य जीवने ? प्राणानां प्रति को धर्म: ? कार्यं स्वास्थ्यस्य रक्षणम् ॥ Jain Educationa International २१ राधा कस्य प्रिया प्रोक्ता ? भक्ताः जानन्ति किं वरम् ? कीदृशं देवरूपं भोः ? कृष्णस्य शरणं वरम् ॥ किं कार्यम् उत्तमं दृष्ट्वा ? कार्यं कस्य च रक्षणम् ? धन्यं जनैश्च किं कार्यम् ? इच्छेत् जीवस्य जीवनम् ॥ प्रीत्याः फलश्रुतिः काऽस्ति ? लोके रक्षति कः सदा ? जितेन्द्रियः कथं लोके ? अहिंसा धर्मः अच्युतः ॥ कुर्वन्ति किं सदा भद्राः ? साधकः किं करोत्यहो ? ईश्वरस्य प्रियः कोऽस्ति ? भद्रं साध्नोति भक्तिमान् ॥ For Personal and Private Use Only Page #31 -------------------------------------------------------------------------- ________________ सज्जनाः कीदृशाः सन्ति ? नित्यं पूज्याश्च के मताः ? के सदा हितमिच्छन्ति ? शान्तिदाः गुरवः प्रियाः ॥ कया संवर्धते प्रीतिः ? ज्ञानेन वर्धते च किम् ? किं करोति शिवस्याऽर्चा ? प्रीत्यैव परमं शिवम् ॥ Jain Educationa International 斑 २२ विना भीतिं नु का सेव्या ? का पूज्या प्रीतितः परा ? कल्याणी स्यात्कथं माता ? शिवा माता स्वभावतः ॥ [शिवा = For Personal and Private Use Only कल्याणदा, हरितकी, पार्वती ] जीवने करणीयं किम् ? कस्य सेवा च भावतः ? आशीर्वादात्मकं किं स्यात् ? कार्यं पूज्यस्य पूजनम् ॥ ३५४, सरस्वतीनगर. आंबावाडी, अमदावाद - १५. ( गुज.) फोन : ०७९-२६७४५७५४ Page #32 -------------------------------------------------------------------------- ________________ आस्वादः पशु-पक्षिणां स्मरणशक्ति: मुनिकल्याणकीर्तिविजयः पूर्वतन्यां शाखायामस्माभिः केषाञ्चन प्राणिनां पक्षिणां च विलक्षणायाः स्मृतिशक्तेरुदाहरणानि परिशीलितानि । तदनुसन्धान एवाऽत्राऽपि केषाञ्चिदितोऽपि विलक्षणानां जीविनां स्मरणशक्तेरुदाहरणानि विलोकयामः । गुञ्जकः पक्षी (Humming bird ) हि केवलं ग्रामचतुष्टयपरिमाण एवाऽस्ति । ततश्च तस्य देहस्याऽत्यन्तं लघुत्वाच्चयापचयक्रियाऽतीव वेगेन प्रचलति । यदा स निष्क्रियो भवति तदाऽपि स्वीयशारीरिकभारपरिमाणमधिकृत्य प्रतिग्रामं १६-घनसेन्टिमिटरमितं प्राणवायुं व्ययीकरोति, यतो निजे लघावुदरे सञ्चितस्य पुष्परसस्य स तेन प्राणवायुनाऽतिशीघ्रतया दहनं करोति । यदा स उड्डयनं करोति तदा प्रतिक्षणं ( per second ) नवतिं वारान् पक्षावास्फालयन् प्रतिग्रामं ८५ - घनसेन्टिमिटरमितं प्राणवायुं व्ययीकरोति । ततश्च तेन पूर्णोदरं पीतः पुष्परसस्तस्योदरे निमेषत्रयमपि नाऽवशिष्यते । एवंस्थिते तेन पक्षिणा पुष्परसस्य चषका वारं वारमुदरसात् कर्तव्याः । दीर्घमन्तरालं यदि विनाऽऽहारेण व्यतीतं स्यात् तदोर्जाया अधिकव्ययेन स पक्षी काभिश्चिद् घण्टाभिरेव मृत्युं प्राप्नोति । अस्य विवरणस्य सारोऽयमस्ति यत् - सततं पुष्परसं गवेषयतस्तस्य पक्षिण ऊर्जाव्ययभयेन तेषामेव पुष्पाणां साक्षात्कारः कर्तव्यो यानि पुष्परसशून्यानि न भवेयुः । 1 यद्यपि, पुष्पाणां रसं पायं पायं तानि तच्छून्यान्यपि स एव पक्षी करोति । तथा, रसशून्यानां पुष्पाणामपि पुनस्तद्रसोत्पादनार्थं कश्चन काल आवश्यकः । एवंस्थिते गुञ्जकपक्षिणो लघुनि मस्तिष्के स्थितायाः स्मरणशक्तेरुपरि प्रश्नद्वयस्य निर्वहणमापतति – पुष्पस्य जातिमाश्रित्य नूतनस्य पुष्परसस्योत्पादनार्थं कियान् समयो व्यतीयात् ? तथा, कस्य पुष्पस्य साक्षात्कारस्तेन कियतः कालात् पूर्वं कृतः ? इति । Jain Educationa International २३ For Personal and Private Use Only Page #33 -------------------------------------------------------------------------- ________________ प्रश्नद्वयस्याऽपि समुचितमुत्तरं गुञ्जकपक्षिणा निर्णेतव्यमन्यथा तस्य व्यर्थ ऊर्जाव्यय उदरपूरणार्थं चाऽन्यत्र भ्रमणमित्याद्याः समस्याः समापतेयुः । यदि च तस्य स्मृतिरेतत् सर्वं ज्ञातुं सक्षमा स्यात् तदा तस्योर्जाऽपि रक्षिता स्यात् पुष्पसाक्षात्कारश्च सफलः स्यात् । गुञ्जकपक्षी प्रश्नयोरनयोः समुचितं समाधानं प्राप्तुं पर्याप्तां स्मरणशक्तिं धारयति । किन्तु प्रायोगिकवृत्त्या तत्प्रमाणं प्राप्तुं ब्रिटनदेशीय-एडिनबर्गविश्वविद्यालयस्य संशोधकैः फेब्रवरी(२००६)मध्ये केचन प्रयोगाः कृताः । तैर्हि गुञ्जकपक्षिभिः सङ्कीर्णे स्थाने शर्करारसभृतानि कृत्रिमपुष्पाणि पङ्क्तिबद्धानि स्थापितानि, सूक्ष्मनलिकाद्वारा च तेषु पुनरपि रसपूरणस्य व्यवस्थाऽपि कृता । तैः पुष्पाणि विविधवर्णयुतानि स्थापितान्यासन् रसपूरणस्य समयोऽपि च पृथक् पृथक् निश्चितः । अथ च गोधूमबीजपरिमाणं मस्तिष्कं धारयता गुञ्जकपक्षिणाऽल्पेनैव कालेन पुष्पेषु गमनागमनं कृत्वा तत् समयपत्रकं समवगत्य स्वीयस्मृतौ सङ्ग्रहीतम् । ततः स तत्समयपत्रकानुसारेणैव स्वोदरपूरणकार्यक्रमं प्रवर्तितवान् । प्रयोगस्य साफल्यमेवं जातं यत् - कतमं पुष्पं कियता कालेन रसपूरितं स्यात्, तथा कतमस्य पुष्पस्य रसस्तेन कियतः कालात् पूर्वमुदरसात् कृतः - इत्येतद् द्वयमपि स्वानुभवेन तेन निर्णीतमासीत् स्मृतौ च सगृहीतमपि । एतत् कार्यं कर्तुं प्रासङ्गिकी (episodic) स्मृतिरावश्यकी, या चाऽद्यावधि मनुष्येश्वेव भवेत् - इति वैज्ञानिकानां मन्तव्यमासीत्, सा गोधूमबीजपरिमाणे गुञ्जकपक्षिणो मस्तिष्केऽपि विद्यते इति ज्ञात्वा ते संशोधका महान्तं विस्मयं प्राप्ताः । मधुमक्षिकाविषयिकी विचारणां कुर्याम तावत् । तुच्छतया परिगण्यमानस्याऽस्य कीटकस्य मस्तिष्कं केवलं ०.००००७ ग्राम परिमाणमस्ति । तस्मिंश्च कोषाणां सङ्ख्या ९५,०००तोऽधिका नास्ति । (मनुष्यमस्तिष्के तु १०० अर्बुदतोऽप्यधिकाः कोषाः सन्तीति मन्यन्ते वैज्ञानिकाः ।) अथ चेयदल्पपरिमाणे मधुमक्षिकाया मस्तिष्के कियती वा स्मरणशक्तिर्भवेत् ? वयं चिन्तयेम यदतीव तुच्छा स्यात् । किन्तु नैव, आहारगवेषणार्थं भौगोलिकचिह्नानां यथार्थमालेखं कुर्वत्या मधुमक्षिकायाः स्मरणशक्तिर्नूनं बलवती भवति । कियती बलवतीति चेत् संशोधकानां प्रयोगानुभवं पश्यामः । उत्तरअमेरिकायामगस्तमासानन्तरं पुष्पोद्गमस्य प्रमाणमतीवाऽल्पीभवति । एतेन मधुमक्षिकाणां पर्याप्त आहारो न प्राप्यते । तदात्वे जेम्स-गोल्डनामकेन कीटकशास्त्रिणा प्रयोगकरणार्थं वने एकत्र स्थाने शर्करारसस्य भाजनमेकस्य मधुकोशस्याऽनतिदूरं न्यस्तवान्, स्वयं च कुत्रचिन्निलीय तन्निरीक्षणं कृतवान् । अल्पेनैव कालेन काश्चन मधुमक्षिकास्तत्र समागत्याऽऽहारार्थं मधुनिर्माणार्थं च तमेव शर्करारसं गृह्णन्ति स्म । अयं च तेषां नित्यक्रमो जातो यतः अगस्तमासानन्तरं तु कुत्राऽपि पुष्पाणामुद्गम नैवाऽऽसीत् । इतश्च जेम्स-गोल्डः प्रतिदिनं तत् शर्करारसभाजनमधिकाधिकतया पश्चिमायां दिशि अग्रेऽपसारितवान्, प्रान्ते च स तद् भाजनं मधुकोशात् १५० मिटर्-दूरे स्थापितवान् । किन्तु तस्य चिन्तनानुसारं मधुमक्षिकाणां तद् भाजनं प्राप्तुं न कदाऽपि काचन बाधा समुत्पन्ना, यतस्ताभिः प्रत्यहं पश्चिमदिश्येव किञ्चनाऽधिकमुड्डयनं कर्तव्यमासीत् शर्करारसप्राप्त्यर्थम् । अपि च, भाजनं तु सदाऽपि तेषां दृष्टिफलके तिष्ठति स्मैव । २४ Jain Educationa International For Personal and Private Use Only Page #34 -------------------------------------------------------------------------- ________________ ततः स मधुमक्षिकाणामधिकपरीक्षणार्थं काश्चन मधुमक्षिका एकस्मिन् पिहिते भाजने पूरयित्वा मधुकोशात् १५०मिटर्-दूरे नैऋत्यदिशि प्रापितवान्, भाजनं चोद्घाटितवान् । अस्मात् स्थानात् शर्करारसभाजनं द्रष्टुं शक्यं नाऽऽसीत्, मधुकोशस्तु सम्यक्तया दृश्यमान आसीत् । ततश्च तासां मधुमक्षिकाणां कृते सर्वोऽपि भौगोलिको विन्यासः परावर्तितः । इदानीं ता मधुमक्षिकाः शर्करारसपात्रं शोधयितुं केन मार्गेण गच्छेयुरिति द्रष्टव्यमासीत् । गोल्डस्य चिन्तनमासीद् यत् किल मधुमक्षिकाः प्रथमं पुरतो दृश्यमानं मधुकोशं प्रति गच्छेयुस्ततश्च नित्याभ्यासवशात् पश्चिमदिशि स्थापितं पात्रं प्राप्नुयुः । यदि च तासां तादृशी कल्पनाशक्तिर्न स्यात् तदा ता अभ्यासवशात् साक्षात् पश्चिमदिश्येवोड्डयनं कुर्युर्यत्र शर्करारसप्राप्तेः सम्भावनैव नाऽऽसीत् । किन्तु, गोल्डस्याऽऽश्चर्यं जातं यत् ताभिर्मधुमक्षिकाभिर्द्वयोरेकतरोऽपि सम्भावितो मार्गो नैव चितः । भाजनाद् बहिरागत्य ता मधुमक्षिकाः कतिचन क्षणानि यावत् तु दिशाशून्या इव सञ्जाताः । परन्तु तदनन्तरं ता एकैकशो वायव्यदिशो मार्ग निश्चित्य शर्करारसपात्रं प्रति प्रस्थिताः । तच्च पात्रं यद्यपि तासां दृष्टिगोचरं जायमानं नाऽऽसीत् , तथाऽपि एकेनैव प्रयत्नेन कथमिव ताभिस्तद् भाजनं गवेषितं नामेति जेम्स-गोल्डस्य महदाश्चर्यं जातम् । पिहितेन भाजनेन स्थलान्तरं प्राप्तास्ताः कथं नाम ज्ञातवत्यो यत् तासां लक्ष्यमिदानी ४५-अंशीयकोणेऽस्ति न तु १८०अंशीये कोणे ? अत्र तर्कसङ्गतं समाधानमेवं स्यात् – पुरा हि मधुकोशात् शर्करारसभाजनं प्रति प्रत्यहं गच्छन्तीनां तासां मस्तिष्के वृक्षादीनां भौगोलिको विन्यासोऽङ्कितो जातः । ततश्च यदा स विन्यासः परावृत्तस्तदा ताभिः पुराणेन विन्यासेन सह नूतनविन्यासस्य वैसदृश्यं यथावदवगत्य शर्करारसभाजनप्रापणार्थं नूतनो मार्गो गवेषितः । अर्थात् सर्वा अपि मधुमक्षिकाः स्वीये सूक्ष्मे मस्तिष्के दैशिकी स्मृतिशक्तिं (Spatial memory) धारयन्ति स्म। मधुमक्षिकातोऽप्यधिकरसप्रदं वृत्तं तु सामनजातीयमत्स्यानामस्ति । मधुमक्षिका हि स्वीयस्मृतिपटे भौगोलिकं विन्यासमालेखयन्ति, सामनमत्स्यास्तु तत्तद्गन्धरूपेण तत्तद्वस्तु-स्थानादीनि स्मरन्तीत्ययमस्ति द्वयोविशेषः । जन्मनः समनन्तरमेव यो बोधस्तस्य जायते स आजीवनं तन्मस्तिष्के स्मृतिरूपेण सगृहीतो भवति । अयमेवाऽस्ति तस्याऽन्यमत्स्येभ्यो विशेषः । तस्याऽन्यदपि वैशिष्ट्यमस्ति यदितरेषु मीनेषु सामान्यतया न विद्यते । सामनमत्स्या हि नद्या मधुरे जले यथा वसितुं शक्तास्तथा सामुद्रे लवणांशयुक्ते जलेऽपि वसन्ति । प्राय: ५०-७५सेन्टिमिटरप्रमाणोऽसौ मीनो हि मुख्यतया अमरिका-केनेडा-ग्रीनलेन्डनोर्वे-स्कोटलेन्डादिदेशेषु वहन्तीनां नदीनामुद्गमस्थानेष्वेव स्वीयानण्डान् प्रसवति । नद्यास्तले युक्तं गर्तं खनित्वा समकालमेव प्रायशो दश सहस्राणि अण्डान् प्रसूय, तं गतं च सिकतया पूरयित्वा मीनोऽसौ सामुद्रं जलं प्रतिगच्छति, न किन्तु स्वीयानण्डान् रक्षितुं तत्राऽवतिष्ठते । मासचतुष्टयानन्तरं तेभ्योऽण्डेभ्यो ये शावा जायन्ते ते स्वीयजीवनस्य प्रायः सार्धत्रयवर्षाणि तत्रैव नद्या मूले व्यतिक्राम्यन्ति, किन्तु तदनन्तरं तेऽपि समुद्रं प्रति गन्तुं सज्जीभवन्ति । एकस्मिन्नेव दिवसे लक्षशो मीनाः समकालमेव समुद्रजलं प्रति २५ Jain Educationa Interational For Personal and Private Use Only Page #35 -------------------------------------------------------------------------- ________________ प्रस्थानं कुर्वन्ति । नदीमूलादारभ्यमाणोऽयं प्रवासो नदीप्रमाणो दीर्घस्तु भवत्येव खलु !। अमेरिकाया उत्तरप्रदेशे स्थितस्याऽलास्काराज्यस्य युकोननदी प्राय: ३२०० किलोमिटर्-प्रमाणाऽस्ति, अतस्तन्मूले स्थितानां सामनमीनानां प्रवासोऽपि तद्दी| भवत्येव । सामुद्रजलं प्राप्य ते मीनाः सामान्यमीनवदेव सप्त वर्षाणि यापयन्ति । तदनन्तरमकस्मादेव तेषां स्मृतिशक्तेः प्रभावोऽनुभूयते । सर्वासामपि तासां मीनानां मनसि समकालमेव 'प्रतिभाति' यदिदानी तैरप्यण्डानि प्रसवितव्यानीति, तथा तान्यपि तेषामेवाऽलास्का-ग्रीनलेन्ड-नोर्वे-स्कोटलेन्डादिदेशानां तत्तन्नदीनामुद्गमस्थानेषु, यत्र वर्षदशकपूर्वं स्वयं जाता आसन् ! प्रत्येकं सामनः स्वस्वदेशं तत्र प्रवहन्तीं च निजनिजनदीमन्विष्य प्रतिश्रोतस्ती| कुत्रचिच्च प्रपातमपि समतिक्रम्योत्कटं प्रवासं कृत्वा नद्याः मूलं प्राप्नुवन्ति । युकोननद्या मूले जिगमिषुणा मीनेन तु पुनः ३२०० किलोमिटरप्रमाणः प्रतिप्रवासः कर्तव्यः । अत्र विस्मयावहो वृत्तान्तस्त्वयं यत् प्रत्येकं सामनमीनो जानाति यत् तेनाऽमुकनद्या एव मूले गन्तव्यं यत्र वर्षदशकात् पूर्वं तज्जन्माऽभवदिति । कथमेतत् संभवेत् ? संशोधकै रहस्यमेतदेवं प्रकटीकृतमस्ति - सर्वोऽप्ययं चमत्कारः सामनमीनस्य जन्मकाले तन्मस्तिष्क सङ्ग्रहीतस्य नदीजले विद्यमानस्य विलक्षणगन्धस्याऽस्ति । नद्या जले हि विविधा वनस्पतयो, वृक्षपर्णानि, सेवालः, जलजजीवानामवशेषाः, भृगुभ्यः सम्मिश्रितानि खनिजद्रव्याणि - इत्यादीनि विलक्षणं गन्धं प्रसारयन्ति । यद्यपि स गन्धोऽत्यल्पप्रमाण एव भवति तथाऽपि नवजातः सामनमीनस्तं गन्धं स्मृतौ यावत्कथिकतया सङ्ग्रह्णाति । ततः स्मृतिस्थेन तेन गन्धेन नदीमूलस्थजलीयगन्धस्य साम्यं विनिश्चित्य स्वीयं जन्म स्थानं च ज्ञात्वा सामनमीनस्तत्रैवाऽण्डानि प्रसवितुं याति । यदि गन्धसाम्यं न निश्चीयेत तदा सोऽन्यान्यनदीमूलं गत्वा गन्धसाम्यं च विनिश्चित्य जन्मस्थानमन्विषति ततश्चाऽण्डानि प्रसवति । ___यद्यपि सामनमीनायाऽण्डप्रसवार्थं स्वीयजन्मस्थलीयं नदीमूलमेव किमपि रोचते इति तु संशोधकै व ज्ञायते, तथाऽप्येतत् तु स्पष्टं यदियच्चिरकालीनस्मृतिशक्तेरन्यदुदाहरणं प्रकृतौ न क्वाऽप्यवाप्यते ।। अथ, केनचिद्रूपेण सामनमीनतोऽपि विशिष्टा स्मृतिस्तु अमेरिकादेशस्थाया रोकीपर्वतमालायाः निवासिनः प्रायशः पादमितदैर्घ्ययुतस्य नटक्रेकर(Nutcracker)पक्षिणोऽस्ति । विहगोऽयं स्वीयाभिधानानुसारं कवचयुक्तफलस्य कवचं भित्त्वा तदन्तःसाररमुदरसात् करोति । शीतकाले रॉकीपर्वतेषु कवचयुक्तफलानि काष्ठफलानि चाऽत्यल्पतया प्राप्यन्ते । अतो यदा तानि सौलभ्येन प्राप्यन्ते तदात्वे समूहचारी विहगोऽयं यथाशक्यमस्य सङ्ग्रहं कृत्वा स्थानेषु प्रतिस्थानं त्रि-चतुराणि फलानि निधानतया निखातयति । (एकेन नटक्रेकरसमूहेन स्वीयेऽधिकृते वासविस्तारे एकदा पृथक् पृथक् ५००० स्थानेष्वाहत्य ३३,००० फलानि निखातानीति संशोधकैनिरीक्षितम् ।) निखातस्थलेषु कुत्राऽपि न किञ्चिदपि चिह्न तेऽङ्कयन्ति तथाऽपि बहुमासानन्तरमपि ते स्वयं निखातानि सहस्रशः फलानि सरलतयाऽन्वेष्टुं शक्ताः, तत्र च ते प्रतिशतं नवत्या अपि अधिकतया साफल्यं प्राप्नुवन्ति । २६ Jain Educationa International For Personal and Private Use Only Page #36 -------------------------------------------------------------------------- ________________ अमेरिकीयसंशोधकैस्त्वितोऽपि कांश्चन प्रयोगान् कृत्वा पक्षिणामेतेषां स्मृतिशक्तिः परीक्षिता । तैर्हि समतलभूमौ चतसृषु दिक्षु पी.वी.सी.द्रव्यस्य चतुरः खण्डान् निखाय तन्मध्यभागे इतस्ततः कानिचन काष्ठफलानि निखातानि तदुपरि च मृत्तिका विकीर्णा । ततो बुभुक्षितो नटक्रेकरपक्षी तत्राऽऽनायितः । तेन च तत्क्षणमेव स्थलविशेष खात्वा कवचयुक्तं फलं निष्कासितम् । इदमेव स्थलं तेन किमर्थं चितमिति संशोधका निर्णेतुं नैवाऽपारयन् । किन्तु तैः पी.वी.सी.खण्डानां स्थानं परावृत्य प्रयोगः पुनरावर्तितः । तत्राऽपि यदा पक्षिणा स्थलविशेषे एव खात्वा फलं निष्कासितं तदा संशोधकर्जातं यत् पी.वी.सी.खण्डान् योजयन्त्यौ कल्पिते रेखे यत्र परस्परं छिनत्तः स्म तत् स्थानं नटक्रेकरपक्षिणोऽभीष्टमासीत् । तर्कमिमं प्रमाणयितुं तैः पुनरपि पी.वी.सी.खण्डानां स्थानं परावर्त्य पक्षिसमक्षं कावचिकफलानां राशिरेवोपस्थापितः । पक्षिणा च ते एव कल्पिते रेखे यत्र परस्परं छिनत्तः स्म तत्रैव निखाय त्रि-चतुराणि फलानि स्थापितानि । एतैः प्रयोगैः पक्ष्ययं स्वस्थापितनिधानं कथमिवागन्विषतीति तु ज्ञातं स्फुटतया, किन्तु तेनाऽन्यः प्रश्नोऽयमुपस्थापितो यन्निधानतया सहस्रशाः फलानां स्थापनानन्तरं कस्मिन् स्थले कैर्वा भौगोलिकचिद्वैस्तानि स्थापितानीत्यादेर्बोधस्य सङ्ग्रहार्थं काले च तदुद्बोधनार्थं प्रचुरा चिरकालिकी तीक्ष्णा च स्मरणक्षमताऽऽवश्यकी. सा कथमस्मिन लघौ पक्षिणि चकास्ति ? - इति । संशोधकैरनुमितं समाधानं त्वेवमस्ति - नटक्रेकरपक्षिणो मस्तिष्के, चिरकालीनस्मृतेः सङ्ग्रहार्थमुपयुज्यमानं, 'हिपोकेम्पस'नामकमङ्गमधिकतया विकसितमस्ति, ततश्च तस्य स्मृतिस्तीक्ष्णा सूक्ष्मग्राहिणी चाऽस्ति । तस्याश्च कारणादसौ पक्षी फलदौर्लभ्यपरीतं शीतकालं निर्विघ्नतया यापयित्वा स्वीयमस्तित्वं रक्षति । अतः स्मृतेस्तीक्ष्णत्वं चिरकालीनत्वं प्राचुर्यमित्यादयः सर्वेऽपि गुणास्तदस्तित्वरक्षणे (Survival) एव पर्यवस्यन्ति । एवमेवाऽऽफ्रिकीयवनखण्डेषु द्विशताधिकवनस्पतीनामुपयोगं कुर्वाणस्य चिम्पान्झीवानरस्य तीव्रा स्मरणक्षमताऽपि स्वास्तित्वरक्षणार्थमेव, यतः कतमो वनस्पतिः किं प्रयोजनः किंगुणश्चेति सर्वं वानरो जानाति काले च स्मरत्यपि । तथैव भ्रमर्यपि स्वबिलादाहारार्थं बहिः प्रयाति तदा पुनरागमनार्थं भौगोलिकचिह्नानामभिलेखं मस्तिष्के रचयत्येव । एतदपि स्वास्तित्वरक्षणार्थमेव । किं बहुना ? समग्रायाः पशुजातेः पक्षिजातेश्च स्मरणशक्तेरेकमेव प्रयोजनमस्ति स्वस्य स्वान्वयस्य चाऽस्तित्वस्य रक्षणम् (Survival) ! न किञ्चिदन्यत् !! (आधारः गूर्जरभाषीयं विज्ञानसामयिक सफारी) २७ For Personal and Private Use Only Jain Educationa International Page #37 -------------------------------------------------------------------------- ________________ नीरोगिताया रहस्यम् आस्वादः मुनिकल्याणकीर्तिविजयः ऐसवीये द्वादशे शतके हारितनामक आयुर्वेदाचार्यो बभूव येन हारितसंहितेत्यभिधानो ग्रन्थो लिखितोऽस्ति । अयं ग्रन्थस्तेन स्वजीवने कृतस्याऽविरतस्याऽऽयुर्वेदाभ्यासस्य चिरकालं च प्राप्तस्य चिकित्सानुभवस्य नि:ष्यन्दस्वरूपोऽस्ति । ग्रन्थेऽस्मिन् तेन प्रतिपादितमस्ति तेन यन्मनुष्यस्य ये रोगा जायन्ते तेषां भूयांसो रोगा तेन कृतानां विविधानां दुष्कृत्यानां पापकर्मणा वा कारणाज्जायन्ते । दुष्कृत्यं पापकर्म वा कुर्वतो मनुष्यस्य चित्तवृत्तिषु निश्चितं परिवर्तनं जायतेऽथवैवमपि वक्तुं शक्यं यत् प्रथमं तु मनुष्यस्य चित्तवृत्तावेव दुष्कृत्यकरणमारभ्यते, तदनन्तरमेव तद् दुष्कृत्यं बहिराविर्भवति । यद्यपि मनुष्यः स्वस्यं दुष्कृत्यस्य जनमध्ये त्वस्तु स्वमनस्यपि प्रतिषेधनं करोति, तद् यथार्थमेवाऽस्ति कालोचितमेव वाऽस्ति - इत्यादि स्वयमपि विचारयति जनानां मध्येऽपि च प्रमाणीकर्तुं प्रयतते । एवं सत्यपि तस्याऽन्तःकरणे यो दुर्भाव उत्पन्नः स तस्य वैचारिकभूमिकां रुधिराभिसरणं च दूषयत्येव । तदनु यथाकालं शरीरस्यैकस्मिन् नियते भागे तद् दूषितं बीजं दुष्कृत्यतीव्रतानुसारं येन केनचिद् रूपेण प्रकटीभवति । यदा च तत् प्रकटीभवति तदा वयं - रोगो जात इति कथयामः । उदाहरणार्थ, हारित एवं कथयति - यो जनः प्रतिवाक्यं वारं वारं वाऽपशब्दान् गालिशब्दान् वा प्रयुङ्क्ते तस्य शरीरे पिटकानां व्रणानां वोत्पत्तेः सम्भावनाऽधिका भवतीति । एवंरीत्या तेन प्रायः प्रत्येकं दुष्कर्मणो रोगस्य च तेनाऽनुसन्धानं कृतमस्ति । स कथयति यद् - यं कमपि विचारं भावं संवेदनं वा मनुष्यः सातत्येन स्वचित्ते भावयति तत्प्रभावस्तस्य देहे वाचि कर्मसु चाऽनुभूयत एव । यतस्तत्तद्भावस्य प्राबल्येन देहे नियतानि रासायणिकसंयोजनानि जायन्ते, तेषां च संयोजनानां कारणतरे मनुष्यस्य शरीरं तदनुरूपं भवति, वागपि तादृश्येव जायते, कर्माण्यपि तदनुरूपाण्येव करोति सः । ___ यस्य मनसि सदैव क्रोधस्य द्वैषस्य वैरस्य वा भावः प्राबल्येन संवेद्यते तस्य मुखरेखा: यादृश्यो भवन्ति ततो यस्य मनसि प्रेम कारुण्यं सत्यं धर्मो साम्यमित्यादयो भावाः संवेद्यन्ते तस्य मुखरेखाः सर्वथा Jain Educationa International For Personal and Private Use Only Page #38 -------------------------------------------------------------------------- ________________ भिन्ना एव दृश्यन्ते । यद्यपि क्रोधी जनः कदाचिदत्यन्तकुटिलस्वभाववशात् प्रेम्णः कारुण्यस्य वा दम्भं कृत्वा स्वीयमुखरेखाः परावर्तयेदपि, किन्तु तस्याऽन्तःकरणे तु क्रोधेन सह कौटिल्यं दम्भोऽपि च सम्मीलितो भवति । ततश्चैतद् विकृतित्रैविध्यं तद्देहस्य रासायणिकसंयोजनानि महता प्रमाणेन क्षुब्धानि करोति । एतादृशीः क्षुब्धता मनसिकृत्यैव हारितेन विविधलक्षणानां गभीरमध्ययनं कृतं, तत एव च तेषां निषेधात्मकानि विधेयात्मकानि च लक्षणानि वर्गीकृतानि । स कथयति यत् - कश्चन जनो यदि सततं द्वेषभावं धारयेत् स्वमनसि, तेन बाह्यजगतो न कश्चिद् विशेषः स्यात् । परन्तु धातुपात्रे स्थापितमम्लद्रव्यं तत् पात्रमेव नाशयेद् यथा, तथा सततं भाव्यमानो द्वेषः स्वीयशान्तिमेव विक्षिपेत् कालान्तरे च शारीरिकी मानसिकी चेत्युभयथा हानि प्रकल्पयति । एतादृशा भावा अवश्यं त्याज्या एव । ___ एतद्वैपरीत्येन केचन भावास्तादृशाः सन्ति येषां सततं भावनेन मनुष्यस्य दैहिकी प्रक्रिया निर्मलीमसीभवति क्रमशश्च सर्वथोत्तमा भवति, तथा तस्य मानसिकं स्तरमप्युच्चत्वं प्राप्यमाणं क्रमेण तथा सबलं भवति यथा तन्न केनाऽपि विक्रियेत । __ अत्र पक्षद्वयेऽपि स्थूललाभस्य स्थूलहानेर्वा न किमपि महत्त्वमस्ति । कश्चन क्रोधी द्वेषी वा जनः स्वीयक्षेत्रे पूर्णं साफल्यं प्राप्तः स्यात्, भौतिकी सम्पदपि तस्याऽपारा स्यात्, समाजादिषु च तस्य प्रतिष्ठाऽपि स्यात् । एतद्विपरीततया सत्य-प्रेम-करुणादयो भावा यदस्तित्वं व्याप्ता भवेयुस्तादृशो जनः समाजेनोपेक्षितोऽपि स्यात्, भौतिकी परिस्थितिरपि तस्य निम्नस्तरीया स्यात् । एवंस्थितेऽपि स्थूला परिस्थितिः कदाऽपि शाश्वतमानदण्डो न भवेत् । तस्य तस्य जनस्याऽऽन्तरिकी परिस्थितियथा मनस्तोषः सन्तापो वेत्यादय एव मानदण्डायेरन् । ____ अत्रैतत् तु स्वाभाविकमेव यत् सर्वेऽपि विधेयात्मकान् भावान् प्रशंसन्ति, एते एव भावयितव्याः सदाऽपि - इत्यादि कथयन्ति, स्वीयं सर्वमपि कार्यमेतैभावैर्व्याप्तमिति योजयितुं प्रयतन्तेऽपि; तथाऽपि वस्तुतस्तु विधेयात्मका भावा आत्मसात् कर्तुं दुःशका एव । कश्चन विशिष्टो जन एवैतेषां केनचन भावेन स्वस्य समग्रमप्यस्तित्वं व्यापयितुं शक्तो भवति तदा च स महापुरुषो भवति । यदि च तत्तद्भावस्य प्राकट्यमतिशयेन प्रबलं भवेत् तदा स महापुरुषो युगपुरुषत्वमासाद्य जगदुद्धारं करोति । अथाऽलं विस्तरेण, हारितस्य मुख्यं कथयितव्यमेव पुनरुच्चार्य विरमामस्तावत् । “मनुष्यस्य जायमाना रोगास्तेन मनोवाक्कायैः कृतानां विविधानां दुष्कृत्यानां पापकर्मणां चैव परिणामोऽस्ति ।" अतो यदि वयं रोगेभ्यः स्वं रक्षितुमिच्छामः स्वस्थतया जीवितुं चेच्छामस्तदा मनो-वाक्कायानि निर्मलीकर्तुं दुष्कृत्येभ्यः पापकर्मभ्यश्च दूरीभवितुं च प्रयतेमहि खलु ! । २९ For Personal and Private Use Only Jain Educationa international Page #39 -------------------------------------------------------------------------- ________________ आत्मीयबन्धो ! चेतन ! पत्रम् मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ॥ धर्मलाभोऽस्तु । भगवत्कृपयाऽस्माकं सर्वेषां देहः समीचीनोऽस्ति । तवाऽपि देहो निरामयः स्यादित्याशासे । भावनगरे चतुर्मासीं समाप्य स्थंभनतीर्थे (खंभातनगरे) आगतवन्तो वयम् । अस्मिन्नगरेऽस्य स्थंभनतीर्थाधिपतेः श्रीस्थंभनपार्श्वप्रभोः प्रतिष्ठाया वर्षाणां सप्त शतानि पूर्णानि जातानि । तन्निमित्तीकृत्य पार्श्वप्रभोः सुरेन्द्र-विद्याधर - नृपत्यादिभिः पूजिता, प्राचीनाऽलौकिका नयनरम्या या प्रतिमा यैः पूज्यगुरु भगवद्भिरत्र प्रतिष्ठिता, तेषामागमनवाङ्गीवृत्तिकार - पूज्यपाद श्री अभयदेवसूरीश्वराणां भव्यप्रतिमायाः Jain Educationa International ३० For Personal and Private Use Only Page #40 -------------------------------------------------------------------------- ________________ प्रतिष्ठामहोत्सव आनन्देन संपन्नो जातः । ततो विहृत्य कर्णावतीनगरे कियत्कालं स्थित्वा गोधरानगरे प्रभुप्रतिमा-गुरुमूर्तिप्रतिष्ठामहोत्सवार्थं गुरुभगवता साकं वयं विहरिष्यामः । बन्धो ! अद्य मोहविषयकं किञ्चिल्लेखितुमिच्छामि । विश्वमिदं रङ्गमञ्चरूपमस्ति । अस्मिन् रङ्गमञ्चे मोहनामा दिग्दर्शको हास्य-रति-अरति-भय-शोकेत्यादीनि विविधानि स्वरूपाणि रचयति । अत्रैक एव जनोऽवर्णनीयानि बहूनि स्वरूपाणि भजति । कदाचिद् हासयति, कदाचिद् रोदयति, क्रीडयति, उद्वेजयति, भापयति, प्रमोदयति, क्लेशयति चेत्यादि । अत्राऽऽश्चर्य त्वेतदेव यद् - एक एव जनः क्षणे क्षणेऽपरापररूपेण परिवर्तते । पूर्वक्षणे यो जनो हसति स्म, सानन्दं जनैः सह यः क्रीडति स्म च, स एवाऽपरक्षणे तु स्वस्मिन् यथा दुःखस्य गिरिः पतितः स्यात्तथा रुद्यात् । बन्धो ! चिन्तय - एकेन जनेन व्यापारः प्रारब्धः, दैवाद् झटिति बहु धनमुपार्जितम् । तथा परीक्षायामुत्तीर्णो भवेन्न वेति चिन्तया व्याकुलितेन तेन भाग्योदयेन परीक्षायां नवतिः प्रतिशतं (९०%) प्राप्ता । एवमकल्पनीयलाभे प्राप्ते सति प्रोन्मत्तीभूय प्रमोद कुर्वति सत्येव तेन समाचारः प्राप्तः - पुत्रेण वाणिज्ये रूप्यकाणां लक्षदशकं नाशितम्, उत पुत्रस्याऽपघातो जातः, इति । किं भवेत्तदा ? क्षणार्धेनेव स दुःखितो भवति । आनन्दः सुखं चाऽपि दुःखरूपेण परिवर्तितं भवति । एवं देव-देवीनां बह्वीभिः प्रार्थनाभिः पुत्रोऽवाप्तः । तत्पुत्रेण पत्न्या च सह पूर्णिमाचन्द्रोदये जाते सति सप्तभूमिके प्रासादे क्रीडते स्म सः । सहसैव पुत्रस्य देहे व्याधिः प्रकटितः । आहूतै राजवैद्यैर्बहव उपचाराः कृताः किन्तु सर्वेऽपि निष्फला जाताः । न केऽपि पुत्रं रक्षितुं शक्ता जाताः । स पुत्रो यमराजस ऽतिथिर्जातः । एवमानन्दगृहमपि श्मशानगृहरूपेण परिवर्तितमभवत् । कुटुम्बे शोकः प्रसृतः : एवमेकस्यैव पुत्रस्याऽभ्यासार्थं रूप्यकाणां कोटिळयिता । रूपवत्या सुशीलया च कन्यया सह विवाहः सञ्जातः । दुर्भाग्याद् द्वितीये मासे एव मातृ-पितृभिः सह क्लेशो जातः । ततस्तृतीये मासे तु पत्न्या सह पुत्रोऽन्यगृहे वस्तुं गतवान् । पिताऽऽक्रन्दते, व्याकुलिता माता चाऽपि रोदिति । चेतन ! तयोः पित्रोः का स्थितिर्भवेत् ? इयमेव संसारस्य वास्तविकताऽस्ति । संसारे कस्यचिदपीप्सितं न भूतं, न भवति, न च भविष्यति, किन्तु मोहराजो यत् कारयति तदेव भवति । वयं सर्वेऽपि मोहराजस्य किङ्कररूपा एव स्मः । ऋषिमुनयः साधकपुरुषाश्चाऽपि मोहाधीनाः किं न जाताः ? यदि तेषामपीदृशी गतिः सञ्जाता तर्हि किं भवेदस्माकम् ? तथाऽप्येतत्तु निश्चितं ज्ञेयं यद् मोहस्य पराजयो नाऽशक्यः । भो ! मोक्षमार्गो विद्यते, तीर्थकरा जाताः, अनेके जीवाः सिद्धिगति च जग्मुः । एतदेव प्रमाणीकरोति यद्, मोहराजं विजेतुं पुरुषार्थं कुर्यास्तहि स पुरुषार्थः सफलीभवेदेवेति । बन्धो ! विगते पत्रे इच्छाविषयिकी चर्चा कृताऽऽसीत् । इच्छाऽनन्ताऽस्ति । सा न कदाऽपि पूर्णीभविष्यति । वयं सर्वेऽभिलाषायाः शरणीभूता एव स्मः । अशुभेच्छैव न दुष्टा अपि तु शुभेच्छाऽपि Jain Educationa International For Personal and Private Use Only Page #41 -------------------------------------------------------------------------- ________________ हानिकरैवाऽस्ति, यत इच्छैव मोह:, मोहस्तु हानिकर एवाऽस्ति । किं जानासि त्वम् - कीदृशी कियती चेच्छोत्पद्यते ? इति । इच्छाया आरम्भोऽपि बाधारूप:, इच्छायाः पूर्तिरपि बाधारूपाऽस्ति यत इच्छाया मूलमस्त्यतृप्तिः, तच्छिखरमस्त्यहङ्कारः । एवमतृप्तिरहङ्कारश्चैव विविधेच्छानां जन्मदात्र्यस्ति । इच्छापूर्ती सत्यं जनो हसति प्रमोदते च तदपूर्तौ च रोदिति उद्विजति च । एवमिच्छापूर्ती सत्यां चित्तेऽहङ्कारः प्रकटति- मम सदृशः कः ? यदिच्छामि तद् भवत्येव, इति । अत इच्छाया उपरि विवेकरूपोऽङ्कुशो भवेत्तर्हि केषाञ्चिदपि सामर्थ्यं नास्ति यत्त्वामुद्वेजयेत् । I विवेको नामाऽऽत्मनो हिताहितयोर्निर्णयनम् । त्वं यत्किमपि कार्यं कुर्यास्तत्रैतत्कार्यं मे हितकरं नवेति विचिन्त्य कार्यं करणीयम् । अहितकरप्रवृत्तेस्त्यागः करणीयः, आस्तां तत् कार्यमीप्सितमपि स्यात् । इच्छां रुचि बाह्यसुखं च गौणीकृत्याऽऽत्महितमेव प्रधानीकृत्य प्रवर्तनीयम् । वस्तुतः कस्मिन्नपि कार्ये विवेकः केन्द्रीकरणीयः । विवेकस्तु दीपतुल्योऽस्ति । एक एव दीपकोऽपि बहून् दीपान् प्रद्योतयति, तथैव विवेकरूपो दीपकोऽपि सद्गुणरूपान् बहून् दीपान् प्रकटयति । भो ! यथा प्रगाढान्धकारं विनाशयितुं सहस्रवोल्टप्रमाणविद्युद्गोलकानि नाऽऽवश्यकानि, किन्तु केवलमावश्यकोऽस्ति लघुदीपः; तथैव चित्ते प्रवर्तमानं मोहान्धकारं संसार-धन-स्नेहिजनानां गाढासक्तिं चाऽपास्तुं वैराग्य-ज्ञान- क्रिया- तपइत्यादिकानि आवश्यकानि, किन्तु तत्राऽत्यावश्यंकोऽस्ति विवेकरूप एकोऽपि दीपकः । यतो विवेकशून्या धर्मक्रियाऽपि निरर्थिका । अत एव लोकैर्दीपकसदृशो विवेको वर्णितः । विवेको नाम प्रकाशो बोधश्च । मोहो नामाऽन्धकारोऽज्ञानं चेति । भो ! आत्मनोऽहितकरी या काऽपि प्रवृत्तिरज्ञानमेवोच्यते । अज्ञान्येवाऽहितकरं कार्यं कर्तुं प्रयतते, न च विवेकी । उक्तं च - ज्ञानस्य फलं विरतिः । विरतिर्नाम त्यजनम्, अशुभकार्याद् विरमणं च । अशुभस्याऽऽचरणमज्ञानाद् जायते तथैव शुभस्याऽऽचरणं न करणीयं तदप्यज्ञानादेव जायते । अत एव मोहोऽज्ञानमुच्यते । पूज्यपादश्रीहरिभद्रसूरीश्वरैः योगशतके कथितम् - अण्णाणं पुण मोहो ॥५१॥ अत्रोपरि वर्णितेनाऽर्थरूपेणाऽज्ञानशब्दः स्वीकरणीयः, किन्तु न किमपि ज्ञानं, न कोऽपि बोधः इत्यप्यज्ञानमुच्यते, तदत्र न स्वीकरणीयम् । एतयोर्द्वयोरज्ञानयोर्मध्ये महदन्तरमस्ति । एकमज्ञानं ज्ञानावरणीयकर्माधीनमस्ति, अन्यच्च मोहनीयकर्माधीनमस्ति । एतदज्ञानं त्वतीव हानिकरमस्ति, तथाऽनेकभवपर्यन्तं पीडयति । Jain Educationa International ३२ For Personal and Private Use Only Page #42 -------------------------------------------------------------------------- ________________ अन्यच्च, जगति तत्त्वद्वयमस्ति - सत् असच्चेति । तत्र विवेकः सत्-शुभं-हितकरं च गृह्णाति । मोहोऽसत् - अशुभम् - अहितकरं चैव गृह्णाति । महोपाध्यायश्रीयशोविजयैः प्रोक्तम् - गुरुप्रसादीक्रियमाणमर्थं गृह्णाति नाऽसद्ग्रहवाँस्ततः किम् । द्राक्षा हि साक्षादुपनीयमानाः क्रमेलकः कण्टकभुङ् न भुङ्क्ते ।। __ (अध्यात्मसारे ४-१५९) क्रमेलको द्राक्षं विहाय कण्टकमेव भुङ्क्ते तथैव मोहवान् - अज्ञानी जनो जिनशासनं तत्र प्ररूपितमुत्तमभावं सद्धर्मं सज्ज्ञानं सत्क्रियादिकं च विहाय संसारवर्धकमशुभं पापं चैव स्वीकरोति । बन्धो ! अस्मिन् जगति श्रेष्ठः सात्त्विकः शुभश्च धर्मोऽस्ति, तस्याऽऽराधकः सुख्येव भवति, सद्गति चैवाऽवाप्नोति । अपि च, तं धर्मं यो विराधयति तथा धर्मविघ्नकरान् महत्त्वाकाङ्क्षा-दम्भ-अभिमानादिकानसद्भावान् गृह्णाति स दुःख्येव भवति, अन्तेऽज्ञानमरणमेवाऽवाप्नोति । एवं विवेकशून्योऽज्ञानी मोहवान सद्धमाराधनं कृत्वाऽप्यशभं फलं प्राप्नोति । त्वं जानासि किल ! अस्माकं शासने ये सप्त निह्नवा जातास्ते सर्वेऽपि ज्ञानिनस्तपस्विनो भक्तिपरायणाश्चाऽऽसन् । सद्गतिप्रापकान्यात्मकल्याणकराणि सर्वाण्यपि साधनान्युपलब्धानि तैरासन् । तथाऽपि तेषामकल्याणं जातम् । कथम् ? इति प्रश्नस्योत्तरमेकमेव असद्ग्रहयुक्तत्वात् । जमालिनामानं निह्नवं स्मर । प्रभोधर्मदेशनां श्रुत्वा क्षत्रियाणां पञ्चशत्या सह जमालितं जग्राह । अधीतैकादशाङ्गीको जमालिः प्रभुणा सह विजहार । एकदा सपरिच्छदोऽहं पृथग् विहारेण विहर्तुमिच्छामीति जमालिना प्रभुर्भूयो भूयः प्राथितः । प्रभु!दतरत् । अनिषिद्धमनुमतमिति मत्वा जमालिरन्यत्र विहृतवान् । जमालिविहरन् श्रावस्ती नगरी प्राप । तस्य देहे पित्तज्वरो जातः । ततो मुनीन् संस्तारककरणायाऽऽदिशत् । सः । ते तत्कर्तुं प्रारेभिरे । ततो ज्वरपीडिताः सः पुनः पुनः संस्तारकः कृतो न वेति पप्रच्छ । संस्तारकः कृत इति निशम्य जमालिस्तत्र गतवान् । तत्र संस्तारकं क्रियमाणं दृष्ट्वा प्राप्तमिथ्यात्वः स क्रोधादब्रवीत् - संस्तारकः क्व कृतः ? तैरुक्तं - सिद्धान्तानुसारं क्रियमाणं कृतं भवतीति अतोऽस्माभिरुक्तं - कृतमिति । ततः स कथितवान् – क्रियमाणं न कृतं किन्तु कृतमेव कृतमिति मयाऽद्य ज्ञातम् । ततो भवद्भिः क्रियमाणं कृतमिति सिद्धान्तो यत् स्वीकृतः स मिथ्या । जिनेश्वरा उत्पद्यमानमुत्पन्नं क्रियमाणं च कृतमिति कथयन्ति, तत् प्रत्यक्षविरुद्धमस्ति । एवं तत्र जमालेर्मुनीनां च मध्ये विशेषतश्चर्चा प्रवृत्ता । मुनिभिर्युक्तिभिः प्रबोधितोऽपि स स्वाग्रहं न त्यक्तवान् । अन्ते आग्रहिणं तं केचिद् मुनयः त्यक्त्वा वीरप्रभुमुपजग्मुः । अन्यदा चम्पायां प्रभुः समवसृतः । गर्वोन्मत्तो जमालिस्तत्र गतवान् । प्रभुणा सह विवादः कृतः । प्रभुणाऽपि स जमालिः पुनः पुनः प्रबोधितः । तथाऽपि मिथ्यात्वोदयेन स न प्रबुद्धः, तथा समवसरणाद् Jain Educationa Interational For Personal and Private Use Only Page #43 -------------------------------------------------------------------------- ________________ बहिर्जगाम । तत: सङ्खेन निह्नवरूपेण घोषयित्वा स जमालिः सङ्घाद् बहिष्कृतः । चेतन ! ज्ञातं किम् ? स जमालि: प्रभोर्जामाता, तच्छिष्यः, भगवद्धस्तेन दीक्षितः, अनेकशिष्याणां गुरुः, प्रभोर्निश्रायां स्थित्वैवाऽऽगमविद् जातः । एवं सर्वमपि धर्माराधनानुकूलमासीत् । तथाऽपि केवलमेकस्य मतस्याऽऽग्रहवशात्तस्य भवभ्रमणं वृद्धिं गतम् । असद्ग्रहो नामऽज्ञानम्, अज्ञानं नाम मोहः । एष मोह एव जनान् संसारे भ्रामयति । I किञ्च - मोह एवाऽहितकरोऽस्ति तथाऽपि यदा मोहो मूढतारूपेण परिवर्तेत तर्हि सर्वतोऽहितकरो भवति । यतो मूढताप्रभावेणाऽनेके दोषा उद्भवन्ति । वस्तु स्थानं च प्रति, विशेषतश्च व्यक्ति प्रति च मोहान्धीभूतो जनो विवेकं लज्जां चाऽपि विस्मरति । मूढतया समाजे अहं मे कुटुम्बश्च कलङ्कितो भवतीत्यपि न जानाति । मूढीभूतो जनोऽहं कः ? मम कर्तव्यं किम् ? मम पूज्याः के ? समाजे मे पूज्यानां प्रतिष्ठा का ? एतादृग्वर्तनं मे शोभते ? इति सर्वमपि विस्मरति । मोहो - रागस्तु छद्मस्थानामस्माकं सर्वेषां चित्ते विद्यते एव, किन्तु स मोहः क्षम्योऽस्ति परं मूढता तु न क्षम्याऽस्ति । यतो मोहः केवलं स्वस्यैवाऽशुभकरो भवति किन्तु मूढता तु स्वस्य स्वकुटुम्बस्य चाऽप्यहितकरा भवति । ततो मोहो मूढतारूपेण न परिवर्तितः स्यादिति सदा स्मरणीयम् । बन्धो ! मोहं विजेतुमावश्यको यथा विवेकस्तथैव समभावोऽपि । समता नामाऽनुकूलायां प्रतिकूलायां चेति सर्वस्यामपि परिस्थित्यां रागो द्वेषो वा न करणीयः, किन्तु समानभावेन वर्तनीयमिति । मोह आत्मनः शुद्धं वास्तविकं स्वरूपमाच्छादयति सद्गुणान् च नाशयति, किन्तु समताऽऽत्मस्वरूपमुद्घाटयति, समतैव मोक्षद्वारमस्ति । यतः सर्वस्या अप्याराधनाया मूलमस्ति समतैव । समतां विना तु दया- तपो - ध्यानादिकं सर्वमपि निष्फलमस्ति । अध्यात्मसारे उक्तं च - किं दानेन तपोभिर्वा यमैश्च नियमैश्च किम् । एकैव समता सेव्या तरी संसारवारिधौ ॥३ - ३९॥ भोः ! शास्त्रेषु तु तावदुक्तं - ध्यान - तपो - दीक्षा - दयादिकमनुष्ठानं विनाऽपि केवलं समतयैव बहवो जीवाः शिवसुखं प्राप्नुवन्तः । उक्तं चाऽध्यात्मसारे Jain Educationa International आश्रित्य समतामेका निर्वृता भरतादयः । न हि कष्टमनुष्ठानमभूत्तेषां तु किञ्चन ॥ ३ - ४३|| भगवत ऋषभस्य माता मरुदेवी स्मृतिपथमायाति । ३४ For Personal and Private Use Only Page #44 -------------------------------------------------------------------------- ________________ ऋषभदेवप्रभुणा दीक्षाऽङ्गीकृता । तद्वियोगेन मे ऋषभः ऋषभः, ऋषभः क्व गतः, ऋषभः कदाऽऽगमिष्यति ? इति विलपन्ती निरन्तरं माता रोदिति स्म । पुत्रविरहोद्भूताश्रुप्रवाहैः तस्या नीलिकारोगो जातः । तेन सा लुप्तलोचना सञ्जाता । एवं मोहवशात् सहस्रं वर्षाणि यावत् पुत्रदुःखेन माता रुदितवती। यदा केवलज्ञानमवाप्य प्रभुविनीतापुर्यां समवसृतस्तदा भरतेन वार्तेषा ज्ञात्वा झटिति मातुः पादयोनमस्कृत्य कथितं - मातर् ! तव पुत्र ऋषभः आगत, त्वं तदुःखेन सदा रोदिति स्म, किन्तु पश्य, पश्य, ते पुत्रस्य सम्पत्, इति । ततो भरतो मातरं गजे आरोहयामास । ततो गजैस्तुरगैः स्यन्दनैः पत्तिभिश्चाऽनुस्रियमाणो भरतो दूराद् रत्नध्वजमपश्यत् । भरतो मरुदेवीमुवाच - देवैः प्रभोः समवसरणं निर्मितम् । तत्र देवानां जयजयारावः श्रूयते । दिवि गम्भीर-मधुरं दुन्दुभिर्ध्वनति । देवविमानानां किङ्किणीनादः श्रूयते । गन्धर्वा गायन्ति । देवाश्च स्वामिदर्शनहृष्टाः सिंहनाद कुर्वन्ति । एतन्निशम्य मरुदेव्या जातैरानन्दाश्रुभिर्नयनयोर्नीलिका नष्टा । निर्मलनयना सा माता पुत्रस्य देवर्द्धि पश्यन्ती मनसि चिन्तितवती - अहो ! एतादृशः स्वार्थी संसारः ! यस्मिन् पुत्रवियोगेऽहं सदा रोदिमि स पुत्रस्तु सानन्दं देवसुखमनुभवति । संसारेऽस्मिन् कः कस्य ? सर्वेऽपि स्वार्थिनः सन्ति - इति समभावे रममाणा सा पुत्रस्याऽतिशयान्वितां तीर्थकृल्लक्ष्मी पश्यन्ती च तन्मया जाता । तत्क्षणमेव साऽपूर्वकरणक्रमात् क्षपकश्रेणिमारुह्य युगपत् क्षीणकर्मा केवलज्ञानं प्राप्तवती, गजस्कन्धारूढैव चाऽन्तकृत्केवलित्वेन मोक्षपदं प्रपेदे। . बन्धो ! पश्य, मरुदेव्या न किमपि तपोध्यानादिकमनुष्ठानमाचरितं, किन्तु केवलं समतयैव शिवसुखं प्राप्तवती जाता सा । समता विवेकस्य सहोदरा भगिन्यस्ति । यत्र विवेकस्तत्र समताऽस्ति न वा, किन्तु यत्र समता तत्र विवेकोऽस्त्येव । विवेकस्तु शुभाशुभयोः कार्ययोनिर्णयं विधाय शुभमाचरितुं प्रेरयति । समता तु विवेकद्वारेण शुभकार्ये स्वीकृते सति तत्र कदाचिन्मनःस्खलना स्यात्तदा मनसि समाधानं कृत्वा पुनः स्वीकृते शुभकार्ये मनो नियोजयति । ततस्तत्कार्यं सफलीभवति । अतो मोहं पराजेतुं विवेकेन सह समताऽप्यावश्यकी । यदि त्वं द्वयोरेतयोः साहाय्यं प्राप्नुयास्तहि मोहराजो विविधानि स्वरूपाणि त्वामाचरितुं न निर्देष्टुं शक्तः स्यात् । अन्ते, एतज्ज्ञात्वा जीवने विवेक-समतयोः प्राप्त्यर्थं विशेषः प्रयत्न: करणीयस्त्वया । यतोऽस्मिन् संसारे एव स्थातव्यमस्ति अस्माभिः । क्षणे क्षणे मोहराजस्य निमित्तानि स्वागतं कर्तुमागमिष्यन्ति, इति निश्चितमस्ति । एवमेतदपि निश्चितमस्ति यदस्मिन् संसारे स्थित्वैवाऽऽत्मकल्याणं साधनीयमस्ति, इति । अतस्त्वमपि द्वयोः साहाय्येन झटिति कल्याणं साधयित्वाऽविचलं सुखमधिगच्छ, इत्याशासे । Jain Educationa Interational For Pers4 and Private Use Only Page #45 -------------------------------------------------------------------------- ________________ ललितकथा वैविध्यमयी व्यसनवीथिका । देवर्षिकलानाथ शास्त्री ग्रीष्मावकाशः खलु शिक्षणकर्मणामस्माकं बहुमूल्यो निधिः । अयमेव चाऽन्येषां प्रशासनादिषु शिक्षेतरकर्मसु नियोजितानामसूयाकारणम् । ते न जानन्ति यद् वयं शिक्षणकर्माणो ग्रीष्मावकाशेऽस्मिन् व्यस्ततरास्तिष्ठामः । परीक्षाणामुत्तरपुस्तिकानां मूल्याङ्कनं, योजनानिर्माणादीनि कार्याणि, प्राशासनिकादीनि च विविधान्यन्यकार्याण्येषु दिवसेष्वेव क्रियन्ते । ऐषमस्तादृशान्यन्यकार्याणि नाऽपतन्ममोपरि । अतोऽहमस्मिन् ग्रीष्मावकाशे नाऽभूवं व्यस्तः । अस्मन्मित्राणि भव्येशः, उपमन्युः, श्रौतायनः, चातक इत्यादयोऽवश्यं कार्यव्यापृता भवेयुः । तत एव तु तेऽस्मिन् ग्रीष्मावकाशे पर्वतविलासाय न गताः । अन्यथा तु प्रत्यब्दं कस्मिंश्चन शीतले गिरिशिखरस्थले (Hill Station) सपरिवारं गच्छन्ति ते । अहमपि प्रायशो गच्छामि । किन्तु वयं न गता अस्मिन् वर्षे । स्वगृहे स्थितोऽहं कार्यविहीनमात्मानमन्वभवम् । किन्तूक्तमेव भगवता कृष्णेन "न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' । अपरं च, अकर्मण्यामिमां स्थितिमसह्यामन्वभवम् । अतो यथैव भगवान् भुवनभास्करोऽस्ताचलमस्पृशत्, अहं सुहृत्संल्पपादिकर्मकाण्डाय प्रो.भव्येशस्य भवनं प्रति प्रतिष्ठे। ___ तत्र गत्वा किं पश्यामि यदन्ये सुहृदस्तु पूर्वमेव भव्येशस्य गृहे कृतोपवेशना आसन् । मया पृष्टम् - "अरे यूयमपि सर्वे कर्मविहीनाः, स्वतन्त्राः स्थ किम् ? यद्येवं तर्हि किमिति न सूचितोऽहम् ?" भव्येशः प्रहृतवान् - "बन्धो ! अस्माभिश्चिन्तितं यत्त्वं ग्रीष्मस्याऽस्याऽपराह्ने निद्राणः स्याः, अतो वयमेवाऽत्र समवेताः" । मया प्रतिप्रहारः कृतः - "अरे, निद्रया, कलहेन वा समययापनस्य तु युष्माकमेव प्रवृत्तिनिमित्तम् । उक्तमेव, "व्यसनेन मूर्खाणां निद्रया कलहेन वा' । मम तु काव्यविनोदः, शास्त्रविनोदो वा..." | मध्येवाक्यमेव कविप्रवरोऽस्मन्मित्रं चातकः प्रोवाच – “साध्वनुमितं त्वया । अद्य त्वस्माकं प्रयोजनं व्यसनेन कालयापनस्याऽभूत् ।" "कीदृशं व्यसनम् ?" इति पृष्टेन चातकेन सुमहती शाब्दबोधप्रक्रिया प्रसारिता – “अरे ! व्यसनानां प्रकारान्, संख्यां वा कोऽपि परिमातुमर्हति किम् ? कार्ड(ताश)क्रीडा, द्यूतम्, अक्षक्रीडा, चेस(शतरंज)क्रीडा, चतुरंगः(चौपड़), कैरमक्रीडा इत्यादयः क्रीडाः, सुरापानं, धूम्रपानम् इत्यादीनि पानानि, ताम्बूलचर्वणं, तमालचर्वणम् इत्यादीनि चर्वणानि तु गृहान्तः करणीयानि व्यसनानि । बैडमिन्टनप्रभृतयः क्रीडा गृहपरिसरेऽनुष्ठातव्याः । चलचित्रपटदर्शनम्, पतगिकोड्डायनं (Kite-flying), गोल्फप्रभृतयः क्रीडाश्च गृहाद् बहिरनुष्ठातव्या इति न जानीथ किम् ? ?" ३६ Jain Educationa Interational For Personal and Private Use Only Page #46 -------------------------------------------------------------------------- ________________ मयोक्तं " तदेव त्वहं कथयामि । व्यसनैः कालयापनं मूर्खाणां लक्षणमिति प्राचां सिद्धान्तः । धीमन्तस्तु काव्य-शास्त्रविनोदैः कालमनयन् । तेषामपि भूयांसः प्रकारा इति वयं भारतीयाः सहस्राब्दीभ्यो जानीमहे | वात्स्यायनेन हि चतुःषष्टिकलानां यत् पारेगणनं कृतं तत्र कीदृशा उत्कृष्टा विनोदा वर्णिता इति तु त्वादृशा अपि जानन्त्येव । " - भाषाशास्त्रिणा भव्येशेन शास्त्रज्ञतां प्रतिष्ठापयिषुणा विनोदानां भेदाः प्रपञ्चिताः " अरे ! सर्वं मम् । पूर्वं तु स्पष्टमवगच्छथ यद् विनोदे व्यसने च सुमहदन्तरम् । ततोऽवगच्छथ यद् विनोदः खलु द्विविधः - बुद्धिविनोदः, मनोविनोदश्चेति । प्राचां कलासूचीषूभयविधा अपि विनोदा आसन् । प्रहेलिका, समस्यापूरणं, मात्राच्युतकं, पदच्युतकम् इत्यादयो बुद्धिविनोदा एव तु सन्ति । चित्रकला, सङ्गीतकं, वाद्यवादनं, पुष्पगुम्फनम् इत्यादयो मनोविनोदा: सन्ति । कालयापनस्य कुत्र लभ्येरन्नेतदितराणि सर्वथोत्कृष्टानि साधनानि: ? व्यसनान्यप्यासन्, किन्तु तानि परस्ताद् व्याख्यास्यामः ।" तदैव विनोदानां व्यसनानां च भेदो विवेचितः सर्वैः । विनोदा: सांप्रतं होबी (Hobby), अभिरुचिः इत्याख्यायन्ते, व्यसनम् एडिक्शन (addiction ) इत्यादि । चातक उदीरितवान् – “वात्स्यायनेन यान्यन्यानि साधनानि सूचितानि तानि तु त्वं विस्मरस्येव । ते विनोदा आसन् न व्यसनानि, परस्परं गृहेष्वापानगोष्ठीसमवायाः, मधुरभोज्यास्वादादीनि ...." मध्य एवोपमन्युः श्रौतायनः परिहासापह्नुतं प्रहारमाधात् – "तत्तु कथमुद्धरेद् भव्येश: ? तत्र तु भूयान् व्ययोंऽपेक्ष्यते, अयं कृपणः स्वगृहे किमिति तत्सर्वमनुमन्येत ?" इदं तु वयं सर्वे जानीमः स्मैव यदस्मासु भव्येशः सुतरामकृपणो वदान्यश्चाऽभूत् । तस्य गृहजना अपि वदान्याः । किन्तु चातकः प्रतिरक्षायै त्वरितं मुदतीतरत् “अरे बालिशाः ! यदि मनाक् शोधानुसन्धान- दृशा पश्येथ चेत्त्वरितमयं निष्कर्षः समुत्तिष्ठेद् यदस्मिन् देशे भारते प्राचीनकालेऽपि विविधा विनोदा आसन्, मध्यकालेऽपि व्यसनान्यल्पान्यासन् । किन्तु यदवधि वैदेशिकानामाक्रमणानि प्रारभन्त तैः स्व-स्वदेशाद् विभिन्नानि व्यसनान्यानाय्य भारतें त्यक्तानि, तदारभ्य वयं सर्वे तादृशेषु दुर्व्यसनेषु व्यापृताः स्मः । यदीतिहासं सूक्ष्मदृशा पश्यथ, तत्सर्वं ज्ञास्यथ ।" एतदुपरि क्षणद्वयाय तु सर्वे वयं गहन चिन्तनरता अतिष्ठाम । इतिहासस्य पृष्ठेषु मानसीं दृशं पातयता मया प्रोक्तं "बन्धवः ! चातकस्य स्थापनायामस्यां सत्यांशस्तु प्रतीयते । अथ यैर्दुर्व्यसनैर्वयं सुभृशं पीडिताः स्मस्ते सर्वेऽपि विदेशेभ्य ‘“आयातिताः” इति शोधविदुषां स्थापना । ह्येोऽहं द्विचक्रिकां स्कूटर - इत्याख्यां चालयन् राजमार्गे सरभसं गच्छन्नासम्। मदग्रेऽन्यः स्कूटरचालको गच्छन्नभूत् । नाऽहमजानां यत्स सतमाखुकं ताम्बूलचर्वणं कुर्वाणोऽभूत्; गच्छता तेन मार्ग एव किञ्चिन्मुखं परार्वर्त्य तमाखुनिष्ठीवनं तथा कृतं यथा पश्चादागच्छतो मम तेन रक्तवर्णेन निष्ठीवनेन सचैलं स्नानमिवाऽभूत् । रक्ताक्तेनेव मया गृहं परावृत्य शुद्धोदकस्नानं सचैलं कृतम् । येनाऽत्र तमाखुसेवनं प्रचारितं तमुपक्रोशतो मे सुमहान् कोपोऽप्यभूत्तस्मिन् दुष्टे येन निष्ठट्यूतं, किन्तु किं कुर्याम् ? एवं निष्ठीवनं भारतीयदण्डसंहितायां कीदृशोऽप्यपराधो न भवतीति कथं तमभियुञ्ज ? तदैव मत्पन्या Jain Educationa International - - ३७ For Personal and Private Use Only Page #47 -------------------------------------------------------------------------- ________________ स्पष्टीकृतं यत्तमाखोरस्य व्यसनं विदेशेभ्य आयातितमस्ति । सा हि विश्वेतिहासाध्यापिकाऽस्तीति तया सूचितं यत् टुबेको इत्याख्यं तमालपत्रं स्पेनदेशे समुत्पद्यते । तेन च विविधानि व्यसनानि संबद्धानि । सिगार, सिगरेट इत्यादयो धूमवर्तिकाप्रकाराः पाश्चात्येषु लोकप्रियाः । यदवधि वैदेशिकानामागमनं भारते प्रारभ्यत, धूमपानस्य विविधाः प्रकाराः, तमाखुचर्वणस्य च विभिन्ना विधाः प्रादुरभूवन् ।" भव्येशो मध्य एव पृष्टवान् – “अरे, नेदं क्षोदक्षमं प्रतीयते यद् विदेशेष्वेव धूमपानं प्रसृतं स्यान्न भारते । मया तु बाल्ये श्रुतमासीदिदं पद्यं यत्रेन्द्रो ब्रह्माणं पृच्छति - किं वस्तु भूमौ सर्वातिशायि ? ब्रह्मा चोत्तरं ददाति "तमाखुः" इति । इदं तु सूचयति यद् भारतेऽपि तमाखुरवगतोऽभूद् यतस्तत् पद्यं संस्कृतेऽस्ति ।" चातकेन कथितं यत्तत् पद्यं जानाति सः । त्वरितं तेनोद्धृतमपि तत् पद्यम् । "बिडौजाः पुरा पृष्टवान् पद्मयोनि, धरित्रीतले सारभूतं किमस्ति ? चतुभिर्मुखैरित्यवोचद् विरञ्चिः, तमाखुस्तमाखुस्तमाखुस्तमाखुः" ।। एतदुपरि सर्वे वयमहसाम किन्तु चातकेन स्पष्टीकृतं यत् “तादृशानि पद्यानि तु मध्यकालिकानि सन्ति यदा भारते वैदेशिकानां वस्तूनां व्यसनानां च प्रसारः समजायत । केनचन तमाखुव्यसनिना पण्डितेन पद्यमिदं निर्माय प्रसारितं स्यात् ।" भव्येशोंऽपि समर्थयामास - "सत्यम् । तमाखुशब्दः संस्कृतशब्दकोषेषु नास्ति, अतः सोऽयं वैदेशिक एव।" उपमन्युरप्युवाच – “एतादृशानि तमाखुवर्णनपराणि पद्यानि तु सुभाषितरत्नभाण्डागाराख्ये सूक्तिसंग्रहे बहूनि सन्त्युद्धृतानि । एकोऽध्याय एव तमाखवे समर्पितोऽस्ति तत्र । सर्वं तादृशं साहित्यं वैदेशिकागमनोत्तरवत्र्येवाऽस्ति । तमालपत्रमत्र देशे भवति स्म किन्तु न तस्य धूमपानाय चर्वणाय वा कदाऽप्युपयोगोऽक्रियत । बीडी-निर्माणमवश्यं भारते मध्यप्रदेशादिषु वृक्षस्य कस्यचन पत्राण्युपयुज्य प्रारब्धं किन्तु तदपि मध्यकालिकमेव ।" चातकेनाऽपि सूचितं यद्भूमवर्तिकासेवनं विदेशेभ्य एवाऽऽगतं स्यात् । यद्यपि बाणेन कादम्बर्यां राज्ञः शूद्रकस्य वर्णनं कुर्वाणेन मध्याह्ने तस्य धूमवर्तिप्रयोगोऽपि वर्णितः, किन्तु तदानीं हूणादीनां सुमहान् प्रसारः संजातोऽभूत् । तेन हि हर्षचरिते वैदेशिकानां विलासवस्तूनां वर्णनं कृतमेवाऽस्ति । सर्वेषामिदमेवाऽभिमतमभूद् यदद्याऽपि धूमवर्तिका-सिगारादिसेवनं यत्पाश्चात्यानां चर्चिलसदृशानां प्रियमभूद्, भारते सर्वतः प्रमुखं व्यसनमस्ति । इदं मुखकर्कटरोगादीन् (Throat Cancer), उच्चरक्तचापादीन्, हृदयरोगादींश्च जनयतीति वैदेशिकाः स्वदेशेषु तु तदिदं निरोद्भुमिच्छन्ति किन्तु भारते प्रसारयन्ति । सिगरेटसेवनमत्र महिमास्पदमिव मन्यते इति प्रत्यहं पश्याम एव । ___ मयाऽपि सूचितं यद् हूणैरिदमानीतं स्याद् भारते । तदनु मोगलानां विलासिनां सामन्तानामुच्चवर्गीयाणां च गृहेषु हुक्का-धूमनलिकादीनि व्यसनानि सुरभितमाखुसंवलितानि प्रासरन्, अस्माभिरप्यनुकृतानि । इदं श्रुत्वा चातकेन तु सुस्पष्टमेव घोषितं यद् - यावन्तो व्यसनविलासाः, विलासितायाः प्रकाराश्च मोगलकाले ३८ Jain Educationa Interational For Personal and Private Use Only Page #48 -------------------------------------------------------------------------- ________________ समुपलभ्यन्ते तावन्तः कुत्राऽप्येकत्र न स्युः सुलभाः । मोगलविलासिसामन्तानां प्रासादेषु चतुरङ्गक्रीडा (चौपड़, चौसर इत्यादिवाच्या), शतरंजादयः क्रीडाः, अक्षादिभि तानि, वेश्यानर्तनादीनि, कुक्कुटानां योधनम् (मुर्गा लड़ाना), शुक-सारिका-पारावतादीनां क्रीडाः कालयापनस्य व्यसनान्यभूवन्, ताम्बूलवीटिकाविलासा, हुक्कादयो धूमपानप्रकाराश्च, मद्यपानप्रकाशश्च वैभवप्रदर्शनस्य साधनान्यभूवन्निति दृष्टमेव स्याद् युष्माभिश्चलचित्रपटादिषु ।। तदैव भव्येशेन प्रक्षेपः कृतः - "अरे हूणैर्मोगलैर्वा यदन्यदेकं विनाशकारि विस्फोटकमानीतमस्मिन् भारते, तत्तु त्वं विस्मरस्येव । तद् विस्फोटकं ध्वंसस्य तु नूतनमितिहासं प्रारेभे एव, किन्तु व्यसनान्यपि तेन बहूनि प्रासार्यन्त । तद् विस्फोटकमस्ति अग्निचूर्णं, बारूद, गन पाउडर (Gun Powder) इत्याख्यातम् । कुत्र, केनेदमाविष्कृतमिति तु न ज्ञायते किन्तु मोगलैरेवेदमत्राऽऽनीतं, सम्राजा बाबरेण च प्रथमतो युद्धेषु प्रयुक्तमितीतिहासविदो वदन्ति । तेन शतघ्नी-बन्दूकप्रभृतीनि शस्त्राणि प्राबल्यं नीतानि ।' मया मध्ये सूचितं यत् - "चीनदेशीयैः विस्फोटकचूर्णस्य बारूदाख्यस्य प्रथमतोऽवतारणा कृतेति श्रूयते किन्त्वत्र तु तद् मोगलैरेवाऽऽनीतं स्याद् यतोऽद्यापि तवंशजा एव दीपावल्याद्युत्सवेषु अग्निक्रीडनकानां, प्रकाशक्रीडानाम् आतशबाजी इति ख्यातानां निर्माणे विक्रये चाऽग्रगामित्वं निर्वहन्ति । भव्येशोऽभाषत - "तदेव त्वहं कथयामि यद् बारूदाख्येनाऽग्निचूर्णेनाऽनेन युद्धस्तु विश्वस्य विनाशः कृत एव, किन्तु भारताय त्वया सूचितानामग्निक्रीडनकानां, पटाखा-क्रैकर्स-हवाई इत्यादीनां यद् व्यसनं समर्पितं तेन प्रत्यब्दं परःकोटिमुद्राणां विनाशः क्रियते । उत्तरभारते दीपावल्युत्सवे बालकाः किशोराश्च परोलक्षमुद्राणां व्ययेन तादृशानामग्निस्फोटकानां व्यसनेन वराकाणां वृद्धानां शिशूनां च कर्णकुहराणि स्फोटयन्ति, स्वयं दग्धा जायन्ते, अग्निकाण्डानि गृहदाहांश्च जनयन्ति । को लाभः, कीदृश आनन्दो वा तेन जायते इति न कोऽपि वेत्ति । केवलमपव्ययः, अहितमशान्तिश्च नियतं भवन्त्येव ।". ___ चातक ऊचे - "न केवलमुत्तरभारतमेव, अपि तु दक्षिणभारतमपि व्यसनस्याऽस्य संवर्धने सुमहतीं भूमिका निर्वहति । दक्षिणभारतीयं शिवकाशीनगरं स्फोटक्रीडनकानां निर्माणेऽग्रगण्यमिति किं न जानीथ ?" उपमन्युरुवाच – “सत्यमिदम् । प्रतिवर्षं दीपोत्सवे त्वनेन व्यसनेन पर:कोटिमुद्राणामपव्ययः क्रियत एव । इदं चाऽपि वैदेशिकैरेवाऽऽनीतमिति निश्चप्रचम् । यतोऽस्माकं शास्त्रेषु यानि व्यसनानि परिगणितानि तेष्विदं नाऽस्ति । जानीथ एव मनोर्व्यसनसूची - "मृगयाक्षा दिवास्वप्नः, परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाऽट्या च, कामजो दशको गणः ।" मृगया, द्यूतक्रीडा, दिननिद्राग्रहणं, परनिन्दा, स्त्रीप्रसङ्गः, मद्यपानं, चलचित्रादिदर्शनविलासाः, पर्यटनं चेत्येतावत्येव सूची व्यसनानामभूदस्माकम् ।" मयाऽपि वैशंपायनस्य नीतिप्रकाशिकायां सूचिता व्यसनसूची स्मृता - Jain Educationa International For Personal and Private Use Only Page #49 -------------------------------------------------------------------------- ________________ "स्त्री द्यूतं मृगया मद्यं, नृत्यं गीतं तथाऽटनम् ।। वाद्यनिन्दा दिवास्वापो, व्यसनानि नृणां दश ।। अनेन च प्रतीयते यत् पूर्वं पर्यटनमपि व्यसनमासीत् । इदं तु वर्तमानकाले किञ्चिदर्थान्तरेणाऽन्वेति यत् तदानीं दिवास्वप्नस्याऽर्थो दिवानिद्राऽभूत्, सा व्यसनमासीत् । अझ तु मिथ्याप्रत्याशा दिवास्वप्नपदेनोच्यन्ते, तादृशमधुरकल्पनानां स्वप्नदर्शनमद्याऽपि व्यसनमस्त्येव ।" ___ भव्येशेन संशोधनप्रस्तावं प्रस्तुवता परामृष्टं यद् नूतने भारते दिवास्वप्नदर्शनं, पर्यटनं चेति व्यसनद्वयं व्यसनसूचीतो निष्कासनीयम् । अद्य हि द्वयमपीदं भूयो लाभकारि परिदृश्यते । चातकेन विशिष्टां प्रतिभां प्रदर्शयता प्रोक्तं यद् - "इयं सूची पुरुषसुलभानां व्यसनानामासीत् । स्त्रीप्रसङ्गो मद्यपानमित्यादीनि पुरुषोचितानि व्यसनानि । स्त्रीणां व्यसनानि तदानीमभूवन् शुक-सारिकादीनां पालनम् । कालिदासेन मेघदूते मयूरं नर्तयन्त्याः, सारिकां पाल्यन्त्याः, तया सहाऽऽलपन्त्याश्च यक्षपत्न्या वर्णनं कृतमस्त्येव । तन्मोगलकाले कुक्कुट-पारावातादि-पालने विपरिवृत्तम् । तदुपरि भव्येशः स्फुटीकृतवान् यद् – “अस्माकं व्सनसूच्यां स्त्रीप्रसङ्गस्य, गणिकानां, मद्यपानस्य च विवरणमस्ति । एतादृशा दोषाः सर्वेषु देशेषु भवन्त्येव । गणिकानामुपस्थितिर्मानवसमाजे सदैवाऽऽसीत्, मद्यमप्यत्र भारते विदितमासीत्, द्यूतमपि । किन्त्वेतादृशानि व्यसनानि सदैव गर्हणायाः पात्रमभूवन्, वर्जितान्यासन्, विलासितायाः साधनत्वेन, वैभवप्रदर्शनस्य प्रतीकत्वेन वा न क्वाऽपि स्वीकार्यतामभजन् । वेदेषु सोमपानस्य यावन्महत्त्वमस्ति तावदेव सुरायाः, मद्यस्य, मैरेयस्य च गर्हणमस्ति । अक्षर्मा दीव्यः इत्यादि सुविदितमेव । यावदवधि वैदेशिका नाऽऽगतावस्तदवधि वारवनिता अपि समाजे स्वीकार्यतां नाऽभजन्, प्रगल्भा वारवनिताः कुट्टन्यो वा विलासिभ्य: शिक्षा प्रदधुरित्यादि प्रथाजातं सर्वं वैदेशिकानां सहवासस्यैव फलमभवत् । मुगलकाले तु वस्तुत एव सर्वाणीमानि व्यसनानि वैभवस्य प्रतिमानत्वेन मान्यतां प्राप्नुवन्नित्यत्र तु नाऽस्ति सन्देहः । शुक-सारिकादीनां पालनं तु भारतीया गृहिण्यः कुर्वन्ति स्म किन्तु कुक्कुटानां परस्परं योधनं, तत्र च यस्य कुक्कुटो विजयी स्यात् स विजितकुक्कुटस्य स्वामिनो धनं हरेदित्यादिद्यूतक्रीडा मोगलानामेव दिव्यावदानम् । इत्थमालपतामस्माकं सुहृदां मध्यत एव कतिपये किशोरा धृतमार्जनीहस्ता धावन्तो भवनाट्टालिकोपरि सहसाऽऽरोढुं प्रायतन्त । किमिदमत्याहितमिति जिज्ञासमानेभ्योऽस्मभ्यं भव्येशस्य सुतोऽसूचयद् यत् - "प्रतिवेशिनः कतिपये किशोराः पतगिकानामुड्डायनं कुर्वाणाः सन्ति । तत्र प्रतिवेशिन एकस्य पतगिका (Kite-पतंग) अपरेण केनचित् किशोरेण स्वपतगिकादोरकेण कर्तिता, सा चोड्डीयाऽस्मद्गृहाट्टालिकोपरि समपतत् । तां लुण्ठितुमिमे किशोरा आरोदुमिच्छन्ति ।" चातकेन कथितं - "पश्यन्तु, पतगिकाव्यसनमिदमन्या एका सुमहती पीडा। ह्यो मद्गृहसमीपस्थेषु विद्युततन्त्रेषु (Wires) सहसा विस्फोटोऽश्रूयत, तदनु च विद्युत्प्रकाशो विलुप्तः । किमिदमिति जिज्ञासायां सूचिता वयं यद् विद्युत्तन्त्रगतेषु तारेषु (Wire) यदा पतगिकानां दोरकाणि नह्यन्ते, विच्छिन्नत्वात्, तदा च यदि वृष्टिर्भवति तर्हि लघुपरिपथोत्थो (Short Circuit) विस्फोटो भवति, सर्वस्या अपि वसतेविद्युत्प्रदायश्च विच्छिद्यते । तदेव संजातम् ।" ४० Jain Educationa Interational For Personal and Private Use Only Page #50 -------------------------------------------------------------------------- ________________ भव्येश उवाच - "दृश्यताम् । पतगिकाव्यसनमपीदं सर्वथा वैदेशिकमेव । चीनदेशीयैः सर्वप्रथम पतगिकाया आविष्कृतिः कृतेति श्रूयते । चीनदेशीयाश्च फाहियान-यानच्युवानप्रभृतयो भारते समायान्ति स्मेति जानीम एव । कदा केन तदिदं व्यसनमत्राऽऽनीतमिति तु न ज्ञायते किन्तु तदिदं व्यसनं सुभृशं पीडाजनकं, व्ययकर, विघ्नस्याऽहितस्य चाऽऽकर इति स्पष्टं ज्ञायते ।" उपमन्युना श्रौतायनेन सहसैव सूचितं यद् – “मोगलकाले पतगिकाव्यसनस्याऽस्य सर्वत्रोल्लेख उपलभ्यते । नेदं व्यसनं भारतस्येति तु स्पष्टमेव । हन्त, बहुविधा वैदेशिका अत्र निरन्तरमायान्ति स्म, सर्वविधानि व्यसनानि चाऽस्माकं किशोरान् शिक्षयित्वा परावर्तन्ते स्म । "कतिपये त्वत्र स्थायिरूपेण निवसन्ति स्म । अतो बहुविधानि व्यसनान्यपि स्थायिरूपेणाऽत्र निवस्तुमारब्धानि ।" मया पादपूर्तिः कृता । तदैव भव्येशस्य भार्या चायचषकानानीतवती । चातकेन टिप्पणी प्रस्तुता - "बन्धो ! वस्तुतस्त्विदं चायव्यसनमपि वैदेशिकैरुपदिष्टम्, साम्प्रतमत्रैव स्थायिरूपेण निवसति । प्रत्यहं भारतीया वयं प्रतिगृहं यावतीश्चायपत्री: क्वथयामस्तासां सङ्ग्रहेण द्रोणाचल एको निर्मातुं शक्यते, वार्षिक-चायपत्रीसङ्ग्रहेण च सुमेरुपर्वत एकः ।" ____मयोक्तं यत् – "चायपर्णीकृषिस्तु भारतस्य प्रमुखो व्यवसायः, प्राग्ज्योतिष(असम)-प्रभृतिषु प्रान्तेषु सा कृषिवैभवशिखरं स्पृशति । वयं हि विश्वे चायपर्णोत्पादकेषु देशेषु प्रामुख्यं भजामः । चायपर्णीनिर्यातेनाऽपि सुबहु धनमर्जयामः । किन्तु भव्येशभार्यया स्पष्टीकृतं यद् - "मूलतश्चायपानव्यसनस्याऽवतारो वैदेशिकानामेव चमत्कारो मन्यते । चीनदेशादन्यस्माद्वा देशादागत्य चायकृषिरत्र सुस्थिराऽभूदिति तु कथान्तरं, किन्तु मया पठितमस्ति यदष्टादशताब्द्यां सर्वाधिक लोकप्रियं पेयं चायमेवाऽऽसीद् इंगलैंडदेशे । तत्रत्यो विद्वान् कोषकारश्च डॉ. जॉनसन इत्याख्यः शतशश्चायचषकान् प्रत्यहं पिबति स्मेति साहित्येतिहासविदो विदन्ति । ___ एतदुपरि प्रारभ्यत सुदीर्घः शास्त्रार्थः । “सर्वस्य चायं हृदि संनिविष्टः, यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः, वेदान्तकृद् वेदविदेष चाऽहम्' इत्यादयो गीतांशा अप्युद्धृताः । भारतीयैवेयं चायपर्णीति साधयितुं केनचन चायस्तोत्रं संस्कृते लिखितमपि गीतं; किन्तु पर्यन्ते निष्कर्षोऽयमेव स्थापितो यद् व्यसनमिदं भारतेऽतिथिरूपेण, अभ्यागतरूपेणैव विदेशेभ्यः समागतम्, सम्प्रति सुदृढया प्राणप्रतिष्ठयाऽत्रैव बद्धमूलं विराजते । यदीदं भारतीयमेवाऽभविष्यत्, अस्माकं विपुले साहित्ये कुत्रचन तस्य, तादृशस्य वा पेयस्योल्लेखोऽभविष्यदेव । अस्माकमायुर्वेदग्रन्थेषु विविधानां पौष्टिकपेयानां स्वादुपानकरसानां च वर्णनमस्ति, चातकसदृशानां कवीनां काव्यं तु पानकरसन्यायेनैवाऽऽस्वाद्यते इति रससिद्धान्तविदो वदन्ति, किन्तु चायक्वाथोऽत्रत्य इति न केनाऽप्युक्तम् । ___ "भवतु तत्किमपि, किन्तु साम्प्रतं चायमस्माकं निधिः । भवादृशां कथनेन किं वयं विमोक्ष्याम एत?"मिति कथयता उपमन्युना चायचषकद्वयं पीतम्, अस्माभिश्च स्व-स्वरुचेरनुसारमास्वादितं तत् पेयम् । ग्रीष्मकाले शीतलपेयमपि स्वदते इति संकेतयद्भिरस्माभिरर्धहोरानन्तरं शीतलपेयं (शर्बत, कोकाकोला इत्यादि) किञ्चन पास्याम इति सूचिता भव्येशभार्या । "कोकाकोला" प्रभृतीनां व्यसनान्यपि तु विदेशजानीति ४१ Jain Educationa International For Personal and Private Use Only Page #51 -------------------------------------------------------------------------- ________________ परिहसन्त्या तया सूचितं यद् यदि भवद्भ्यो विजया(भङ्गा)पानं रोचते तर्हि तस्याऽपि प्रबन्धः कर्तुं शक्यते। अन्यथा शतपुष्पीप्रभृतिवनस्पतिनिर्मितं ठंडाई इत्याख्यं सुरुचिरं, सुस्वादु, सुशीतलं पेयं तु भव्येशो ह्य एवाऽऽनीतवान् । तस्य परीक्षणं क्रियताम् ।" एतदुपरि सुहृदां सुदीर्घा विवेचना प्रासरद् यद् - विजया, भङ्गा वा कथं भारतीयान् कवीन् काव्यप्रणयनाय प्रेरयति स्म, किन्तु साऽपि परवर्तिनि काले एव प्रासरत् । भारतीयानां प्रतीकभूतं महिमशालि दिव्यं पेयं तु सोमरस एवाऽऽसीदिति निरणीयत । तच्चाऽद्य सुतरामलभ्यं, सोमलताया विलोपात् । "अतस्तस्य चाय-काफी-कोकाकोलाप्रभृतयो विकल्पा अपि स्वीकरिष्यन्तेऽस्माभिः, ते देशजा भवन्तु विदेशजा वा । यथा "स्त्रीरत्नं दुष्कुलादपि" पूर्वं स्वीकरणीयं घोषितम्, एवं "व्यसनरत्नं विदेशादपि" इति प्रसार्यतां घोषणा" इति मया निर्णयः प्रत्तः । एतस्य खण्डनं केनचन क्रियेत तत्पूर्वमेव पुनर्भव्येशस्य पुत्रः स्वपितरं सूचयितुमागतो यत् - स स्वसुहृदा जॉनी इत्याख्येन सह जन्तुचिकित्सालयं गच्छति, एकहोरावधौ प्रत्यावर्तिष्यते । भव्येशः परिहासविधया स्वसुतमपृच्छत् – “अरे त्वं तु मानवोऽभूः, जन्तुचिकित्सालये किमर्थं गच्छसि ?" हसतता किशोरेण सूचितं यत् स नाऽस्ति रुग्णः, प्रतिवेशिनां प्रियः श्वा पप्पी इत्याख्योऽस्वस्थः संजातः । स 'पामेरियन' इत्याख्यजातिविशेस्य शुनकोऽस्ति, सा जातिरुत्कृष्टा मन्यते । तं कुक्कुरशावकं जन्तुचिकित्सालये निनीषति जॉनी (तस्य मित्र), यस्य प्रियः, उत्सङ्गलालितश्चाऽस्ति पप्पी । 'लैपडॉग' इति संज्ञयोत्सङ्गलालिता एतेऽभिधीयन्ते । तेन सह गच्छति सः ।। सर्वमिदं श्रुत्वा पुनः पशुपालनव्यसनस्य विश्लेषणमारभ्यत । उपमन्युरुदीरितवान् - "शृणुत । कुक्कुटपालनव्यसनस्य चर्चा तु समाप्तैव नाऽभूत्, कुक्कुरपालनव्यसनस्य प्रत्यक्षं प्रमाणमत्राऽधिगतम्। गृहे गृहे वैदेशिकाः श्वानो बुक्कन्ति, सस्नेहं कुक्कुरशावकाः परिपाल्यन्ते, शुद्धं दुग्धं पिबन्ति, उत्सङ्गेषु खेलन्ति । केनेदं शिक्षितम् ?" ___ मयोक्तं यत् - "कुक्कुराणां वृत्तानि तु भारतेऽपि श्रूयन्ते स्म । पश्यत, महाभारतकथाया अवसाने युधिष्ठिरेण सह केवलमेकः श्वा स्वर्गमारुरोह । विश्वामित्रेण च दुर्भिक्षकाले शुनोऽन्त्राणि पाचितानि खादितानि च। "अवा शुन आन्त्राणि पेचे" इति श्रुतिः ।" एतदुपरि श्रौतायन उपमन्युराक्रोशत् - "अरेऽल्पज्ञ ! किमेतेन तदिदं सिध्यति यद् युधिष्ठिरस्य विश्वामित्रस्य वोत्सङ्गे कुक्कुरा अखेलन् ? कुक्कुरा अपि भवन्ते स्म ग्रामेषु नगरेषु च, किन्तु ते गृहेषु प्रवेशमलभन्त इति कुत्र लिखितम् ? ते त्वस्पृश्या एवाऽमन्यन्त । श्मशानादिषु चतुष्पथादिषु वा न्यवसंस्ते, सुरक्षादिकर्म चाऽकुर्वन् । किं च विश्वामित्रो बुभुक्षितः सन् शुन आन्त्राणि पेचे, चखाद च इति कुत्र लिखितम् ? अरे वैधेय ! दुर्भिक्षनिवारणार्थं या पर्जन्येष्टिः क्रियते स्म तस्यां कदाचन केनचन शुन आन्त्राणामाहुतिरप्युपदिष्टाऽभूदिति जानासि किम् ? तस्यैवाऽऽख्यानमत्र श्रुतौ यद् विश्वामित्रः शुन आन्त्राणामाहुतिभिः पर्जन्येष्टिं चकार । 'न खलु विश्वामित्र: कुक्कुरपालनं करोति स्म । कुक्कुराणामिदं पूजाविधानं तु वैदेशिकानामेवोपदेशः ।" ४२ Jain Educationa International For Personal and Private Use Only Page #52 -------------------------------------------------------------------------- ________________ उपमन्युः श्रौतायनो वेदमनीषी वर्तते, अतस्तस्य वचनमार्षत्वेन स्वीकृतं सर्वैः । इदमपि सर्वसम्मत्या निरणीयत यद् भारते शुक-सारिकादीनां पालनं तु क्रियते स्म, ते गृहिणीनां कालयापनविनोदा अप्यासन्, दिनचर्याया अङ्गमपि, यथा कालिदासो मेघदूते ब्रूते 'प्रायैणैते रमणविरहेष्वङ्गनानां विनोदा" इति । किन्तु शुनकानामुत्सङ्गलालनं पूर्णतः पाश्चात्या परम्परैव । पाश्चात्येष्वेव देशेषु विविधानामाखेटककुक्कुराणां प्रजातयः प्रथिताः । कुक्कुरर्षभः (बुल डॉग), अलसेशः (अल्सेशियन), डामरमानवः (डॉबरमैन), पामरेणियनः (पामेरियन) इत्यादयः कुलीनाः श्वानः सर्वत्र पूज्यन्ते, तेषां संकरजा (क्रॉसब्रीड) अपि बहुमान्याः इति शुनकशास्त्रं सविस्तरं प्रत्यपाद्यत सर्वैरपि सुहृद्भिः । तदनन्तरं शीतलपेयमागतं, सर्वैः सानन्दमास्वादितं च । अस्मिन् विनोद-व्यसन-विश्लेषणात्मके काव्यशास्त्रविनोदे होरात्रयं व्यत्यगादिति यथैवाऽहमजानां, सुहृद्गोष्ठी विसर्जिता, सर्वे च स्वगृहान् परावर्तन्त । किन्तु तदारभ्य मदीये मानसे विचारचर्वणेयं सततमनुवर्तते यदयमस्माकं भारतो देशः पुरातन्याः संस्कृतेनिधिरक्षकोऽस्तीति सुविदितमेव । अस्मिन् देशे यावन्तो विदेशजा आक्रमितारो, व्यापारिणः, पर्यटका वा समायाता, यावत्सङ्ख्याकेभ्यो विविधेभ्यो देशेभ्योऽस्मिन् देशे वैदेशिका आयाता गतसहस्राब्दीषु, तावन्तो न कुत्राऽप्यन्यत्र गता भवेयुः । यथाऽद्य विश्वस्य सर्वेभ्योऽपि देशेभ्यो जना अमेरिकां गत्वा वसन्ति, भ्राम्यन्ति वा, तथैव पूर्वं भारतेऽभूदिति तु स्पष्टमेव । एतेभ्यो विदेशजेभ्यो भारतीयैः सुबहु शिक्षितमधिगतं चेत्यपि स्पष्टम् । यच्चैतेभ्यो वैदेशिकेभ्यः शिक्षितं तन्मध्ये कियदुत्कृष्टमासीत्, कियन्निकृष्टं, कियद्धितावहं, कियदहितम्, इति किं केनचनाद्यावधि विवेचितम् ? अद्याऽस्माकं सुहृद्गोष्ठयां यन्निर्णीतं यद् यावन्ति व्यसनान्यद्य देशे प्रचलितानि तानि प्रायशः सर्वाण्यापि विदेशविलासिवंशैरत्राऽऽनीतानि, किं तत्र कश्चन सत्यांशोऽस्ति ? यद्यस्ति तर्हि तादृशं विश्लेषणं किमस्माकं कर्तव्यतां नाऽधिगच्छति ? यदि नाऽस्ति तर्हि किमस्माभिर्न स्पष्टीकरणीयं यदेवंविधा विनोदाः, एवंविधानि व्यसनानि च भारते पूर्वमप्यवर्तन्त, अद्याऽपि सन्ति । तेषु व्यसनेषु कियती भारतीयता, कियती च पाश्चात्यता, कियती मोगलीयताः कियती चाऽमेरिकीयता अध्येतुं शक्यते ? भवन्तो यदि विषयेऽस्मिन् किञ्चिन्मार्गदर्शन कुर्युस्तहि रात्रावद्य सानन्दं स्वप्स्यामि । (लेखकोऽयं महामहोपाध्यायः राष्ट्रपतिसम्मानितः, अध्यक्ष, आधुनिक संस्कृत पीठ, जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालय, प्रधानसम्पादक "भारती" संस्कृतमासिक, भूतपूर्व अध्यक्ष, राजस्थान संस्कृत अकादमी तथा निवेशक, संस्कृत शिक्षा एवं भाषाविभाग, राजस्थान सरकार) C/8, पृथ्वीराज रोड, सी-स्कीम, जयपुर-३०२००१ -०१८१-२३७६००८ ४३ For Personal and Private Use Only Jain Educationa International Page #53 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा श्रीगोस्वामितुलसीदासचरितम् (महाकाव्यम्) समीक्षकः डा. रूपनारायणपाण्डेयः रचयिता पं. हरिप्रसादद्विवेदी शास्त्री, आयुर्वेदाचार्यः सम्पादको भाषान्तरकारश्च पं. रामजीवनद्विवेदी प्रकाशकः रामजीवनद्विवेदी, कृष्णासदन, ७०-विवेकविहार, ज्वालापुर, हरिद्वार-२४९४०७ (भारत) प्रथमसंस्करणम् २०१० । पृ.सं. २० + ४३२ । मूल्यम् १४६ रू० ४४ Jain Educationa Interational For Personal and Private Use Only Page #54 -------------------------------------------------------------------------- ________________ वेदोक्तस्य धर्मस्य संस्कृतेश्च विग्रहभूतोऽस्ति भगवान् श्रीरामचन्द्रः । तस्य प्रामाणिकमैतिहासिकं योगचक्षुषा च दृष्टं समग्रचरितं महर्षिणा वाल्मीकिना 'रामायणे' वर्णितम् । लोकमतेन तस्यैवाऽवतारभूतेन गोस्वामिना तुलसीदासेन हिन्दीभाषया भगवतः शिवस्याऽनुकम्पया परम्परया च सम्प्राप्तं 'श्रीरामचरितमानसम्' इति महाकाव्यं १६३१तमे विक्रमाब्दे प्रणीतम् । सुरभारत्यां पण्डितप्रवरेण हरिप्रसादद्विवेदिना श्रीरामचरित मानसस्य प्रणेतुर्गोस्वामिनः तुलसीदासस्य चरितं 'श्रीगोस्वामितुलसीदासचरितम्' इति महाकाव्ये प्रस्तुतम् । अस्यैव महाकाव्यस्य हिन्दी-आङ्ग्लभाषारूपान्तरेण साकं प्रकाशनं तत्सुपुत्रेण श्रीरामजीवनद्विवेदिना विहितम्। अस्मिन् महाकाव्ये एकादश सर्गा विलसन्ति । प्रथमे सर्गे - गोस्वामिनः तुलसीदासस्य जन्मस्थलस्य सूकरक्षेत्रस्य वर्णनं विद्यते । द्वितीये सर्गे - तस्य पूर्वजाः वर्ण्यन्ते । तृतीये सर्गे - १५६८तमे विक्रमाब्दे हुलसी पुत्रं (तुलसीदासं) प्रसूयते । चतुर्थे सर्गे - पितृविहीनः पितामह्या च पोषितः स नृसिंहस्य गृहे विद्याध्ययनं करोति ततश्च रत्नावली परिणयति । पञ्चमे सर्गे- स जायया सह सुखेन निवसति वसन्तादिष्वृतुषु । षष्ठे सर्गे - पत्न्यादिभिः साकं सोऽयोध्यां प्रयागं काशी च गच्छति । सप्तमे सर्गे - काश्यां तस्य पितामही दिवं प्रयाति । अष्टमे सर्गे तस्य पुत्रः तारापतिः दिवं प्रयाति, सोऽपि 'समतारि मदीश जाह्नवी भवता प्रेममयोडुपेन मे । प्रतरन्ति जना भवार्णवं भगवत्प्रेमतरिं समाश्रिताः ॥' (श्रीगोस्वामितुलसीदासचरितम् ८/५२) इति जाययाऽभिहितो गृहं परित्यजति । नवमे सर्गे - विरक्तः स नानापुराणनिगमागमसम्मतं श्रीरामचरितमानसं विनयपत्रिकादीन् ग्रन्थांश्च प्रणयति । दशमे सर्गे - स राजापुरं राजाख्ययतिना साधू गच्छति । एकादशे च सर्गे - तस्य विश्वविश्रुतां कृति (श्रीरामचरितमानसम्) भगवान् शङ्करः प्रतिष्ठापयति, स चाऽद्भुतयोगसिद्धीः प्रदर्श्य १६८०तमे विक्रमाब्दे साकेतलोकं प्रयाति । ग्रन्थात् प्राग् डा.विष्णुदत्तस्य 'भूमिका', सम्पादकस्य चाऽऽत्मनिवेदनं हिन्दीभाषया, ग्रन्थान्ते परिशिष्टभागे काव्येऽस्मिन् प्रयुक्तानि छन्दांसि, 'कविवंशसंक्षिप्तपरिचयः', चित्राणि च शोभन्ते । गोस्वामिनं तुलसीदासमधिकृत्य प्रणीते महाकाव्येऽस्मिन् पदे पदे करुणोपेतानि नितरां रम्याणि मार्मिकाणि च वर्णनानि विद्यन्तेतराम् । स्थालीपुलाकन्यायेन कानिचन पद्यानि दर्शनीयानि सन्ति । दिवङ्गतायां ताताम्बायां तुलसीदासः तज्जाया रत्नावली च विलपतः । 'मम त्वं सर्वस्वं भगवति समस्ते त्रिभुवने, न कञ्चित् पश्यामि त्वयि हि गतवत्यामिह निजम् । अहो शून्यं जातं हितकरदृशा मे जगदिदं, तदद्यत्वे धैर्यं कथमपि न बध्नानि हृदये ॥' (तदेव, ७/५९) 'विदेशं कल्याणि स्वजन इह याते हितवहे, धृतिः शक्या धर्तुं भवति पुनरायाणविषया । ४५ Jain Educationa International For Personal and Private Use Only Page #55 -------------------------------------------------------------------------- ________________ प्रयाणं ते पुण्ये ध्रुवमपुनरावर्तनपथे, कथं दध्यां धैर्यं जननि तव याने निरवधौ । अहो ते पार्वेऽहं व्यथितहृदया रोदिमि भृशं, दयाह्नयां कस्मान्मयि न दयसेऽनुग्रहवति । तथा देह्यादेशं यमनुविदधाना प्रतिदिनं, लभेयं लोकेऽस्मिन् सुखमथ परत्राऽमृतपदम् ॥' (तदेव, ७/६४-६५) विविधानां छन्दसां, रीतिनामलङ्कराणां रसानाञ्चाऽपि प्रयोगे कवेनिपुणता, उदात्तभावानामभिव्यक्तौ पदानां मनोरमसमावेशः, रामादिवन्दनायां च वैदिकग्रन्थानां पाण्डित्यं, तीर्थस्थानानां च चित्रणे पुराणानां परिज्ञानं शास्त्राणाञ्चाऽध्ययनं सर्वथाऽभिनन्दनीयमस्ति । अस्य महाकाव्यस्य भाषाद्वये रूपान्तरं सम्पादकस्य भाषात्रयस्याऽद्भुतमधिकारं विशदीकरोति । स्थान-स्थाने पादटिप्पण्योऽपि ग्रन्थस्याऽस्याऽवबोधेऽसन्दिग्धं सहायिकाः सन्ति । तद् यथा 'कमनीयकलेवरं शिशुं चतुरं सौम्यगुणाकरं यदि । हृतवान् स्वसनाढ्यवंशजं भवितुं पञ्चसनः चतुःसन ॥' (तदेव, ८/२२) *चतुःसन - सनक सनन्दनः सनातनः सनत्कुमार इति चत्वारः सनयुक्ताः पुत्राः यस्य स चतुःसनो ब्रह्मा तत्सम्बुद्धौ हे चतुःसन ! । कमपि हिन्दीभाषाया महाकविमाश्रित्य प्रणीतमिदं महाकाव्यमतितरां विद्वज्जनान् प्रसादयति सुरभारतीकाव्यवैभवं च संवर्धयति । गोस्वामिनं तुलसीदासं परिहाय खल्वेष सम्मानो केनाऽपि न सम्प्राप्तः । मम मतौ - काव्येऽस्मिन् गोस्वामिनः तुलसीदासस्य जन्मस्थानं सूकरक्षेत्रमस्ति, स शुक्लास्पदो ब्राह्मणोऽस्ति, नन्ददासस्तस्याऽनुजोऽस्ति इत्यादि यत् कथितमस्ति, तत्परम्परया यद् मन्यते, रामचरितमानसस्य प्रमुखप्रकाशनकेन्द्रतः (गीताप्रेस, गोरखपुरतः) प्रकाशितेषु सकलेषु ग्रन्थेषु च महाकविकुलमौलेस्तुलसीदासस्य च यच्चरितं प्रस्तूयते, तस्य सर्वथा विपरीतमस्ति । तत्र गोस्वामिनो जन्म बाँदाजनपदस्य 'राजापुरम्' इति ग्रामेऽभिधीयते । तस्य जनकः आत्मारामदूबे सरयूपारीणो ब्राह्मणोऽभूत् । निखिला साधुपरम्परा तस्य जन्मस्थानं सूकरक्षेत्रमस्तीति वचनं नाऽङ्गीकरोति । किमपि स्यात् । महाकवि तुलसीदासमधिकृत्य प्रणीतं महाकाव्यमिदं सर्वैः विद्वद्वर्यैः मानसानुरागिभिश्च सर्वथा सङ्ग्राह्यमस्ति । x तस्मिन् रामपुरे किल भारद्वाजान्वयः परमविद्वान् । शुक्लास्पदः सनाढ्यो न्यवसन्नारायणो विप्रः ॥' (तदेव २/४) 'ततः समावर्त्य समाप्य विद्यां प्रपूज्य भक्त्या गुरुपादपद्मौ । ज्येष्ठोऽवसत्सौकरके स्वगेहे लघुस्तयो रामपुरं जगाम ॥' (तदेव ४/४९) सनाढ्यः = सनेन सम्भक्त्या, दानेन, तपसा च आढ्यः भक्तः दाता तपस्वी चेत्यर्थः । ब्राह्मणामको वर्गोऽपि सनाढ्यः। ४६ Jain Educationa Interational For Personal and Private Use Only Page #56 -------------------------------------------------------------------------- ________________ बालकृष्णचम्प्वाख्यः प्रबन्धः ग्रन्थसमीक्षा | समीक्षकः डा. रूपनारायण पाण्डेयः ग्रन्थकारः श्रीजीवनजीमहाराजः । . टीकाकारः आत्मारामशास्त्री खाडिल्करः प्रकाशकः श्रीगोवर्धनेशप्रकाशमण्डलम्, शाप नं. ४१, श्रीगोकुलनाथजी महाराज लेन, मुम्बई ४००००२, पृ. सं. १४+५३२ । प्र० व० वि.सं. २०६७ । मूल्यम् निःशुल्कवितरणार्थम् ।। __ वैदिकधर्मे विविधाः सम्प्रदाया विलसन्ति । तेषु सौरः शाक्तः शैवो गाणपतो वैष्णवश्च इति पञ्च सम्प्रदाया मुख्याः सन्ति । वैष्णवसम्प्रदायस्य विविधासु शाखासु पुष्टिमार्गस्य संस्थापको वल्लभाचार्यो ४७ Jain Educationa Intemational For Personal and Private Use Only Page #57 -------------------------------------------------------------------------- ________________ विश्वविश्रुतोऽस्ति । तस्याऽन्वये समुत्पन्नेन श्रीजीवनजीमहाराजेन श्रीमद्भागवतमाश्रित्य 'बालकृष्णचम्पू:' इति ग्रन्थः प्रणीत: १९१३तमे विक्रमाब्दे । अस्य ग्रन्थस्य मञ्जर्याभिधा टीका खाडिल्करोपाभिधेन श्रीमताऽऽत्मारामेण शास्त्रिणा कृता । १९२५तमे विक्रमाब्दे टीकेयं श्रीपरमानन्ददासेन प्राकाश्यं नीता मुम्बयीतः । टीकोपेतस्य बालकृष्णचम्पूकाव्यस्य १९२५तमे विक्रमाब्दे प्रकाशितस्य पुनर्मुद्रणरूपोऽयं ग्रन्थः । ग्रन्थेऽस्मिन् षट् स्तबकाः शोभन्ते । प्रथमे स्तबके देवकीगर्भाद् भगवतः श्रीकृष्णस्य प्रादुर्भावः, नन्दगृहे च पुत्रजन्ममहोत्सवः, पूतनावधश्च । द्वितीये स्तबके शकटभञ्जनलीला, तृणावर्तवधः, मृद्भक्षणलीला, यमलार्जुनभञ्जनलीला, वृन्दावनगमनं, वत्सासुरवधः, बकासुरवधः, अघासुरवध-वत्साहरण-धेनुकासुरवधलीलाः, कालियमोक्षणम्, अग्निपानं, वसन्तवर्णनञ्च । तृतीये स्तबके प्रलम्बवधः, दावाग्निपानं, वर्षावसरवर्णनं, राधावियोगः, राधादिगोपिकाभ्यो दधियाचनलीला, शरदि वेणुगीतं, हेमन्ते चीरहरणलीला, विप्रपत्नीभ्योऽन्नयाचनं, गोवर्धनोद्धारलीला, नन्दस्य प्रत्यानयनं च । चतुर्थे स्तबके वेणुवादनेन गोपीनामाह्वानं, रासक्रीडारम्भः, अन्तहिते भगवति गोपीनामुन्मादः, आविर्भूते तेन साकं राधादीनां प्रणयप्रलापाः, महारासवर्णनं, तदुपसंहारश्च । पञ्चमे स्तबके सुदर्शनोद्धारः, वृषभासुरवधः, व्योमासुरवधः, केशिदैत्यवधलीला, कंसाज्ञयाऽक्ररस्य रामकष्णयोर्नयनार्थं गोकलगमनम, अक्ररेण सार्धं तयोः प्रस्थानं, मार्गे यमनाजले तस्याऽङ्करस्यं स्नानं भगवतो दर्शनं मत्स्याद्यवताररूपेण स्तुतिश्च, मथुरावर्णनं तत्र प्रवेशश्च । षष्ठे स्तबके रङ्गकारवधः, मालाकारानुग्रहः, कुब्जाया वक्रत्वनिवारणं, धनुर्भङ्गः, कुवलयापीडवधः, चाणूरादिमल्लानां वधः, कंसवधः, पितृविमोचनम्, उग्रसेनाभिषेकः, पृथ्वीपरिपालनञ्च, ग्रन्थकारपरिचयश्च । ग्रन्थात् प्राग् हिन्दीभाषया गो० गोकुलनाथस्य 'अस्ति किञ्चित् वक्तव्यम्' इति परिचयात्मको लेखो विलसति । . भागवतपुराणस्य दशमस्कन्धस्य पूर्वार्धभागस्य कथामनुसृत्य प्रणीतेऽस्मिन् चम्पूकाव्ये प्रायशः तानि सर्वाणि वैशिष्ट्यानि विधन्ते, यानि सहृदयहृदयानि नितरां प्रभावयन्ति । तद् यथा – समासोपेतानां पदानां संघटना, श्लेषोपमोत्प्रेक्षादीनामलङ्काराणां प्रयोगः, शृङ्गारादिरसानां सम्यग् निवेशः, साभिप्रायविशेषणैर्व्यझ्यार्थस्य प्राधान्यं, श्लिष्टपदानां समुपयोगेन चमत्कृतिःदुष्यप्रदर्शनं वा, भक्तिसुधारसस्य पानस्याऽऽनन्दानुभूतिश्च । यद्यपि भागवतपुराणे गोपीजनेषु राधिकाया नाम न विद्यते, तथाऽपि ग्रन्थान्तरोल्लेखादत्र दधियाचनलीला वर्णिताऽस्ति । प्रसङ्गेऽस्मिन् ग्रन्थकारस्य भाषाया माधुर्यं प्रीतेश्च पूतत्वं द्रष्टव्यमस्ति । वृषभानुसुता श्रीकृष्णाय तक्रकलशं रागरसोपेतं चित्तमिव प्रयच्छति । “एवंविधविविधविचित्रवचनविलाससुधासारसम्मेलननिःसीमसंवृद्धसुललितप्रीतिप्रवाहप्लवनपरवशीकृतमानसा सा वृषभानुसुता निजकरतलकलितकालशेयकलधौतकलशं स्वानुरागरसपूरितं चेत इव तस्मै प्रादात् ।" (बाल० स्तबकः ३, ग. १३, पृ. १८३) टीकाकारेणाऽस्य चम्पूकाव्यस्य तात्पर्य विशदतया प्रतिपादितमस्ति । स्थालीपुलाकन्यायेनैकमुदाहरणं प्रस्तूयते । 'अरालालकास्ये मरालागतिस्ते मरालासनेनाऽऽहिताभ्यासतो वै । मुखे पौत्रसाम्यं कुचे पुत्रतौल्यं ४८ Jain Educationa Interational For Personal and Private Use Only Page #58 -------------------------------------------------------------------------- ________________ करे तातसादृश्यमार्ये पदे च ।।' इति पद्ये टीका द्रष्टव्याऽस्ति । "अथ ब्रह्मणा त्वन्निर्माणवेलायां सन्निहितस्वीयहंसादीनां गत्याद्याधानं त्वदङ्गेषु कृतमिति अपरां प्रत्याह । अरालेति । हे अरालालकास्ये अराला: कुटिला ये अलकास्तद्युक्तम् आस्यं मुखं यस्यास्तत्सम्बोधनं हे आर्ये ! श्रेष्ठनायिके ! मरालासनेन हंसासनेन ब्रह्मणा वै निश्चयेन अभ्यासतः अभ्यसनाद्धेतोः यद्वा अभ्यासतः सामीप्याद्धेतोः । भावप्रधानो निर्देशः । अभ्यासोऽभ्यसनेऽन्तिके - इति मेदिनीकोशात् । ते तव, मरालागतिः, मरालवद्धंसवत् आ ईषत् मन्देति यावत् एवंविधा गतिर्गमनम् आहिता कृता तथा । मुखे पौत्रसाम्यं पौत्रस्याऽत्रिपुत्रस्य चन्द्रस्य साम्यम् आहितमिति लिङ्गव्यत्येयेनान्वयः । कुचे स्तने पुत्रतौल्यं रुद्रतौल्यं तच्च नीलकण्ठत्वादिसाधर्म्याद् बोध्यम् । आहितं - करे च पदे च तातसादृश्यं कमलसादृश्यम् आहितम् । ब्रह्मणः कमलोद्भवत्वात् कमलस्य तत्तातत्वम् । भुजङ्गप्रयातं वृत्तम् ।" (बाल०, स्तबक: ४, प०७३, पृ. ३१६) अस्य ग्रन्थस्य पद्यभागे स्रग्धरा, शार्दूलविक्रीडितम्, आर्या, वसन्ततिलका, उपजातिः, पृथ्वी, पञ्चचामरं, भुजङ्गप्रयातम्, इन्द्रवज्रा, शालिनी, मालिनी, मञ्जुभाषिणी, वंशस्थं, स्रग्विणी, रथोद्धता, शिखरिणी, द्रुतविलम्बितम्, उपेन्द्रवज्रा चेत्यादीनि वृत्तानि रम्यतया प्रयुक्तानि । गद्ये बाणादीनां पद्ये च माघादीनां प्रतिभाऽत्र काव्यरसिकान् प्रसादयति, भक्तांश्च कृष्णभक्तिरसामृतं पाययति । ग्रन्थकारः सत्यं वक्ति वक्ष्यमाणे पद्ये - व्यञ्जनया स्वकीयं पाण्डित्यं काव्यप्रणयनपटुतां नैसर्गिकीं प्रतिभां च प्रदर्शयति । संग्रथितेऽत्र निबन्धे रसिकैः काव्यज्ञशिक्षितैर्निपुणैः । संशोध्यं शोध्यं चेदेतद्बोध्यं न चेतरैर्विबुधाः ॥ गोरसमेतं गोरसलिप्सोर्लीलासुशर्करामिष्टम् । रसिकाः पिबन्तु तुष्ट्यै पुष्ट्यै सोवर्णपात्रस्थम् ॥' (बाल० ६, प. ८२-८३, पृ. ५२९) प्रास्ताविके यद्यपि ग्रन्थकारस्य विविधशास्त्रपारङ्गतता प्रदर्शिता, तथाऽपि तस्य जन्मादिविषये किमपि नैवोक्तम् । एषा स्थितिः टीकाकारस्य विषयेऽपि विद्यते । ग्रन्थस्य मुद्रणं भव्यं रम्यं च वर्तते । काञ्चनैव मुद्रणत्रुटयः स्यु । ( द्र० पृ. १०७, २२८, २३३, ३५२, ४०२ इत्यादिपृष्ठेषु) जगद्गुरु- श्रीमद्वल्लभाचार्य-विद्यालक्ष्मीसंवर्धन - सङ्कल्पान्तर्गते प्राकाश्यं नीतं ग्रन्थरत्नमिदं विद्वज्जनैः, श्रीकृष्णभक्तिरसामृतपिपासुभिः सत्काव्यसेवनतत्परैः सज्जनैश्च सर्वथा सङ्ग्राह्यं समाराध्यं च । जयतु संस्कृतं संस्कृतिश्च । Jain Educationa International ४९ For Personal and Private Use Only मनी का पूरा सोरामः प्रयागः (उ.प्र.) २१२५०२ Page #59 -------------------------------------------------------------------------- ________________ विचारणम् भोजराजसरस्वतीत्वेन प्रसिद्धैषा प्रतिमा किमम्बिकादेव्याः ? ब्रिटिशम्युझियम्-स्थिताया भोजराजप्रतिष्ठितसरस्वतीत्वेन च प्रसिद्धायाः प्रतिमायास्तत्पादपीठस्थस्याऽभिलेखस्य च छायाचित्रे । (सौजन्यं - ब्रिटिश-म्युझियम्-जालपुटम्[ वेबसाइट ]) ५० Jain Educationa International For Personal and Private Use Only Page #60 -------------------------------------------------------------------------- ________________ विचारणम् भोजराजसरस्वतीत्वेन प्रसिद्धैषा प्रतिमा किमम्बिकादेव्या: ? कीर्तित्रयी __ पूर्वतन्यां शाखायां विदुषः श्रीरेवाप्रसादद्विवेदिमहोदयस्य भोजराजस्य सरस्वती' लेखः प्रकाशित आसीत् । तत्र प्रतिपादितमासीद् यदियं प्रतिमा नास्ति सरस्वत्या न चाऽपि भोजेनेयं स्थापिता, अपि तु यक्ष्याः कस्याश्चिदस्तीयं प्रतिमेत्यादि । एतदेवाऽनुसन्धाय किञ्चिदधिकमप्यत्र प्रतिपाद्यते । भोजराजसरस्वतीत्वेन प्रसिद्धायास्तस्या प्रतिमायाः पादपीठे प्रदत्तोऽभिलेख एवमस्ति - औं । श्रीमदभोजनरेन्द्रचन्द्रनगरीविद्याधरी धर्मधीधीरो योऽखिलदेहिनां खलु सुखप्रस्थापनायाऽप्सराम् । वाग्देवीं प्रथमं विधाय जननीं पश्चाज्जिनानां त्रयी मम्बां नित्यफलाधिकां वररुचिर्मूर्तिं शुभां निर्ममे ॥ इति । अत्र लेखे उल्लिखितः ‘अम्बा'शब्दो ध्याना:ऽस्तीति पूज्यगुरुवर्यैराचार्यश्रीविजयशीलचन्द्रसूरिभिः कथितम् । जैनशास्त्रानुसारं तु अम्बा अथवा अम्बिका नाम देवी द्वाविंशतितमस्य तीर्थकरस्य श्रीनेमिनाथभगवतस्तीर्थस्याऽधिष्ठात्री देव्यस्ति । मुख्यानि तल्लक्षणानि त्वेवं सन्ति - तस्या अन्यतमस्मिन् हस्ते आम्रफलैः सहिता सहकारवृक्षोपशाखा स्यात्, तत्पादयोः समीपे एकस्मिन् पार्श्वे बालकौ स्यातां, तद्वाहनं च सिंहो भवेत् । अन्यान्यायुधानि वस्त्राभरणादीनि तु यथार्ह विद्यन्ते एव । इदानी प्रतिमायाश्छायाचित्रं पश्यामश्चेत् तत्र पृष्ठस्थे किञ्चित्खण्डिते वामहस्ते आम्रफलोपशाखाया अवशेषो दृश्यते, वामपादासन्ने सिंहप्रतिकृतिरपि दृश्यते, दक्षिणपादसमीपे च बालक एको दृश्यते । अन्यच्च, सरस्वतीदेव्या मुख्यलक्षणानां वीणा-पुस्तक-कमण्डलु-जपमालादीनामेकतमदप्यत्राऽवशेषरूपेणाऽपि नाऽवलोक्यते प्रतिमायाश्छायाचित्रे । अतोऽस्माकमनुमानं त्वेवमस्ति यदियं प्रतिमा श्रीनेमिनाथभगवतस्तीर्थाधिष्ठात्र्याः श्रीअम्बादेव्या एव स्यात् यां कश्चन वररुचिनामा द्विजश्रावको निर्मापितवान् स्यात् । तथ्यं तत्त्वं च पुरातत्त्वविदः प्राचीनशिल्पज्ञाः शिल्पशास्त्रज्ञाश्चैव प्रकटयितुमर्हा इत्यलं विस्तरेण ।। Jain Educationa International For Personal and Private Use Only Page #61 -------------------------------------------------------------------------- ________________ अनुवाद: यदि.... - अनुवादकः - मुनिकल्याणकीर्तिविजयः यदि... तव परितः स्थिता जना यदि कोपाकुलाः स्युस्तत्कोपस्य निमित्तं च ते त्वामेव मन्येरन् तदाऽपि त्वं शान्त एव तिष्ठे:, सर्वे जनास्त्वयि शङ्केरन् तदा त्वं स्वस्मिन् विश्वासं धारयेस्तेषां शङ्काशीलतां चाऽप्युदारमनसा सहेथाः, प्रत्येकमपि कार्यं त्वं धैर्येण कर्तुं शक्नुयास्तथा न कुत्राऽप्यधृतिं समाचरे:, त्वां प्रति जना असत्यमाश्रयेयुस्तदाऽपि त्वमसत्यप्रयोगं न कुर्याः, जनास्त्वां धिक्कुर्यस्तदाऽपि त्वं तान् नैव धिक्कुर्याः, जनान् प्रति त्वं दम्भं नाऽऽचरे:, मुखे मधुरो कार्ये च विषतुल्यो न स्याः, स्वप्नान् पश्येः, अथाऽपि वास्तविकता भूमौ सत्कार्यं कुर्या:, विचारांस्तु कुर्या एव किन्त्वाचारमपि समाचरे:, जय-पराजयौ त्वं समानभावेन स्वीकुर्याः, त्वदुक्तं सत्यमपि खलाः विकृत्य जनसमक्षं कथयेयुस्तदाऽपि त्वं निराकुलीभूय तच्छृणुयाः, यदर्थं त्वं जीवनमेव समर्पितवान् तादृशमपि कार्यं कोऽपि विनाशयेत् तदा निराशो न भूत्वा सोत्साहं सोल्लासं च तत् पुनः कर्तुमारभेथाः, आजीवनमर्जितं सर्वमपि हेलयैव पणीकर्तुं शक्नुयास्त्वं, तद्धानौ च विना वचनं पुनरर्जनमारभेथाः, जनसम्मर्दमध्यस्थितोऽपि त्वं सौजन्यं न जह्याः, राजभिश्च सहाऽपि सहजं सरलं च वर्तेथाः, शत्रुर्मित्रं वा त्वां व्याकुलीकर्तुं समर्थो न स्यातां, केनाऽपि सह च ते गाढसम्पर्को नैव स्यात्, कठिनमपि कालखण्डं त्वं स्वसामर्थ्येन सार्थकीकुर्याः Jain Educationa International जगत् सर्वमपि तवैव, त्वमेव सर्वस्य स्वामी विशेषतश्च त्वं याथार्थ्येन मानवो जायेथाः ! | 囟 ५२ For Personal and Private Use Only आङ्ग्लमूलम् रुडयार्ड किप्लिंग Page #62 -------------------------------------------------------------------------- ________________ अनुवादः कः पुटीकरोति पेराशुटछत्रम् ? मुनिकल्याणकीर्तिविजयः चार्ल्स-प्लम्बोऽमेरिकीयनौकादलस्य शूरः सैनिक आसीत् । युद्धविमानस्य चालकः सं वियेटनामदेशीययुद्धकाले 'किटि-होक'-युद्धनौकातः स्वीयं जेटविमानमुड्डाययन् शत्रुदलेषु शस्त्राणि वर्षयित्वा प्रत्यागच्छति स्म । पञ्चसप्ततिवारान् स सफलोऽभवत् । षट्सप्ततितमे वारे तु स्वयुद्धनौकां प्रत्यागच्छतस्तस्य विमानं शत्रुदलीयशस्त्राहतं क्षतिग्रस्तमभवदग्निना च ज्वलितुमारब्धम् । सद्य एव स्वीयं पेरेशुटच्छत्रं गृहीत्वा स विमानादुत्पतितवान्, भूमौ समागतश्च शत्रुसैनिकैर्बन्दितया गृहीतः, षड् वर्षाणि यावत् कारागृहे स निर्दयतया पीडितश्च । ततो मुक्तो भूत्वा स्वदेशमागतः स युद्धविषयकान् कारावासविषयकांश्चाऽनुभवान् जनेभ्यः प्रवचनरूपेण कथयति स्म, लोकप्रियत्वं चाऽभजत् । __अथैकदा स निजपत्न्या सहोपाहारगृहे उपविष्ट आसीत् तावता कश्चन जनः समागतस्तत्पार्वे पृष्टवांश्च - 'भोः ! भवान् किटिहोक-युद्धनौकातो विमानमुड्डाययित्वा वियेटनामीयसैनिकेषु शस्त्राणि प्रक्षेप्तुं गच्छति स्म खलु ? भवतो नाम चार्ल्स-प्लम्ब एव खलु ? एकदा च शत्रुदलीयशस्त्रेण भवद्विमानमाहतं खलु ?' 'सर्वथाऽवितथं तत्', साश्चर्यं चार्ल्सः कथितवान्, 'किन्तु भवान् कथमेतज्जानाति ननु ? किं भवान् Jain Educationa Interational For Personal and Private Use Only Page #63 -------------------------------------------------------------------------- ________________ कदाचिन्मम प्रवचनं श्रुतवान् वा ?' 'नैव भोः !', स उत्तरितवान् । 'अहं तु भवतः पेराशुटच्छत्रं पुटीकृतवानासम् । मन्ये तत् सम्यक्तया स्वकार्यमकरोन्ननु ?' 'अहो ! तत् सर्वथा समीचीनमासीत् । तत्कारणत एवाऽहमद्य भवत्पुरस्तिष्ठामि खलु ! अन्यथा विमानेन सहैव ममाऽपि...... । भवतो भृशमाभारं मन्ये....' चार्ल्स: नितरामभिभूत आसीत् । 'आभारस्य नास्ति काचिदावश्यकता, तत् तु मम कर्तव्यमासीन्ननु ! भवतु, पुनर्मिलिष्यामः' इत्युक्त्वा सोऽभिवादनं कृत्वा निर्गतस्ततः । अतिसङ्क्षिप्तोऽयं संवाद आसीत् तयोः, किन्तु तेन चार्ल्सस्य चित्तं सर्वथा क्षुब्धं जातम् । तस्यां रात्रौ स क्षणमात्रमपि नैव निद्रितवान् । तेन चिन्तितं – 'युद्धविमानस्य सफलचालकत्वाभिमानपूर्णोऽहं किं किटिहोकनौकायां स्थितेन मया न कदाऽपि गजनिमीलिकयाऽपि जनोऽयं परिलक्षितः । कियतोऽपि वारान् स मम समक्षमप्यागतः स्यात् किन्तु न मया कदाऽप्येषोऽभिवादितः सम्भावितो वा । परन्तु एवं सत्यपि यदि तेन मम पेराशुटच्छत्रं सम्यक्तया पुटीकृतं नाऽभविष्यत् तदा मम का गतिरभविष्यत् ? नौकाया आन्तरे भागे घण्टा यावदुपविष्टः पेराशुटच्छत्राणां कृते दृढरज्जूः प्रगुणीकृत्य सम्यक्तया पुटीकुर्वन्नसौ जनो मन्ये सैनिकानां जीवनरक्षावसरमपि पुटीकुर्वन् स्यात्, तादृशाः सैनिका, यान् स न कदाऽपि जानाति स्म पश्यति स्म वा' । ततः स्वीये प्रत्येकं प्रवचने चार्ल्सः प्रश्नं पृच्छति स्म जनान् – 'किं भवन्तो जानन्ति - को भवतां पेराशुटच्छत्रं पुटीकरोति ?' इति । किं वयमपि जानीमहे खलु - स्वजीवने वयं कति पेराशुटच्छत्राणामुपयोगं कुर्याम - इति ? शारीरिकं पेराशुटच्छत्रं, मानसिकं पेराशुटच्छत्रं, संवेदनानां पेराशुटच्छत्रमाध्यात्मिकं पेराशुटच्छत्रम् – इत्यादीनि कियन्त्यपि !! एतेषां पेराशुटच्छत्राणां पुटीकुर्वाणान् वयं जानीमहे खलु ? तेषां विषये किं कदाऽपि वयं चिन्तयामो वा ? ज्ञात्वाऽपि तेषां हार्दिकमाभारं वयं मन्यामहे खलु कदाऽपि ? तदर्थं तानभिनन्दयामो वा ?.... एतेषां सर्वेषामपि प्रश्नानामुत्तरं 'न' – इत्येव खलु सम्भवेत् ? एवंस्थितेऽस्माभिरस्माकं समग्रोऽपि व्यवहारः परिष्करणीय एवाऽऽमूलात् । तस्य प्रारम्भं चैवं कुर्याम -- दैनन्दिने जीवने एतत् सदाऽवधारयेम यदस्माकं पेराशुटच्छवं कः पुटीकरोतीति !! (जालपुटाद् गूर्जरभाषायामवतारकः 'मोतीचारो' पुस्तके डॉ. आई.के.वीजळीवाळा) Jain Educationa International For Perso &d Private Use Only Page #64 -------------------------------------------------------------------------- ________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) द्विगुणो वर्णः बादशाह जहाँगीरः कदाचित् स्वीयप्रासादस्य गवाक्षे उपविश्य नगरावलोकनं करोति स्म । तावता सुन्दरमुष्णीषं शीर्षे धारयन् कश्चनाऽश्वारोही ततो निर्गतः । तस्योष्णीषं सुन्दरतया वर्णितं दृष्ट्वा जहाँगीरो विस्मयमुग्धोऽभवत् । अश्वारोहिणमाकार्य पृष्टवान् स: – 'भो ! उष्णीषमिदं कुत्र केन वा वर्णितम् ?' तेनाऽपि वर्णरञ्जिकाया कस्याश्चित् स्त्रियो नाम निवेदितम् । जहाँगीरस्तत्कालमेव तामप्याहूतवान् पृष्टवांश्च - 'अये ! ममाऽप्येतादृशमुष्णीषं वर्णयित्वा दद्याः किल ?' तयोक्तं – 'सूक्ष्मं पट्टसूत्रवस्त्रं यदि प्राप्येत तदा वर्णयेयं, किन्त्वेतत्सदृशो वर्णस्तु नैव स्यात् !' 'कथं न स्यात् ?' साश्चर्यं जहाँगीरः पृष्टवान् । 'यत उष्णीषमिदं द्विगुणितेन वर्णेन रञ्जितमस्ति' । ‘एवं वा ? तहि मदुष्णीषं चतुर्गिणितेन वर्णेन रञ्जयेः' । _ 'प्रभो ! नाऽत्र मापनेन द्विगुणितो वर्ण उपयुक्तोऽस्ति, किन्तु... प्रथमस्तु योऽयं दृश्यमानोऽस्ति स वर्णः, अन्यस्तु रङ्गः प्रणयस्य... ! प्रणयरङ्गः किल सर्वत्र रञ्जयितुं न शक्यः !!. (२) स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ___ मैसूरुराज्यस्य महाराजः कृष्णराजोऽतीव विद्याप्रिय आसीत् । एकदा स भ्रमणार्थं योरोपीयदेशेषुः गतः सन् जर्मनीदेशं प्राप्तः । तत्र च विविधा विद्यासंस्थाः विलोकयितुं गतः स कस्मैचिदध्यापकाय स्वपरिचयं यच्छन् कथितवान् – 'अहं भारतदेशे मैसूराराज्यस्य महाराजोऽस्मी'ति । Jain Educationa Interational For Personal and Private Use Only Page #65 -------------------------------------------------------------------------- ________________ तच्छ्रुत्वा तेनाऽध्यापकेन सहजतया पृष्टं - 'कतमं मैसूरुराज्यम् ? यत्र विद्वान् डॉ. रामशास्त्री वसति, तद् वा ?' महाराजेन नम्रतया 'आम्' इति कथितम् । ततश्च सर्वास्वपि विद्यासंस्थासु महाराजस्य भृशं सत्कार-बहुमानादिकं जातम् । यदा महाराजो मैसूरुं प्रत्यागच्छत् तदा स रामशास्त्रिमहोदयमाकार्य तस्य सम्माननं कृतवान् कथितवांश्च – 'अत्र भवान् मे प्रजाजनः, किन्तु परदेशे तु अहमेव भवतः प्रजाजनः !!' (३) उष्णीकर्तुम् !! एकदा कार्यव्यग्रस्याऽऽचार्यक्षितिमोहनस्य गृहागमने विलम्बो जातः । हस्तादिकं प्रक्षाल्य स यावद भोजनार्थमुपविष्टस्तावत् तत्पत्न्योपालम्भपूर्णस्वरेणोच्चैः कथितं - 'किमित्येतावान् विलम्ब कृतः पश्यतु, भोजनमपि शीतं जातम् !' तन्निशम्य मन्दमन्दं स्मितं कुर्वताऽऽचार्येण भोजनस्थाली पत्न्या मस्तकोपरि स्थापिता । 'अधुनैतत् किमादृतं भवता ?' गृहिण्याऽमर्षेण पृष्टम् । 'नैव किंमपि भोः !, केवलं भोजनमिदं किञ्चिदुष्णीकरोमि किल !!' ___ (४) न कुत्रचित्, न किञ्चित् 'भवान् गुरोः पार्श्वे किमर्थमागतः ?' कश्चन जनः शिष्यमेकं पृष्टवान् । 'यतो मे जीवनं दिशाशून्यमिव न कुत्रचिद् गच्छति स्म, मह्यं च न किञ्चिद् ददाति स्म' । 'एवं वा ? तात्राऽऽगमनानन्तरं भवतो जीवनं कतमां दिशं गच्छति किल ?' 'न कुत्रचित् ?' 'किं तद् भवते ददाति ?' 'न किञ्चित् !!' 'तर्हि को विशेषो जातो ननु ?' 'अधुनाऽहं न कुत्रचिद् गच्छामि, यतो मत्कृते नाऽवशिष्टं किञ्चिद् गन्तव्यं, तथा न प्राप्नोमि किञ्चित्, यत इदानीं नाऽस्ति किञ्चित् प्रापणीयम् !' Jain Educationa Interational For Persons and Private Use Only Page #66 -------------------------------------------------------------------------- ________________ सत्यघटना सामाज्यस्थैर्यमूलम् । मुनिकल्याणकीर्तिविजयः समग्रस्य दृश्यमानजगतः पञ्चविंशति प्रतिशतं भागं स्वीयसाम्राज्ये सम्मेलितवत इङ्गलेण्डदेशस्य घटनेयम् । तदात्वे च तस्य देशस्य साम्राज्ञी विक्टोरियाऽऽसीत् । सा हि गभीरप्रकृतिका धर्मे धर्माचार्येषु च श्रद्धावत्यासीत् । तत्राऽपि ख्रिस्तमतस्य महागुरौ पोपमहोदये तस्या महती श्रद्धाऽऽसीत् । अथैकदा सा पोपमहोदयस्य दर्शनार्थं गता । औपचारिकविधेरनन्तरं सहसा महागुरुणा सा पृष्टा - 'राज्ञि ! भवत्याः साम्राज्यं कियत्कालं यावत् स्थिरीभविष्यतीति प्रश्नस्योत्तरं दास्यति वा भवती ?' तया किञ्चिद् विचिन्त्योक्तं – 'आम्, अहं दास्ये' । 'कदा किल?' पुनः किञ्चिदिव चिन्तयित्वा सा कथितवती – 'मासाभ्यन्तरे' । एतन्निशम्य पोपमहोदयः सन्तुष्टो जातः । कानिचन दिनानि त्वेवमेव व्यतीतानि । अथैकस्मिन् दिन लण्डननगरस्यैकस्य वित्तकोषस्य मुख्यद्वारे राश्या अङ्गरक्षकाणां समुदाय उपस्थितः । तद् दृष्ट्वा द्वारपालेनाऽन्तर्गत्वा वित्तकोषस्य निर्वाहकः (Manager) सूचितो यत् ‘साम्राज्ञी विक्टोरियाऽत्र समागच्छतीति प्रतिभाति' । 'किम् ? वित्तकोषेऽत्र साम्राज्ञी स्वयं समागच्छति खलु ?' निर्वाहकेन झटिति समुत्तिष्ठता पृष्टम् । 'आम् ! सा स्वयं समागच्छति' । 'किं वा कारणं स्यात्' - इति स्वगतोक्तिं कुर्वाणेन निर्वाहकेन समग्रोऽपि कर्मचारिगणः साम्राज्ञ्या स्वागतबहुमानादि कर्तुं सूचितः । ___ ततो प्रायो दशक्षणानन्तरं साम्राज्ञी विक्टोरिया वित्तकोषे समागताः । निर्वाहकादिकर्मचारिभिस्तस्या यथोचितं सम्माननादि कृतम् । ततः सर्वेऽपि 'साम्राज्ञी किं वाऽऽदिशे'दिति तर्कयन्तस्तूष्णीं स्थिताः । राश्या निर्वाहकमुद्दिश्य पृष्टं - 'किं भवानेवाऽस्य वित्तकोषस्य निर्वाहकः ?' 'आम् ! महोदये !' । 'मम किञ्चित् कार्यमापतितमस्ति' 'आदिशतु कृपया' । 'इदमिदानीमेव मम दशसहस्रपौण्डमितधनस्याऽऽवश्यकताऽस्ति । भवतो वित्तकोषो यदि तावन्मितं धनं मे दद्यात् तर्हि दिनाभ्यन्तर एवाऽहं तद्धनं प्रत्यर्पयिष्यामि' । देशस्य विधिशास्त्रे इयं व्यवस्थाऽऽसीद् यद् – 'राज्ञी यदा कदाऽपि यस्मात् कस्माच्चिदपि वित्तकोषाद् यथेप्सितं धनं ग्रहीतुं शक्ताऽऽसीत्, किन्तु तद्धनं तया दिनाभ्यन्तर एव प्रत्यर्पयितव्यम् ।' शीघ्रमेव निर्वाहकेनाऽऽवश्यकानि पत्राणि राज्यै प्रदत्तानि । तयाऽपि हस्ताक्षरैरङ्कयित्वा प्रत्यर्पितानि । Jain Educationa International For Personal and Private Use Only Page #67 -------------------------------------------------------------------------- ________________ ततो निर्वाहकेन सर्वमपि विधि समाप्य राज्यै धनं प्रदत्तम् । साऽपि तद् गृहीत्वा प्रस्थिता । घण्टाभ्यन्तर एव समग्रे नगरे समाचारोऽयं प्रसृतो यद् राज्ञी विक्टोरियाऽद्याऽमुकाद् वित्तकोषाद् धनं गृहीतवतीति । सर्वेषामपि जनानामाश्चर्यं जातं - राज्या किमर्थमेवं कृतं स्यादिति । ___ द्वितीयं दिनमभवत् । अद्य राज्याः धनप्रत्यर्पणं कर्तव्यमासीत् । निर्वाहकेनाऽऽदिनं प्रतीक्षा कृता किन्तु न किमप्यागतम् । तृतीये दिने प्रातरेव तेन पत्रमेकं लिखित्वैको वित्तकोषीयः कर्मचारी राज्याः प्रासादे तत् पत्रमर्पयितुं प्रेषितः । तेनाऽपि गत्वा यथाविधि राज्यै पत्रं समर्पितम् । राश्या तत् पठित्वा कथितं – 'अत्र लिखितं सत्यमस्ति । किन्त्विदानीं धनं प्रत्यर्पयितुं नाऽहं समर्थाऽस्मि' । तेनाऽपि प्रत्यागत्य निर्वाहकाय कथितं तत् । तच्च ज्ञात्वा सर्वेषां मनांसि पुनरप्याश्चर्यव्याप्तानि जातानि – 'कि साम्राश्याः सकाशे एतावद्धनमपि नास्ति वा?' अथो विधिशास्त्रे स्पष्टतयोल्लिखितमासीद् यथा – यदि राज्ञी गृहीतं धनं यथाकालं वित्तकोषे न प्रत्यर्पयेत् तदा वित्तकोषीयनिर्वाहकेण न्यायालयेऽभियोगः कर्तव्यः । अयमपि निर्वाहको विधि-नियमादेर्यथावद् ज्ञाता पालकश्चाऽऽसीत् । तेन साम्राज्या भयं मनसि अकृत्वैव न्यायालये राज्ञी विरुध्याऽभियोगः कृतः । न्यायालयादपि राज्यै आदेशः समागतो यद् – 'अमुकतिथौ भवत्या यथाकालं न्यायलयेऽभियोगोत्तरदानाय समागन्तव्य'मिति । इयमपि च वार्ता समग्रे देशे प्रसृता । यस्मिन् दिने राज्या न्यायालये गन्तव्यमासीत् तस्मिन् दिने यथाकालं वित्तकोषस्य निर्वाहको न्यायाधीशो न्यायवादी चेत्यादयः सर्वेऽपि समागत्य प्रतीक्षारताः स्थिताः, किन्तु राश्याः सकाशान्न कोऽपि समागतः । द्वितीयदिनेऽप्येवमेव जातम् । ततस्तृतीये दिने न्यायाधीशेनैकपक्षीयो निर्णयः कृतो यत् – 'राज्या शीघ्रमेव दशसहस्रपौण्डमितं धनं सवृद्धि वित्तकोषाय प्रत्यर्पणीय'मिति । __ अत्र नियम एवमासीत् – निर्णयविधानात् पूर्वं तत्र पोपमहोदयस्य हस्ताक्षरः कारयितव्यः, तदनन्तरमेवाऽग्रिमो विधिः प्रवर्तेत इति । न्यायाधीशेन वित्तकोषनिर्वाहक एव पोपमहोदयपाइँ निर्णयपत्रं हस्ताक्षराङ्कितं कारयितुं प्रेषितः । पोपमहोदयस्तु तन्निर्णयपत्रं पठित्वैव चकितो जातः । शीघ्रमेव स राज्ञीमाकारितवान् निर्णयपत्रं च दर्शयित्वा पृष्टवान् – 'किमिदम् ?' इति । तयोक्तं – 'भवता यत् पृष्टमासीत् - राज्यमिदं कियत्कालं यावत् स्थिरीभविष्यतीति - तस्योत्तरमिदमस्ति' । 'तत् कथं वा ?' 'प्रभो ! यावत्कालं मम राज्यस्य कर्मचारिणो विधेनियमस्य च यथावत् पालनं कुर्वन्ति, भ्रष्टाचारिण उत्कोचग्राहिणः पक्षपातिनो वा न भवन्ति, विधिपालने च न कुतोऽपि बिभ्यति तावत्कालं मम साम्राज्यं निर्विघ्नं निराबाधं निरापदं च स्थिरीभविष्यति । यदा चैतद्विपरीतं भविष्यति तदा तन्नंक्ष्यति' । पोपमहोदय एतच्छ्रुत्वा सन्तुष्टो जातः । राज्याऽपि च वित्तकोषे धनं प्रत्यर्पितम् । ५८ Jain Educationa Interational For Personal and Private Use Only Page #68 -------------------------------------------------------------------------- ________________ सत्यघटना योगक्षेमं वहाम्यहम् मुनि कल्याणकीर्तिविजयः रेलयाने उपविष्टस्यैकस्य युवसंन्यासिनः समीप एवैको वणिगुपविष्ट आसीत् । संन्यासिनो मुखं सर्वथा निर्विकारं स्वस्थं शान्तं चाऽऽसीत्, तच्च दर्शं दर्शं वणिग् अस्वस्थो जातः । स हि 'साधव एते परान्नपुष्टाः परोपजीविनः सन्ति, समाजस्य च भारभूता वर्तन्ते' इत्यादिकं दृढतया मन्वानः कश्चन समाजसेवकम्मन्य आसीत् । एनं युवसन्यासिनं च दृष्ट्वा तज्जिह्वा परामर्शदानाय कण्डूयते स्म यथा 'जनानां वञ्चनं त्यक्त्वा परिश्रमेण धनमर्जयित्वा जीवननिर्वाहः कर्तव्यो भवादृशैर्दृढकायैर्युवभिः' इत्यादि । वृत्तान्तोऽयं प्रायः सपादशतवर्षेभ्यः पूर्वं घटितः । संन्यासी आसीत् स्वामी विवेकानन्दः । अमेरिकादेशे प्रवृत्तायां सर्वधर्मपरिषदि महत् साफल्यं प्राप्य स नचिरादेव भारतदेशे समागत आसीत् । देशे सर्वत्र तस्य सम्माननं जायते स्म । इदानीमपि स राजस्थानप्रदेशे कस्यचन नृपतेरामन्त्रणं प्राप्य तद्राजधानीं गत आसीत्। ततो निर्गत्य स रेलयानेनाऽन्यत्र गन्तुं प्रवृत्त आसीत् । राज्ञा तस्मै बहु धनमर्पितं किन्तु तेन रेलयानस्य तृतीयवर्गस्य यात्रापणादृते न किञ्चिदधिकं गृहीतमासीत् । — ग्रीष्मर्तुः प्रवर्तमान आसीत् । वातावरणं घर्ममयमासीत् । जलमपि मूल्यदानेनैव लभ्यते स्म । स्वामिनः पार्श्वे किमपि धनं नाऽऽसीत्, अतः स जलं क्रेतुमसमर्थ आसीत् । तत्समीप एवोपविष्टः स वणिगिदं लक्षितवान् कथितवांश्च – 'किमेतत् ? भवत्पार्श्वेऽन्न - जलादिकं क्रेतुमपि धनं नास्ति !' । स्वामिना स्वस्थतयैव प्रत्युत्तरितं – 'महोदय ! भगवान् एव सदा मम निर्वाहं करोति सर्वविधमपि च सौविध्यं पूरयति, अतोऽहं वृथैव किमर्थं धनादिभारं वहेयम् ?' Jain Educationa International वणिजा चिन्तितं 'एनमुद्वेजयितुमयं श्रेष्ठोऽवसरोऽस्ति' । तस्य पार्श्वे शीतलजलभृतो घटो मिष्टान्न-फलादिभिः पूर्णश्चैकः करण्डक आसीत् । स वारं वारं करण्डकात् खाद्यं गृहीत्वा खादति स्म, घटाच्च जलं पिबति स्म, स्वामिनं चोपालम्भते स्म ‘भवतो भगवान् कीदृशो यः स्वीयभक्तस्य क्षुत्तृषादिपीडामपि न हरेत् ?' स्वामिनश्चित्तं स्वस्थं निराकुलं चाऽऽसीत्, तैः किमपि न प्रत्युत्तरितं न चाऽपि कोपः कृतः, अतः ५९ For Personal and Private Use Only Page #69 -------------------------------------------------------------------------- ________________ स वणिगधिकं कोपाकुलो जातः । मध्याह्नसमये रेलयानं किञ्चन सङ्गमस्थानकं (Junction) प्राप्तम् । अत्र तैः यानं परावर्तितव्यमासीत् । अन्यस्य रेलयानस्याऽऽगमने इतोऽपि वेलाऽऽसीत् । अतः सर्वेऽपि यथार्ह भोजनार्थं प्रवृत्ताः । स वणिगपि कस्यचिद् वृक्षस्याऽधस्तात् स्वोपस्करं स्थापयित्वा भोजनं प्रारभत, स्वामिनं चोपालब्धुमपि प्रवृत्तो यथा सर्वथाऽशक्तोऽस्ति भगवान् यो निजभक्ताय जलबिन्दुमपि नैव प्रापयति !' स्वामी तु कमपि प्रतिकारं न कुर्वन् प्रतिभावं चाऽयच्छन् मन्दमन्दं स्मित्वेतस्ततश्चङ्क्रमणं कृतवान् । अचिरादेव कश्चन जनो बृहदाकारं करण्डकमेकं जलपात्रं च गृहीत्वा धावं धावं समागतः । वृक्षस्याऽधस्तादेवैकत्र स्वच्छे स्थाने तेनैकः कटः प्रसारितः, करण्डकाच्च स्थालकमेकं निष्कास्य तत्र पूरिकाः शाकं मिष्टान्नं च परिवेषितम् । ततः जलपात्रं हस्ते गृहीत्वा स्वामिनं निवेदितवान् – 'कृपयाऽत्रोपविश्य भोजनं स्वीकरोतु स्वामिन् !' । स्वामी साश्चर्यं तं निरीक्षितवान् । इतश्च वणिगपि स सोत्कण्ठमेतद् विलोकयति स्म । स्वामिना समार्दवमुक्तं - 'बन्धो ! को भवान् ? नाऽहं भवन्तं परिचिनोमि जानामि वा । मन्ये भवतो भ्रमो जातोऽस्तीति, यतोऽहमैदम्प्राथम्येनाऽत्राऽऽगतोऽस्मि, तत्कथमिव भवान् मत्कृते भोजनमानीतवान् ? नूनमेतदन्यस्य कस्यचित् कृते स्यात्' ।। ____ अपरिचितेन तेन जनेन नम्रतयोक्तं – 'स्वामिवर्य ! भोजनमिदं भवदर्थमेवाऽहमानीतवानस्मि वस्तुतोऽहं भोजनविक्रयिकोऽस्मि । अद्यः प्रातःकाले मया पूरिका-शाक-मिष्टान्नादिकं भोजनं प्रगुणीकृतमासीत् । तच्च मध्याह्नात् पूर्वमेव विक्रीतं मया । ततश्च प्रत्यहमिवाऽद्याऽपि शयितोऽहं सुखनिद्रया सप्तोऽहं स्वप्ने दष्टवान यद भगवान मम समीपमागत्य स्वीयचरणस्पर्शेन मां जागरितवान । 'स्वप्नोऽय' मिति चिन्तयन्नहं पुनः शयितः पार्वं परावर्त्य । ततो भगवताऽहं पादेन मृदुतया प्रहृत्य जागरितः कथितश्च यद् - "भक्तो मे एकः सन्यासी रेलस्थानके आगतोऽस्ति, स च बुभुक्षितस्तृषितश्चाऽस्ति । अतस्तस्य कृते भोजनं जलं च गृहीत्वा गच्छ सत्वरं, भोजय तं, जलपानं च कारय' । ततोऽहं भगवदादेशं शिरोधार्यं कृत्वा झटिति भोजनं निर्माय शीतलजलेन सहाऽत्राऽऽनीतवान् । कृपया हस्त-पादादिकं प्रक्षाल्याऽत्र कटे उपविशतु, आतृप्ति भोजनं च करोतु । भवत्कारणत एवाऽद्य मे भगवद्दर्शनं जातं तत्पादस्पर्शानुग्रहश्चाऽपि सम्पन्नः' – एवं कथयन्नेव स स्वामिनं साष्टाङ्गं प्रणतवान् ।। ___एतत् सर्वं निरीक्षितवान् स वणिक् सर्वथा लज्जावनतशिराः स्वामिनः पादयोः पतित्वा क्षमां याचितवान्, स्वामिनश्च हृदयं गादीभूतं नेत्रे च प्रेमाश्रुक्लिन्ने आस्ताम् !! (गूर्जरमूलं - श्यामकुमारी सौजन्यं - भूमिपुत्रः) Jain Educationa Interational F . For Personal and Private Use Only Page #70 -------------------------------------------------------------------------- ________________ व्यङ्ग्यकथा भिक्षुकाणां राजा मुनिकल्याणकीर्तिविजयः __एको राजाऽऽसीत् । पोपटसिंह इति तस्याऽभिधानमासीत् । राजत्वस्य महाभिमानमेव वहति स्म सः । प्रजाश्च तृणाय मन्वते स्म विविधाभिर्भङ्गीभिश्च पीडयति स्म । प्रजानां सर्वमप्यधिकारं सौविध्यं च स निर्मूलितवानासीत् । स कथयति स्म - 'अहं राजाऽस्मि । सर्वमपि वस्तु प्राप्तुं भोक्तुं च ममैवाऽधिकारोऽस्ति सर्वथा । सर्वमपि ममैव भविष्यति, प्रजानां कृते न किञ्चिदप्यवशेक्ष्यति' ।। एतेन सर्वेऽपि प्रजाजना भृशं दुःखिता आसन् । एतादृशो राज्ञोऽवबोधनार्थं ततो वा मुक्तिप्रापणार्थं तेषां पार्वे न कोऽप्युपाय आसीत् । अतस्ते निरन्तरं दुःखमभावांश्च सहमाना आसन् । राज्यस्यैकस्मिन् दूरस्थे प्रदेशे कश्चन महोद्यमः स्वाभिमानी च कर्षको वसति स्म । स राज्यस्य किमपि सौविध्यं नोपयुनक्ति स्म । केवलं स्वबलेनैव स कृषिकर्म कृत्वा धान्यं च प्राप्य विक्रीणाति स्म ससुखं च जीवति स्म । ___स स्वगृहस्य बहिभित्तौ फलकमेकं लम्बितवानासीत् यत्र तेन बृहदाकारैरक्षरैलिखितमासीत् – 'अहं मम गृहस्य राजा' इति । एकदा राज्ञः केचन सैनिकास्तद्गृहाभ्यर्णतो निर्गच्छन्तस्तं फलकं दृष्टवन्तः । तत् पठित्वा ते चकिता जाताः - कोऽयं रे राजा ? राज्यस्य राजा तु ज्ञातचरः, किन्तु 'गृहस्य राजा' इत्यस्य कोऽर्थो भवेत् ?' तैहि सत्वरं राज्ञे पोपटसिंहायैतत् सूचितम् । सोऽतीव क्रुद्धोऽभवत्, तं कृषिकं च राज्यसभायामाह्वाययत् । सोऽपि च कृषिको निर्भयतया राज्ञोऽग्रे उपस्थितोऽभवत् । तं दृष्ट्वैव राजा भत्सितवान् - 'राज्यमिदं मम, तदन्तःस्थितानि सर्वाण्यपि गृहाणि चाऽपि ममैव । ततश्च कथं त्वं तस्य गृहस्य राजा जातः ?' कृषिकेणोक्तं – 'प्रभो ! अहं राज्यस्य किमपि सौविध्यं न गृह्णामि, केवलं जेन कठोरपरिश्रमेण मया गृहं तन्निर्मितमस्ति । अतोऽहं तस्य राजाऽस्मि' । __राज्ञा कथितं – 'वृथा वचांसि मा वद । अस्मिन् राज्ये यत् किमपि पृथ्वी-जल-मृत्तिकादिकमस्ति तन्ममैवाऽस्ति । तव गृहमपि तेनैव निर्मितमस्ति, अतस्तत्र ममैव स्वाम्यं, नाऽन्यस्य कस्यचित् । झटित्येव ६१ Jain Educationa International For Personal and Private Use Only Page #71 -------------------------------------------------------------------------- ________________ तत् फलकं निष्कासय, अन्यथा ते प्राणान् हरिष्यामि' । अगतिकतया कृषिकस्तत् फलकमपसारितवान् । किन्तु स धैर्यं नाऽत्यजत् । अनन्तरदिन एव स तत्र द्वितीयं फलकं स्वगृहभित्तौ लम्बितवान्, यत्र लिखितमासीत् – 'अहं मम मनसो राजा' इति । शीघ्रमेव राज्ञः सैनिकैरेतज्ज्ञातम् । ज्ञात्वा च राज्ञे सूचितमपि । राजा कोपाकुलो भूत्वा पुनरपि कृषिकं राजसभायामाहूतवान् फलकविषये च पृष्टवान् । नक्तं 'प्रभो ! अहं मदीयमनसः स्वाम्यस्मि, मदिच्छानुसारं च वर्तितुं स्वतन्त्रोऽस्मि । यतः कदाऽपि कस्यचिदपि मनसि नाऽन्यस्याऽऽधिपत्यं भवेत्, राज्ञोऽपि च नैव' । राजोच्चैर्जगर्ज – 'रे ! अस्मिन् राज्ये मया विहिता विधि-नियमा आचाराश्च प्रवर्तन्ते इति मा विस्मार्षीः । तव मनस्तदेव विचारयिष्यति करिष्यति च यद् विधि-नियमानुसारं भवेत्, ततश्च तवाऽऽचरणमपि मम नियमानुसारं भविष्यति न तु तवेच्छानुसारम् । अतः सत्वरमेवेदमपि फलकमपसारयाऽन्यथा मे सैनिकास्त्वां नद्यां प्रक्षेप्स्यन्ति' । - दुःखीभूय कृषिकः स्वगृहं न्यवर्तत फलकं चाऽपासारयत् । तेन चिन्तितं यत् कथमपि राज्ञोऽस्य कश्चन पाठ: शिक्षयितव्य एव । एतदर्थमुपायानन्विषन् स बहुचिन्तनानन्तरमुपायमेकं कल्पितवान् । गृहे वासं त्यक्त्वा स निजक्षेत्रे एवैकत्राऽसंवृते स्थाने वसनमारब्धवान् फलकं चैकं निवेशितवान् यत्र लिखितमासीत् 'अहं मे आकाशस्य राजा' इति । यदा च राज्ञा नूतनफलकविषये श्रुतवान् तदाऽमर्षेण तन्मस्तिष्के विस्फोटो जात इव । सत्वरमेव तदादेशानुसारं सैनिकाः कृषिकं समाकृष्य राजसदसि समुपस्थापितवन्तः । तं दृष्ट्वा नेत्राभ्यामङ्गारान् वर्षयन्निव राजा कथितवान् – 'मन्ये त्वं ममाऽऽदेशमेवमेव नैव मंस्यसे । अद्य त्वां हस्तिपादतले एव मर्दयामि तावत्' । — कृषिकोऽपि धैर्यमत्यक्त्वा कथितवान् – 'प्रभो ! वायुराकाशं प्रकाश आतपश्च भगवता प्रदत्तमस्ति । तेषु यावान् भवतोऽधिकारस्तावानेवाऽस्माकमपि सर्वेषाम् । ततश्च तद्राजत्वेन यद्यहं स्वं गणयेयं तदा भवतः का वाऽऽपत्तिः स्यात् ?' राज्ञा कथितं 'नैव !' ------ कृषिकेण पृष्टं - 'किं वयमस्माकं परिश्रमस्याऽपि स्वामित्वं न धारयामः ?' राजा 'न हि' । कृषिक: राजा — - Jain Educationa International 'न कदाऽपि ' । कृषिकोऽन्तिमतयाऽपृच्छत् – 'किं वयं निजात्मनोऽपि स्वाम्यं न धारयामो वा ?' 'किं स्वीयशरीरस्याऽपि स्वामिनः स्मो वा वयम् ?' - ६२ For Personal and Private Use Only Page #72 -------------------------------------------------------------------------- ________________ राजा – 'मयोक्तं खलु - नैव नैव नैव !' कृषिकः स्वगृहं प्राप्तः । पुरा लिखितं च फलकमपसारितवान् । किन्तु ततः किञ्चिद् विचिन्त्य सोऽन्यदेकं फलकं स्वगृहभित्तौ लम्बितवान्, यत्र लिखितमासीत् – 'अहमस्य राज्यस्य भिक्षुकः' इति । यदाऽन्यैर्जनैदृष्टमिदं फलकं तदा तैः पृष्टोऽयं – 'किमर्थं भो ! एतादृशं लिखति भवान् ?' तेनोक्तं - 'यदाऽस्मदीयं किमपि नाऽस्त्येव तदा तु वयमस्य राज्यस्य भिक्षुका एव जाताः खलु !' सर्वेषामपि तद्वचनमुचितं प्रतिभातम् । ततश्च सर्वैरपि स्वस्वगृहभित्तिषु फलकानि लम्बितवन्तः - 'वयमस्य राज्यस्य भिक्षुकाः' इति लिखित्वा । कर्णोपकर्णतया वातॆषा प्रतिवेशिराजस्य सदसि प्राप्ता । तां श्रुत्वा स साट्टहासं हसितवान् । हसन्नेव स स्वीयसभासदः पृष्टवान् – “किं स पोपटसिंहो भिक्षुकाणां राजाऽस्ति वा ?' सभासद उक्तवन्तः – 'पोपटसिंहः स्वयं सर्वस्याऽपि वस्तुनो स्वाम्यस्तीति तेन ख्यापितमस्ति । आसर्षप-पर्वतं वस्तूनां पृथिव्यादिभूतानां, किं बहुना ? प्रजाजनानां मनसो हृदयस्याऽऽत्मनोऽपि च स एव राजाऽस्ति । फलतस्तस्य प्रजाजना भिक्षुका एव जाताः खलु !' चिराय तदुपहासं कृत्वा स राजा पोपटसिंहाय सन्देशमेकं प्रेषितवान् – 'पोपटसिंह ! किं भवान् जानाति यद् - भवान् भिक्षुकाणां राजाऽस्ति - इति ? यदि वयं भवद्राज्यमाक्राम्येम तदाऽस्मत्पुरतः किं भवान् भिक्षुकसैन्यं गृहीत्वा योद्धमागमिष्यति वा ?' सन्देशमेनं पठित्वा पोपटसिंहो लज्जयाऽधोमुखो जातः । स्वकृतं दोषं सत्वरमेवाऽवाबुध्यत सः । ततश्च झटिति स तं कृषिकमाहूतवान् । सदसि समागतस्य च तस्य सानुनयं कथितवान् – 'भो भ्रातः ! भवताऽहं सम्यक् प्रतिबोधितोऽस्ति प्रमादमाचरन् । अधिकं किं कथयेयम् ? सर्वेऽपि जनाः स्वीयस्वीयाधिकारे राजान एव सन्ति । राज्यस्य राजा तु न कस्यचिदपि वस्तुनो जनस्य वा स्वामी राजा वा । स तु केवलं राज्यसञ्चालको नियामकश्च । सर्वेषां स्वामी तु भगवान् एव जनता वा । भवान् स्वगृहे यथेच्छं लिखित्वा फलकं लम्बयतु नाम, मम नास्ति काऽपि विप्रतिपत्तिः' । एतन्निशम्य सहस्ततालं कृषिको राजानमभ्यवादयत् । सर्वे सभासदोऽपि विषयेऽत्र स्वां सम्मति दर्शयन्तो हर्षध्वनिमकुर्वन् । एवं च स पोपटसिंहस्तु स्वदोषं ज्ञात्वा परिहत्य च शुद्धोऽभवत् किन्तु अस्माकं दुर्भाग्यादस्मदीयः शासको वर्गः स्वं देशस्य राजतयैवाऽवबुध्यते, न तु सञ्चालकतया नियामकतया वा, फलतश्च जनतां स सततं भिक्षुकीकुर्वन् नैव विरमति । हिन्द्यां मूललेखकः ज्ञानदेव-मुकेशः सौजन्यम् नवनीत हिन्दी डायजेस्ट दिसम्बर २०११ Jain Educationa Interational For Personal and Private Use Only Page #73 -------------------------------------------------------------------------- ________________ व्यङ्ग्यकथा देशस्य जातोऽस्ति प्रतिश्यायव्याधिः मुनिकल्याणकीर्तिविजयः एकस्मिन् वने एकदा चमत्कारो जातः । कस्यचन सिंहस्यैक उष्ट्रः, एकः शूकरः शशकश्चैक इति त्रीणि मित्राणि जातानि । आरण्यकवनस्पतिरिव तेषां मैत्री निरर्गलं प्रवृद्धा । सिंहस्याऽऽधिपत्ये त्रयोऽप्येते निर्भयं निश्चिन्तं चाऽटाट्यन्ते स्म सप्रमोदं च समयाकुर्वन्ति स्म । प्रत्यहं सायङ्काले ते चत्वारोऽपि भोजनान्निवृत्ताः सन्तो विशालस्य कस्यचन वटवृक्षस्याऽधस्तात् समगत्योपविशन्ति स्म विविधविषयांश्च चर्चयन्ति स्म । मध्यभागे सिंह उपविशति स्म, तद्वामपार्वे उष्ट्रः, दक्षिणे शूकरः, तत्पुरतश्च शश उपविशति स्म । अथाऽन्यदा सिंहेनैको महाकायो वृषभो हत्वा भक्षितः, ततश्च तृप्तः सन् स वृक्षस्याऽधोभागे स्वस्थाने समागत्योपविष्टः । सद्य एव उष्ट्रोऽपि तृण-पत्रादिभिः स्वोदरं पूरयित्वा तत्राऽऽगतः, शूकरोऽपि स्वमुखं परावर्तयन् हुङ्कारं च कुर्वन् समागतः, सोल्लासं कूर्दन् शशकश्चाऽपि तत्रैवाऽऽगतः । गोष्ठ्यारम्भात् पूर्वमेव सिंहेन वामतो मुखं कृत्वोच्चैरुगारं कृतवान् । एतेन सगन्धो वायुरुष्ट्रस्य मुखोपरि निपतितः । तत्क्षणमेवोष्ट्रेण तदुर्गन्धमसहमानेन स्वमुखं परावर्तितम् । एतद् दृष्ट्वा सिंहेन सदर्प पृष्टं – “किं रे उष्ट्र ! ? स्वमुखं किमिति त्वं परावर्तितवान् ?' उष्टेणाऽपि सनर्म प्रोक्तं – 'एवमस्ति सिंहमहोदय ! यद् भवान् न कदाऽपि स्वीयं मुखं प्रक्षालयति, न चाऽस्मद्वच्छाकाहारं करोति, अधुनैव चाऽपक्वं मांसं खादित्वा समागतोऽस्ति । फलतश्च भवदुद्गाराद् दुर्गन्धो यदि प्रसरेत् तत्र नाऽस्त्येवाऽऽश्चर्यं किल !' एतन्निशम्य क्रुद्धेन सिंहेनोक्तं – 'रे उष्ट्रहतक ! ममैवाऽऽश्रये उषित्वा ममैवाऽवर्णवादं करोषि वा ? मम मुखाद् दुर्गन्धः प्रसरति खलु !... गृहाणेदम्' इत्युक्त्वोच्चैश्च गर्जित्वा तत्क्षणमेवैकेनैव प्रहारेणोष्ट्रो विनिपातितः । मृतमुष्टं दृष्ट्वा शूकरः शशकश्च भयेन कम्पेते स्म । शूकरेण चिन्तितं – 'ननु कीदृशीयं मैत्री ? उष्ट्रेण सत्यमेवोक्तमासीत् किल? राज्ञे सत्यश्रवणं किमर्थं न रोचते खलु ! एवं स्थिते तेन सह मैत्र्यमपि भयावहमेव किल ! शत्रुता तु दौर्गत्यकर्यस्त्येव' । स भयवशात् तूष्णीमेव स्थितः ।। ६४ Jain Educationa Interational For Personal and Private Use Only Page #74 -------------------------------------------------------------------------- ________________ उष्ट्रभक्षणान्निवृत्त्य सिंहो दक्षिणतो मुखं कृत्वा पुनरप्युच्चैरुद्गारं कृतवान् । अतः पूतिगन्धपूर्णो वायुः शूकरमुखं यावत् प्रसृतः । किन्तु शूकरः श्वासं निरुध्याऽपि तथैव चित्रवदुपविष्टः । एतद् दृष्ट्वा सिंहेन सगर्जनं पृष्टं – 'रे शूकर ! कथय, किं दुर्गन्धः प्रसरति वा ?' शूकरेणाऽपि झटिति किञ्चिद् विचिन्त्य - ' नहि नहि प्रभो !', ततो मुखमितस्ततश्चालयित्वा कथितं - ‘प्रभो ! किमित्येवं वदति भवान् ? भवानस्ति वनराजः भवतो मुखादपि कदाचित् दुर्गन्धो निःसरेत् खलु ? नहि नहि, भवतः पुण्यमुखात् तु सुगन्धः प्रसरन्नस्ति सुगन्धः, एलायाः सुगन्धः प्रभो !'... । एतच्छ्रुत्वा कुपितः सिंहः भ्रुकुटिं कृत्वा गर्जितवान् – 'अधम ! शूकरपुत्रक ! किं मां मूर्ख मन्यसे वा ? मम मुखादेलाया गन्धः समागच्छति खलु ? दुष्ट ! मिथ्याभाषिन् ! चाटुकारिन् !....' एवं च कथयन्नेव स तदुपरि कूर्दित्वा केवलमेकेनैव प्रहारेण तमपि यमसदनं प्रापितवान् । एतद् दृष्ट्वाऽवशिष्टः शशको भीत्या शुष्कपर्णवत् कम्पितुमारब्धः । तेन चिन्तितं 'राज्ञा सह मैत्री हि दुर्गतिरेव । एकेन सत्यमुक्तं, फलतो मरणं प्राप्तम् । अन्यो हि स्वात्मानं रक्षितुं मृषा कथितवान्, अथाऽपि परलोकं गतः । इदानीं मया किं वा कर्तव्यम् ? किं सत्यानृतयोर्मध्येऽपि किञ्चनाऽस्ति यत् कथयित्वा स्वं रक्षेयम् ?' अस्यामेव चिन्तायां पतितः शशकः शूकरदुर्गतिं निरीक्षितवान् । शूकरं समाप्य सिंहः पुनरपि वायुमुद्गीर्णवान् । ततः शशकं प्रति दृष्ट्वा गर्जितवान् - 'कथय रे ! शशक ! त्वं कथय, किं दुर्गन्धो निःसरति सुगन्धो वा ? ' शशकोऽञ्जलिं कृत्वा सिंहं प्रणम्य कम्पमानेन स्वरेण कथितवान् – 'प्रभो ! यदि मेऽभयदानं दीयेत तदा किञ्चिन्निवेदयेयम्....' सिंहः सदर्पमुक्तवान् – ‘भवतु नाम, वद यत् ते रोचेत, यतः प्रथमं वृषभ: पश्चादुष्ट्रस्ततश्च शूकरः - इति त्रयस्तु त्वं तु कवलमात्रमपि न भवेः । दत्तं तेऽभयं नाम, वद, किं वक्तव्यमस्ति ?' शशक उक्तवान् 'प्रभो ! आसप्ताहान्ममोग्रतया प्रतिश्यायव्याधिर्जातोऽस्ति । तेन च मे नासा सिङ्घाणादिक्लिन्ना सती न सुगन्धं नाऽपि च दुर्गन्धमवबोद्धुं समर्था सर्वथा .... !!' एवमेव, मन्ये यत् समग्रस्याऽपि देशस्य प्रचण्डः प्रतिश्यायव्याधिर्जातोऽस्ति, ततश्च न कोऽपि सुगन्धं दुर्गन्धं वा परिचेतुं समर्थः !! Jain Educationa International ६५ For Personal and Private Use Only (मराठीमूलम् : बाबा नागार्जुनः हिन्द्यां प्रस्तुतिः निवेदिता वर्मा सौजन्यम् : नवनीत हिन्दीडायजेस्ट सितम्बर, २०११) Page #75 -------------------------------------------------------------------------- ________________ कथा ईश्वरस्य मनुष्यावतारः मू. ले. डो. आई. के. वीजळीवाळा अनु. मुनिरत्नकीर्तिविजयः कुत्रचित् प्रवचनं प्रवर्तमानमासीत् । व्याख्याता महात्मा जनानुद्दिश्य कथयति स्म यद् - अस्माकं सर्वेषामपि सत्यधर्मः सत्यमार्गश्चोपदेष्टुं भगवानस्यां पृथिव्यां मनुष्यरूपेणाऽवतरति स्वकीयं च कार्य समापयति - इति । कथनमेतच्छ्रुत्वा जन एक उत्थाय पृष्टवान् - महाराज ! सर्वं सम्यगवबुद्धं मया, किन्त्वेतद्वचनं कथमप्यभिज्ञातुं न शक्नोमि, यद् भगवान हि महाशक्तिसम्पन्नोऽस्ति । स च किमपि स्वरूपं ग्रहीतुं शक्नोत्येव । एवं सत्यपि स किमर्थं मनुष्यरूपेणैवाऽवतरति ? भगवद्रूपेणैवाऽऽगत्य स किं नाऽस्माकमुपदेष्टुं शक्नुयात् ? इति । Jain Educationa International For Personal and Private Use Only Page #76 -------------------------------------------------------------------------- ________________ महात्मा प्रोवाच – भ्रातर् ! तस्य लीलां तु स एव जानाति, किन्तु नाऽकारणं स एवमाचरेदिति सत्यम् - इति । किन्त्वेतेन प्रत्युत्तरेण तस्य जनस्य सन्तोषो न जातः । नाऽपि तस्य मनः समाहितं जातम् । विचारं कुर्वन्नेव स गृहमागतः । कार्यव्यापृतः स सर्वं विस्मृतवानपि । सायंभोजनं समाप्य यावत् स निद्रितोऽभूत् तावद् घण्टामितेन कालेन झंझावातो वर्षायाश्च विप्लवः समुद्भूतः । धडधडायमानानि वातायनादीनि पिधातुं स उत्थितः । विद्युल्लेखायां स विचित्रमेकं दृश्यं दृष्ट्वान् । तस्य गृहस्य पृष्ठदेशे राजहंसानां वृन्दमेकमवतीर्णमासीत् । झञ्झावातकारणादेव कदाचिदेषामवतरणं स्यादिति विभाति स्म । तत्र गृहस्य पृष्ठदेशे घासभृतः सुरक्षितश्च विशाल एकोऽपवरक आसीत् । सर्वेऽप्येते राजहंसा यदि तत्र गच्छेयुस्तीवश्यं तेषां रक्षणं स्याद्, अन्यथा सततं प्रवर्धमानवेगे पवने रौद्ररूपेण च वर्षति पर्जन्ये रक्षणं तेषां दुःशकमेवाऽऽसीदिति तेन विचारितम् । __ अथ तेषां कृतेऽपवरकमुद्घाटयितुं स बहिरागतः । द्वारे चोद्घाटिते । किन्तु राजहंसानां तेषां लक्ष्यमेव तत्र न गतम् । स हि तेषां समीपं गत्वा सङ्केतेन शब्देन च तानपवरकं प्रति नेतु प्रयासं कृतवान् । किन्तु, एवं हि तेऽधिकं भयमापन्नाः । अथ गृहान्तर्गता स रोटिका आनीतवान् । अपवरकाद् राजहंसानां स्थानं यावत् स रोटिकानां खण्डानि विकीर्णवान् येम भोज्यलोभात् तेऽपवरकं प्राप्नुयुः । किन्त्वेतावताऽपि राजहंसा न किञ्चिदपि ज्ञातवन्तो यदेष किं सङ्केतयति ! पवनः सततं प्रवर्धमान आसीत् । अतः खिन्नाः सर्वेऽपि ते राजहंसा इतस्ततो धावितं लग्नाः । एवं च सर्वेऽपि तस्य प्रयत्ना विफला जाताः । स हि सर्वथा नैराश्यं गतः । अहो ! सुन्दराकारा एते पक्षिणः किमत्रैव मद्गृहाङ्गणे मृत्युं प्राप्स्यन्ति ? - इति विचारेण सोऽत्यन्तं दुःखितोऽभूत् । सहसैव तस्य विचारः स्फुरितो यद् - अहं मनुष्यस्तैभिन्नोऽस्मि, अतः कथं ते मामनुसरेयुः? इति, अतः स गृहान्तर्गत्वा श्वेतवस्त्रयुगलं धृतवान् दण्डस्य श्वेतवस्त्रस्य च सहायेन मस्तके हंसतुल्ये ग्रीवा, मुखं च निर्मितवान् । एवं हंसाकारो भूत्वाऽवनम्य च सोऽपवरकं प्रति चलितः । हंससदृशो भूत्वा स यदा तवृन्दे गतस्तदा सर्वेऽपि ते तमनुसृतवन्तः । अपवरके च सुरक्षितस्थानं प्राप्तवन्तः। अथ बहिरागत्य स यावद् द्वारं पिदधाति तावद् महात्मना सह जातः संवादो महात्मना च निरूपितं वचनं तस्य स्मृतिपथमायातम् । स तत्रैव स्थितः । आकाशं प्रति दृष्टवान् । भगवान् मानवान् रक्षितुं किमर्थं मनुष्यरूपेणैव पृथिव्यामवतरतीति स सम्यगवबुद्धवान् । बोधदानस्य च भगवतो रीतिं विचार्य तस्य नेत्रे आर्द्र जाते । ६७ Jain Educationa International For Personal and Private Use Only Page #77 -------------------------------------------------------------------------- ________________ कथा लघुबालकस्य निबन्धः मू. ले. डॉ. आई. के. वीजळीवाळा अनु. मुनिरत्नकीर्तिविजयः प्राथमिकशालायाः शिक्षिका विद्यार्थिनो निबन्धं लिखितुमादिष्टवती । विषयं च सूचिवती "भगवतः कीदृशी कृपा तुभ्यं रोचेत ?" ___सर्वेऽपि विद्यार्थिन एकाग्रेण स्वकीयान् विचारान् लिखितवन्तः । शिक्षिका हि तान् सर्वानपि निबन्धान् गृहीत्वा गृहमागतवती । दिवसान्ते च निबन्धान् पठितुमुपविष्टा सा । ततः कस्यचिद् बालकस्य निबन्धं पठित्वा सा बाढं रुदितवती । तदैव तस्याः पतिः कार्यालयाद् गृहं प्रत्यागतः । पत्नी च रुदतीं दृष्ट्वा पृष्टवान् - भोः ! किं जातम् ? किमर्थं त्वमेवं रोदिषि ? - इति । 'अस्य बालकस्य निबन्धं पठतु नाम' - रुदत्येव शिक्षिका पत्युर्हस्ते निबन्धपत्रं ददत्युक्तवनी । पतिस्तं निबन्धं गृहीत्वा पठितुमारब्धवान् । केनचिद् लघुना बालकेन तत्र लिखितमासीत् - "भो भगवन् ! मयि भवानेकां विशेषकृपां करोत्विति मे प्रार्थनाऽस्ति । भवान् मां दूरदर्शनयन्त्रं करोतु । दूरदर्शनयन्त्ररूपेणैव गृहेऽहं स्थातुमिच्छामि । येन समग्रोऽपि परिवारो मम परित एव तिष्ठेत् । अहमेव च तेषां समेषामपि रुचेराकर्षणस्य च केन्द्रं भवेयम् । मम सम्भाषणसमये न कोऽपि मध्ये किमपि भाषेत प्रश्नयेद्वा । मम सम्यक्परिचर्यां च सर्वेऽपि विदध्युः । मम मातापितृभ्यां भ्रातृभ्यो भगिनीभ्यश्चाऽप्यधिकमहमेव मम रोचेय । मदीयं चैतत् कुटुम्बं मया सह कालं गमयितुं कार्याणां सहस्रमपि त्यजेत् । मया सार्द्ध कालायापनाय ते सर्वेऽप्युत्सुकाः स्युः । अपरं च हे भगवन् ! अहमपि तान् सर्वान् सुखिनः प्रसन्नांश्च कुर्याम् । अतो ममेच्छाऽस्ति यन्मां सुन्दरं दूरदर्शनयन्त्रं करोतु । एतावतीमेव कृपामहं त्वत्तो याचे ।" - इति । __एतत्पठनानन्तरं पतिः शिक्षिकां प्रति दृष्ट्वा प्रोक्तवान् – 'हे भगवन् ! कीदृशो दुःखितोऽयं बालकः ! कीदृशं च विरूपं कुटुम्बं तेन लब्धमस्ति ! नूनं दयैवोद्गच्छति तदर्थं मम हृदये' - इति । अश्रुपूर्णनेत्राभ्यां शिक्षिका स्वकीयं पतिमुद्दिश्योक्तवती – 'एष निबन्ध आवयोः पुत्रेणैव लिखितोऽस्ति !' ६८ Jain Educationa Interational For Personal and Private Use Only Page #78 -------------------------------------------------------------------------- ________________ कथा संस्कारतुल्यं धनमस्ति नाऽन्यत् मुनिअक्षयरत्नविजयः यथा मनुजदेहश्चारुवस्त्रैरुत्तमभूषणैश्च शोभते, तथा मनुजजीवनं सुसंस्कारैः सद्गुणैश्च शोभते । ततश्चैव यावती सतर्कतां मानवो निजदेहसौन्दर्याय रक्षति, तावती ततोऽधिका वा जागरूकता तेन जीवनसौन्दर्यायाऽपि रक्षणीया । यद्यपि, वस्त्रैरलङ्कारैश्चाऽङ्गशोभाकरणं यावत्सुकरमस्ति, तावत्सरलं सुसंस्कारैः सद्गुणैश्च जीवनशोभाकरणं नास्ति । तत्तु बहुदुष्करमस्ति । अत एवामुष्मिन् सुभाषिते कथितमस्ति यद् – 'सुलभा रम्यता लोके, दुर्लभं हिं गुणार्जन'मिति । यद्यपि, दुष्करमप्यत्यन्तावश्यकमस्ति जीवनशोभाकरणम् । कथमावश्यकं तद् ? इति चेद् ज्ञातुमिच्छथ, त_षद् हास्यप्रेरकाऽपि बोधप्रदेयं कथा नूनं पठनीया । विशालमेकं नगरम् । विशालनगरस्य पण्यवीथिकाऽपि सहजतया विशाला । तस्यां पण्यवीथिकायां निकटवर्तिग्रामस्यैको धीमान् श्रेष्ठिवर्योऽपि वाणिज्यं करोति स्म । तन्नाम 'बुद्धिराजः' इति । स 'यथा नाम तथा गुणाः' इत्युक्तिं चरितार्थामकरोत् । यथा चाऽयं बुद्धिनिधानस्तथा लक्ष्मीनिधानोऽप्यासीत् । मध्येपण्यवीथिकं तस्य भव्यपण्यशाला विराजते स्म । नगरेऽपि महापण्यपतिरूपेण श्रेष्ठिनो विख्यातिरासीत् । ___ प्रत्यहं मध्याह्ने स्वग्रामात् स नगरं प्रत्यागच्छति स्म । सायं चाऽऽपणं संवृत्य नगरान्निजग्रामं प्रति गच्छति स्म । अहरहः प्रातस्तस्य गणक आपणोद्घाटनं करोति स्म । ____ अथैकस्य दिनस्य कथेयम् । सन्ध्यायां जातायां पण्यशालां प्रतिषिध्य श्रेष्ठिवरो नगरात् स्वग्रामं व्यावर्तते स्म । अरण्यप्रदेशस्य निर्जनमार्गेणाऽऽपणिकः प्रसृतः । समीपस्थाद् गुल्माच्चत्वारः पाटच्चरास्तस्मिन्नेव समये बहिरागच्छन् । स्वग्रामं गच्छतः श्रेष्ठिनः पृष्ठभागे निर्गतैश्चौरैरापणिकः समाहूतो यथा - "भोः ! कोऽसि त्वम् ? तत्रैव तिष्ठ । अन्यथा तव कुशलं नास्ति ।" * पूज्याचार्यश्रीधर्मसूरीश्वरसमुदायवर्ती । Jain Educationa International For Personal and Private Use Only Page #79 -------------------------------------------------------------------------- ________________ चौरादेशं श्रुत्वा श्रेष्ठी तत्रैव स्थितवान् । चौरनेता समीपमागतः पुनश्चादिष्टवान् – “श्रेष्ठिन् ! यावन्तो धनं स्यात् तत् सर्वं जोषं मह्यं यच्छ, अन्यथाऽसय इमे तव स्वजना न भविष्यन्ति ।" ___चौरस्य भयाद् विमनस्को जात आपणिकः क्षणमात्रं तु वेपथुमन्वभवत् । किन्तु सोऽतिनिपुण आसीत् । कीदृश्यपि विपद् भवेत्, तथाऽपि धैर्यमवलम्ब्य रक्षित्वा कुशलतया मार्गनिष्काशनकलां वेत्ति स्म । अतः किञ्चिदिव विचार्य स्वस्थतां च प्राप्य श्रेष्ठी प्राह – "भ्रातरः ! इदानीं मम पार्वे किञ्चिदपि नास्ति, वित्तविहीनोऽस्मि । सर्वं धनं पण्यशालायां मुक्त्वा निर्गतोऽस्मि । अतो युष्मभ्यं किं दद्याम् ? कृपया क्षाम्यत माम् ।" आपणिकस्योत्तरं श्रुत्वा चौरनेता तत्कोशमन्वैष्यत् । परं, किञ्चिदपि न प्राप्तम् । तदानीं श्रेष्ठिना कृत्रिमहास्यपूर्वं कथितं - "भ्रातरः ! यदि प्रागवदिष्यत तर्हि किञ्चिद् धनं युष्मभ्यमानेष्ये ।..." तस्करनायकोऽवदत् - "न कोऽपि बाधः । एवं कुरु, तव गणकस्योपरि लेखपढें विलिख्य देहि यद् ‘अस्मभ्यं धनं देयम्' इति । एवं लेखनीयं यदस्मदभिधानमपि न प्रष्टव्यम् । मौनेनैव धनं दातव्यम् ।" ___ आपणिकः पत्रं लेखितुं यावत् सज्जोऽभवत्तदैवैको दस्युरुवाच - "श्रेष्ठिन् ! पत्रमध्ये त्वया धनसंख्या न लेखितव्या । अस्माकं कथनस्याऽनुरूपं धनसंख्या लेख्या ।" आपणिकः 'ओम्' इत्युक्त्वा पत्रं लेखितुं लेख्यं लेखनी च निरकाशयत् । पत्रे धनस्य कोष्ठकः संख्याहीन आलेखितः । ग्रामीणचौरा अन्योन्यं 'कियद्धनं याचितव्यमिति चिन्तितवन्तः । एकश्चौरोऽब्रवीत् – “अये ! शतं रूप्यकाणि ग्रहीतुं कियन्ति शून्यानि लेख्यानि ?" तेष्वन्यतमश्चौरः पाठ्यपुस्तकानि त्रीणि पठितवान्नासीत् । स 'अधुनैव कथयामि' इत्युक्त्वा विचारितवान् पश्चाच्च कथितवान् – “एकस्मिन् शून्ये क्रियमाणे सति भवेद् दशकम्, द्वयोश्च क्रियमाणयोः शतम् ।" अतः प्रथमचौरेणोक्तः आपणिकः – “श्रेष्ठिन् ! द्वे शून्ये क्रियेताम् ।" श्रेष्ठिना द्वे शून्ये कृते । "श्रेष्ठिन् ! एकमधिकं शून्यं कर्तव्यं" द्वितीयचौरेणोदितम् । अतः श्रेष्ठी तृतीयं शून्यं कृतवान् । तत्क्षणं तृतीयचौरोऽवदत् – “मदीयमेकं शून्यं कुरु ।" "मदीयमप्येकमधिकं कर्तव्यं ।" चतुर्थोऽपि प्राह । इत्थं पत्रमध्ये चौरैः पञ्च शून्यान्यकार्यन्त । आपणिकेन च तावन्ति शून्यानि कृतानि । पश्चाच्च प्रज्ञाभिमानेन श्मश्रु व्यावर्तयन्नापणिकः पत्रे स्वचिह्नमकरोत् । पत्रं च चौरहस्तेऽददात्, तस्मिन्नित्थं लिखितमासीत् - "प्रिय गणकवर्य ! प्रणामो ज्ञातव्यः । विशेषतो ज्ञापयामि यदिदं पत्रमानयट्यो भ्रातृभ्यः किञ्चिदप्यनापुच्छ्य रूप्यकाणि ००००० देयानि । ७० Jain Educationa Interational For Personal and Private Use Only Page #80 -------------------------------------------------------------------------- ________________ क्षतिर्न कर्तव्या । - बालसासनग्रामात् श्रेष्ठिबुद्धिराजदलसुखरामेण लिखितः पत्रादेशः, प्रणामः पुन पाठ्यः ।" चौरा हर्षपुरस्सरं पत्रं गृहीत्वा निजगृहमगच्छन् । रात्रिरभवत् । 'श्वः प्रचुरं धनं प्राप्स्याम' इति कल्पनायां मलिम्लुचा निमग्नाः सञ्जाताः । ते गणयितुमारब्धवन्तः - "एकं शून्यमर्थाद् दश रूप्यकाणि, द्वे भवेतां तर्हि शतं रूप्यकाणि, त्रिभिः शून्यै रूप्यकसहस्रं, चतुर्भिरयुतं रूप्यकाणि पञ्चभिश्च लक्षं रूप्यकाणि भवेयुः । अहोहो..." चौरा विचारमात्रेणैवाऽतिप्रसन्ना जाताः । लक्षं रूप्याणि प्राप्स्यन्त इति प्रमोदेन निशायां निद्राऽपि नाऽऽगता । अपरेधुश्चौरनेताऽन्यतमेन चौरेण सह नगरं गतवान्, नैगमगणकाय च पाणौ पत्रमर्पितवान् । गणकस्तत् पठितवान् । इतस्ततश्चाऽभ्रमयत् । वस्तुस्थितिमनुमातुं प्रयत्नशीलो गणकः श्रेष्ठिनैपुण्यमवागच्छत्, स्वान्तेऽहसत्, पश्चाच्चाऽपृच्छत् – “भ्रातः ! पत्रमिदं केन लेखितम् ।" चौरनायकोऽचष्ट – “अस्माभिः ।" "धनसंख्या च ?" गणकः पुनः पृष्टवान् । चौरा आख्यातवन्तौ – “साऽप्यस्माभिरेव लेखिता ।" "धनसंख्यां लेखयितुं यूयं किमुक्तवन्त आसन् ?" गणकेन पुनः पृष्टम् । अस्माभिरुक्तं यद् - "श्रेष्ठिन् ! पत्रमध्ये पञ्च शून्यानि लेखनीयानि, अतः श्रेष्ठिना पञ्च शून्यानि लिखितानि, अस्माभिः किमपि न लिखितम् । पत्रे श्रेष्ठिचिह्नमप्यस्ति । अतः सद्यो लक्षं रूप्यकाणि गणयित्वा देहि ।" चौरनेताऽवदत् ।। अथ गणकेन तत्त्वमुक्तं यद् - "भ्रातः ! पञ्चसु शून्येषु लिखितेषु सत्सु लक्षं रूप्याणि भवेयुस्तत् सत्यम् । किन्तु, तत्पूर्वमेकोऽङ्कोऽवश्यं लेखनीयः । केवलानि शून्यानि तु निरर्थकानि सन्ति । एतादृशानि शून्यानि बहून्यपि स्युः, परं तानि किञ्चिदपि दापयितुं न शक्नुवन्ति ।" गणकवचनेन चौरौ निजमूर्खतां ज्ञातवन्तौ, हसितवन्तौ स्वग्रामं च प्रत्ययाताम् । __शाखाचन्द्रन्यायेनेयं कथा हृदयस्पशिबोधं प्रयच्छति । किंविधः स बोधः ? अयमेव, यदङ्कविहीनानि शून्यानि यथाऽकिञ्चित्कराणि सन्ति, तथैव संस्कारविहीनं सद्गुणविहीनं च जीवनमप्यर्थहीनमस्ति । ___ अनुभविभिश्चिन्तकैश्च तु सूक्तौ कथ्यते 'संस्कारतुल्यं धनमस्ति नाऽन्यदि'ति । अर्थाद् मनुजस्य यथार्थं धनं सुसंस्काराः (उपलक्षणाद् सद्गुणाश्च) एव सन्ति । तस्माज्जीवने सदैव सुसंस्कारप्राप्त्यै सद्गुणप्राप्त्यै च यत्नः कर्तव्यः । वयं सुसंस्कारयुतं सद्गुणयुतं च जीवनं निर्मातुं प्रयतेमहि, जीवनं च सफलं कुर्वीमहि । ७१ Jain Educationa Interational For Personal and Private Use Only Page #81 -------------------------------------------------------------------------- ________________ कथा कः प्रभुभक्तः ? । सा. धृतियशाश्रीः नारदर्षेर्मनसि 'आदिनं भगवन्तमेव स्मरन् मत्सदृशः प्रभुभक्तः कोऽपि नास्ती'त्येवं गर्व आसीत् । तद्गर्वमपाकर्तुं भगवता स उक्तः - 'नन्दनग्रामे भरतनामैक: कृषीवलो वसति । स मम परमभक्तोऽस्ति । तत्सकाशाद् त्वया किञ्चिच्छिक्षितव्यं वर्तते । अतस्त्वं तत्र गत्वा दिनमेकं तेन समं यापय, पाठं च शिक्षित्वा प्रत्यागच्छ' । भगवतः कथनमेतत् तस्मै नैवाऽरोचत । तेन चिन्तितं – 'तस्मात् कृषीवलादपि मया किं वा शिक्षितव्यम् ?' एवंस्थितेऽपि भगवद्वचनस्याऽनादरं कर्तुमपि स नैवेष्टवान् । अतो भगवन्तमापृच्छ्य स कृषीवलगृहं प्राप्य तस्य दिनचर्यां निरीक्षितवान् । - कृषीवलो हि प्रातःकाले समुत्थाय प्रथमं भगवन्नामस्मरणं कृतवान् सकृत्, ततः प्रातःकार्याणि कृत्वा क्षेत्रं गतः, कार्यलीनश्च जातः । ततो मध्याह्न भोजनात् पूर्वं स भगवन्नामस्मरणं कृतवान् सकृत्, पश्चात् भोजनं कृत्वा पुनः स्वकार्ये लग्नः । सायङ्काले पुनर्गृहमागत्य भोजनादि च कृत्वा शयनात् पूर्वं सकृद् भगवन्नाम स्मृत्वा स सुप्तः । ____एतत् सर्वं सम्यङ् निरीक्ष्य नारदर्षिर्भगवत्समीपं प्रत्यागतः कथितवांश्च – 'प्रभो ! तस्य कृषीवलस्य समग्रामपि दिनचर्यां विलोक्य समागतोऽस्मि । स कथं भवतः परमभक्तो यो हि केवलं वारत्रयमेव भवन्नामस्मरणं कृतवान् समग्रेऽपि दिने ? तत्सकाशाच्च मया किं शिक्षितव्यमस्ति ?' इति । तच्छ्रुत्वा भगवता चिन्तितं यद् – 'अयं सम्यग् बोधयितव्यो मया' । ततो दुग्धपूर्णं भाजनमेकं नारदाय दत्त्वा कथितं - 'कृषीवलात् किं शिक्षितव्यमस्तीत्येतत् पश्चात् कथयिष्यामि, प्रथमं तावदेतत् पात्रं स्वीकृत्य समग्रामपि पृथ्वी प्रदक्षिणीकृत्य समागच्छ, किन्तु प्रदक्षिणीकुर्वता त्वयाऽस्मात् पात्रादेकोऽपि दुग्धबिन्दुरधो न पतेत् सर्वथा - इति सावधानेन गन्तव्यमन्यथा मे महती हानिः स्यात्' ।। ___ 'भवतु प्रभो!, अहं भवदादेशं सर्वथा पालयिष्यामी'ति कथयन् नारदस्तद् दुग्धपात्रं गृहीत्वा निरगच्छत्, ततो यथा बिन्दुरेकोऽपि नाऽध: पतेत् तथा पृथ्वी प्रदक्षिणीकृत्य भगवत्समीपमागतः । भगवता पृष्टं - 'किं समनुष्ठितं मत्कार्यम् ?' तेनोक्तं - 'आम् प्रभो ! भवदादेशानुसारं पात्रादेकोऽपि दुग्धबिन्दुर्यथा नाऽधः पतेत् तथा पृथ्वीं प्रदक्षिणीकृत्य समागतोऽस्मि' । भगवता कथितं – 'बाढम् । किन्तु तत् कुर्वता त्वया कतिवारमहं स्मृतः ?' नारदेनोक्तं – 'प्रभो ! नैकवारमपि । यतो मम समग्रमप्यवधानं दुग्धपात्रे आसीत्' । भगवता विहस्योक्तं – 'आदिनं मम नामस्मरणं कुर्वन् त्वमपि केवलं लघौ कार्येऽस्मिन् नियुक्तः सन्नेकवारमपि मां न स्मृतवान्, तत्र स कृषीवलस्तु आदिनं कार्यं कुर्वन्नपि वारत्रयं तु मां स्मरत्येव। अतो वद, कः मम परमो भक्तः - त्वं वा कृषीवलो वा? तथा तत्सकाशादपि तव किञ्चिच्छिक्षणीयं वर्तते न वा?' एतन्निशम्य लज्जितो नारदो भगवच्चरणयोः पतिता स्वापराधस्य क्षमा याचितवान् प्रभुभक्तेर्गर्वं च त्यक्तवान् । ७२ Jain Educationa International For Personal and Private Use Only Page #82 -------------------------------------------------------------------------- ________________ कथा यथा दानं तथा फलम् सा. दीप्रयशाश्रीः __एकस्मिन् ग्रामे श्रीकान्तनाम्ना केनचन श्रेष्ठिना दानशालाऽऽरब्धा । नैके भिक्षुका दुर्गताश्च तत्राऽऽगत्य भोजनं कुर्वन्ति स्म । श्रेष्ठ्यादेशेन तत्र प्रातः सायं चेत्युभयकालमपि यावानलरोटिका सूपं च भोजनार्थं दीयेते स्म । श्रेष्ठिन एक पुत्रोऽप्यासीत् । तस्य विवाहोऽचिरादेव जात आसीत् । तत्पत्नी सुशीला चतुरा चाऽऽसीत् । श्वशुरगृहं समागता साऽल्पकालेनैव सर्वमपि व्यवहारमात्मसात्कृतवती । किन्तु, अद्याऽपि दानशालायां किं प्रवर्तमानमस्तीति सा नैव जानाति स्म । एकदैकः कर्मकरः शटितयावानलस्यूतं कुतश्चिदानीय गृहे स्थापितवान्, द्वितीयदिने च तन्नीत्वा यावद् गच्छति स्म तावत् पुत्रवध्वा तल्लक्षितं, पृष्टं च कर्मकरस्य - 'कुत्र नयसि शटितं धान्यमेतत् ?' तेनोक्तं - 'आर्ये ! अस्माकं दानशालायां नयामि' । "किमर्थम् ?' 'तत्रैतद्धान्येनैव भोजनं निवर्त्य याचकेभ्यो दीयते, इत्यतो नयामि' । चतुरया स्नुषया सर्वमपि क्षणार्धेनैवाऽवगतं, सेवकहस्तस्थात् स्यूताच्च किञ्चिद्धान्यं निष्कास्य गृहीतम् । ततो गते सेवके तया तेनैव धान्येन भोजनं पक्तम् । यदा श्रेष्ठी गृहमागत्य भोजनार्थमुपविष्टस्तदा स्नुषया तदेवाऽन्नं तस्य परिवेषितम् । ततः कवलमेकं गृहीत्वा यावत् स मुखे मुञ्चति स्म तावतैव 'थू-थू' इति कृत्वा निष्कासितवान् कोपाकुलश्च स्नुषां भत्सितवान् – 'अस्मद्गृहे उत्तमधान्यस्य महानेव कोष्ठागारोऽस्ति तथाऽप्येतादृशं शटितं धान्यं किमर्थं भोजनायोपयुक्तम् ? आदिनं कार्यं कृत्वा श्रान्तानामस्माकमेतादृशं भोजनं परिवेषयसि किम् ?' स्नुषया मृदुतयोक्तं - 'क्षम्यतां पितः !, किन्तु नीतिशास्त्रेषु कथितं यद् - यच्च यादृक् च दीयते तच्च तादृक् च लभ्यते । आगामिभवे भवत एतादृशमेव भोजनं लप्स्यते, तदशितुं भवतोऽभ्यासः स्यादित्येतदर्थमेव भवते एतादृशं भोजनं परिवेषितमस्ति' । एतन्निशम्याऽमर्षवशात् श्रेष्ठिना पृष्टं – “किमर्थं मयाऽऽगामिभवे एतादृशं भोजनं लप्स्यते ?' तयोक्तं – 'दानशालायां भवान् याचकेभ्य एतादृशमेव भोजनं ददाति, ततश्च तत्फलतया भवताऽऽगामिनि भवे एतादृशमेव भोजनं प्राप्तव्यम् !!' एतच्छ्रुत्वा क्षणार्धेनैव श्रेष्ठी सर्वमप्यवबुद्धवान् लज्जावनतमुखश्च स्नुषां प्रशंसितवान् –'सम्यगहं बोधितस्त्वया । इतः परमेवं न भविष्यति' । एतेन स्नुषाऽन्ये च गृहसदस्या हृष्टा जाताः । श्रेष्ठिना च तद्दिनादारभ्य दानशालायामुत्तमधान्यादिकमेवोपयोक्तुमारब्धम् । Jain Educationa Interational For Personal and Private Use Only Page #83 -------------------------------------------------------------------------- ________________ (ग्रन्थालये) वाचकः कृपया मे आत्मघातसम्बन्धीनि सर्वाण्यपि पुस्तकानि ददातु । ग्रन्थपालः तत् तु दद्यामेव, किन्तु तानि प्रत्यावर्तयिष्यति कः खलु !! मर्म-नर्म कीर्तित्रयी न्यायाधीशः त्वं स्वीकुरुषे यदस्य धनं त्वया चोरितम् इति ? चौर: नैव प्रभो ! अनेन स्वयं मेऽर्पितं तत् । न्यायाधीशः (साश्चर्यं ) कथं कदा च किल ? यदाऽहं तस्य च्छुरिकामदर्शयं, तदा !! चौर: स्वज्ञः सुज्ञ: कविः (उपाहारगृहे) भोः ! तादृशं चायं पायय येन समग्रेऽस्तित्वे दीपशतं प्रकटेत् ! वितारकः एवं वा ? तर्हि चायपेयं मृत्तैलेन निर्वर्तयाम्युत दुग्धेन ? छ Jain Educationa International विवाहोत्सवे वरः किमर्थमश्वे आरोह्यते ? पलायनस्याऽन्तिममवसरं ज्ञापयितुं भोः ! कर्मकर: कृपया मम वेतनवृद्धिं करोतु, यत इदानीमेव मम विवाहः सञ्जातः । आपणिकः आपणाद् बहिर्यदि किमपि घटेत तदा तदुत्तरदायित्वं नाऽस्त्यस्माकम् !! ७४ For Personal and Private Use Only Page #84 -------------------------------------------------------------------------- ________________ भिक्षुकः (स्त्रियं प्रति) सुन्दरि ! अन्धाय पञ्च रूप्यकाणि देहि । (तत्पतिस्तस्मै दशरूप्यकाणि ददाति) स्त्री (कुपिता) किमाकाशात् पतति वा धनम् ? पतिः नैव भोः ! किन्तु... स निश्चयेनाऽन्धोऽस्ति !! (रविवासरस्य प्रातःकालः, सद्यः परिणीतः पतिः शीघ्रमेवोत्थाय महानसं प्राप्तः, तूर्णतूर्णं चायपेयं प्रातराशं च सज्जीकृत्य बृहत्स्थालिकायां तत्सर्वं शोभनतया स्थापयित्वा शयनगृहं नीतवान्, पत्नी च प्रबोध्य -) पतिः शुभः प्रात:कालः प्रिये !, त्वत्कृतेऽस्ति सिद्धः प्रातराशः । पत्नी अहो ! अत्यन्तं शोभनं कृतं, नूनमाश्चर्यकरमेतत् ! परिमलादेव ज्ञायते स्वादुः प्रातराशः । पतिः लक्षितं त्वया सर्वमपि खलु ! पत्नी किमत्र वक्तव्यम् ? परन्तु किमर्थं भवान् पृच्छति ? पतिः श्वः प्रातःकालात् प्रत्यहमहं मम प्रातराशमेवंरीत्यैव सज्जीकृतमिच्छामि !! (न्यायालये साक्षितया कश्चन बालक आगतः) अधिवक्ता किं केनचित् शिक्षितोऽसि न्यायालये किं वक्तव्यमिति ? बालकः आम्, महोदय ! अधिवक्ता मया चिन्तितमेवाऽऽसीत् तत् । भवतु, वद केन शिक्षितोऽसि ? बालकः मम पित्रा, महोदय ! अधिवक्ता बाढम् । किं तेन शिक्षितं तव ? बालकः तेनोक्तं यत् - एतेऽधिवक्तारस्त्वां व्यामोहयितुं बहु प्रयतिष्यन्ते किन्तु यदि त्वं सत्यं न त्यजेस्तदा न किमप्यसमञ्जसं भविष्यति !! ७५ Jain Educationa International For Personal and Private Use Only Page #85 -------------------------------------------------------------------------- ________________ मौनं सर्वार्थ साधनम् * अध्यक्षः संस्कृतविभागः अस्माकं पूर्वजैः ये ये शास्त्राणि रचितानि तस्मिन् मानवजीवनस्य कल्याणाय बहवः सूत्राणि श्लोकानां मध्ये न्यस्तानि । तस्मिन् “मौनगुणम्" एकं चानन्यम् । यतः गृहे गृहे ये ये कलहापि प्रवर्तन्ते, तेपां न्यूनीकरणाय किं वा अपारणाय जिह्वानियंत्रणम् अतीव आवश्यकम् । यतः परस्पराक्षेपाणि व जिह्वानियन्त्रणस्य अभावः सूचयति । अस्माकं साहित्ये कालिदासभासादि बहवः कवयः सन्ति । तेषां मध्ये भर्तृहरिः तु अन्यतमः । तैः नीतिशतके लिखितं यत् 'विशेषतः सर्वविदां समाजे मौनं एव अज्ञानताया: छादनम्” । किन्तु दैनन्दिनव्यवहारे रसनानियंत्रणम् सर्वैः संयमपूर्वकः साध्यम् - साधनीयम् वा यदि चेत् अस्माभिः मौनस्य अनुष्ठानम् सर्वथा सर्वदा च क्रियते चेत् तस्य सामाजिकलाभः अपि भविष्यति । एवमेव कौटुम्बिकलाभः अवाप्स्यति । जिह्वानियंत्रणे जनानां वा जनस्य वा ज्ञानम् वा आचरणं चिह्नितं भवति । यद्यपि कस्मिंश्चित् स्थाने मौनं विहाय वाणी वा वाक्व्यवहारः अपि प्रत्युत्तरदानाय आवश्यकः । अनेन प्रश्नानां समाधानं भवति । यदि चेत् एतादृशि सज्जता न भवेत् चेत् मौनान् मूकः गणयति । संक्षिप्ते कथनं यत् अस्माभिः मौनावस्थायाः माहात्म्यम् संधारणीयम् तथैव वाक्यवहारस्य आवश्यकताऽपि साधनीया । न विस्मरणीयम् यत् मौनं सर्वार्थ: साधनम् । Jain Educationa International अस्माकं संस्कृतभाषाध्यापकानां कीदृशी शोचनीया परिस्थितिरस्ति, फलतश्च तत्सकाशादधीतानां विद्यार्थिनामपि संस्कृतभापाज्ञानं कीदृशं भवेदित्येव केवलं दर्शयितुमत्र कस्यचन महाविद्यालयस्य संस्कृतविभागाध्यक्षेण प्रेषितो लेखोऽत्र यथातथं ( सम्मार्जनं सम्पादनं चाऽकृत्वा) प्रकाश्यते । (लेखकस्य नाम्नी निर्देशोऽत्र साकृतं परिहृतोऽस्ति ।) विद्वज्जनाः संस्कृतभाषाविदश्चाऽत्राऽर्थे स्वाभिप्रायं प्रदातुं प्राध्यन्ते । (सं.) ७६ - For Personal and Private Use Only Page #86 -------------------------------------------------------------------------- ________________ पाइयविन्नाणकहा आचार्यविजयकस्तूरसूरिः प्राकृतविभागः कथा दक्खत्त-रूव-बुद्धि-पुण्णाणं मुल्लंमि निवाइपुत्ताणं कहा दक्खत-रूव-विन्नाण-पुण्णाणं चोत्तरोत्तरं । मुल्लं नेयं इहं लोगे, रायपुत्ताइणो जहा ।। कत्थ वि नयरे निव-मंति-सेट्ठि-सत्थवाहाण चत्तारि पुत्ता पवित्तचित्ता कलाकलावविउणो आसि । ते अन्नोन्नदढनेहा खणमेत्तं पि विरहं न सहति । अन्नया ते पभणंति - "जेण देसंतरम्मि गंतूण अप्पा न तोलिओ, कज्जारूढस्स मम सामत्थजोगो को अस्थि इअ न णायं, सो जणमज्झम्मि किं गणणं लहेज्ज? अओ अम्हाणं देसंतरे गमणं जुत्तं" । तओ नियनियसामत्थपरिक्खाहेडं नियतणुमेत्तसहाया ते सव्वे पभायसमए देसंतरं चलिया। दिणद्धसमए एगम्मि पुरे पत्ता, अन्नायकुलसीला कत्थई देवभवणाणे ओइण्णा । कहं अज्ज भोयणं होहि त्ति भणिराण सत्थवाहसुओ “भो ! अज्ज मए भायणमुप्पाइऊपण देय''मिइ भणइ । तओ तिन्नि वि तहिं ठवित्तु एगागी नगरंतरं गओ । ७७ Jain Educationa Interational For Personal and Private Use Only Page #87 -------------------------------------------------------------------------- ________________ तत्थ एगस्स वणियस्स आवणे समुवविट्ठो । तम्मि दिणम्मि नयरे कस्सई देवस्स महूसवो आसि । सो वणिओ धूव-विलेवण - वासाईणं विक्केउं लग्गो, जया सो पुडियाणं बंधं काउं न पारए, ताहे सो सत्थवाहसुओ साहेज्जं काउमारद्धो । पत्ते भोयणकाले वणिएण सो भणिओ 'मम पाहुणो भव' । तेण भणियं – 'नाहं एगागी, अण्णे वि मज्झ तिण्णि वयंसा बाहि संति' । तया वणिएण भणियं ‘ते वि लहुं आकारिज्जंतु' । सव्वे ते समागया । तेण तेसिं सव्वेसिं अइगउरवसारमायरं काउं भोयणं दिणं । एवं तस्स भोयणवए पंचरूवगं लग्गं । बीयदिणे सेट्ठिसुओ भोयणदाणे पइण्णं काऊण निग्गओ । सोहग्गियजणेसु सिररयणसारिच्छो सो गणिगावाडगमज्झट्ठियपवरदेवकुले उवविट्ठो । तत्थ तया पेच्छणगखणो महं आसि । एगाए गणियाए धूया नवजोव्वणुब्भडा नियसुभगत्तणमउम्मत्ता कंपि पुरिसं रमिउं न इच्छइ । सा तं दट्टु अक्खित्तमाणसा पुणो पुणो वि पेक्खिउं समाढत्ता । एस वइयरो गणियाए मुणिओ, सा सतोसचित्ता तं सेट्ठिपुत्तं आमंतिय नियगेहं नेऊण तस्स धूयं पणामेइ । सेट्ठिपुत्तवयणेण चउण्ह वि तओ भोयण - तंबोल - वत्थमाइओ रूवगसयमोल्लो उवया विहिओ । का मम तइयदिणे अमच्चसुओ बुद्धिपहाणो निवघरम्मि गओ, जत्थ विवाया बहुविहा भूरिकाला य वट्टंति । तत्थ दो महिलाओ एगं पुत्तं घेत्तुं उवट्ठियाओ । ताहिं अमच्चो भणिओ " भो सामिय ! विण्णत्ति सुसु - अम्हाणं भत्ता लहुअम्मि पुत्तम्मि जाए समाणे देसंतरे मरणं पत्तो, बालो न जाणेइ जणणी एआसिं ति । तओ नियडिसहावा सवत्ती कहे मज्झ धणं ममं चिय, जओ अयं पुत्तो मइ जाओ, ता जीइ एस पुत्तो, दविणं पि तीइ निच्छयं होइ । एयस्स विवायस्स निण्णयत्थं तुम्हं समीवे आगयाणं अम्हाणं बहुकालो लग्गो, ता जह अज्ज एसो विवाओ परिच्छिज्जइ तहा कुणसु" । अमच्चेण पुत्तं धणं च ताणं थीणं दाऊण भासियं - "एस विवाओ अउव्वो, कहं छिज्जिस्सइ सुहं" इअ भणिरे अमच्चे, तया अमच्चपुत्त्रेण भणियं “हे अमच्चवर ! जइ तुम्हाणमणुन्ना सिया, तया एयं विवायं अहं खु छिंदामि' । अणुमन्निएण तेण अमच्चपुत्तेण ता दो वि महिलाओ भणिआ "एत्थ धणं पुत्तं च उवट्टवेह" । ताहिं तहा कए, उवणीयं करवत्तं, धणस्स दो विभागा कया, पुत्तस्स दुभागकरणाय नाभिदेसे जाव करवत्तं आरोवियं ताव सुयजणणी 'न अन्नह छिज्जइ एस विवाउ' त्ति निक्कित्तिमनेहेण भरिआ भणइ " दिज्जउ विमाऊए पुत्तो वित्तं च, मा होउ सुयमरणं" । अमच्चसुएण नायं - 'एसो सुओ इमाइ, न इमीए' । निद्धाडिया तओ सा विमाया । पुत्तो धणं च सच्चजणणीए अप्पिअं । एवं - स मंतिवरो तस्स तारिसबुद्धीए संतुट्ठो तं अमच्चपुत्तं नियमंदिरे नेऊण दीणाराणं सहस्सं तस्स देइ । पत्ते चउत्थे दिवसे रायसुओ 'जइ मम रज्जसंपत्तिपुण्णाई सिया, तो बाढं उग्घडंतु' इअ चिंतमाणो नयरमज्झे निग्गओ । अह तप्पुणोदएण तक्खणे तप्पुरराया अपुत्तो अणिमित्तमेव पंचत्तं पत्तो। रज्जजोगपुरिसस्स गवेसणा पउत्ता, तया नेमित्ति - आइट्ठो सो रायसुओ तस्स रज्जम्मि ठविओ । तओ चत्तारि वि मिलिया पहिट्ठमणा परोप्परं पभणंति - " कित्तिअं अम्हाणं सामत्थं ?", तओ एवं भणंति - - Jain Educationa International - - ७८ - For Personal and Private Use Only - - - - Page #88 -------------------------------------------------------------------------- ________________ दक्खत्तणयं पुरिसस्स, पंचगं सइयमाहु सुंदेरं । बुद्धी सहस्समुल्ला, सयसाहस्साइं पुण्णाई ॥१॥ सत्थाहसुओ दक्ख-त्तणेण सेट्ठिसुओ य रूवेण । बुद्धीइ अमच्चसुओ, जीवइ पुण्णेहिं रायसुओ ॥२॥ उवएसो- दक्खत्ताइगुणग्गामे, मच्चा पुण्णमिहं वरं । लाहह्र सयय तस्स, उज्जमेज्जा सुहेसिणो ॥३॥ दक्खत्त-रूव-बुद्धि-पुण्णाणं मुल्ले निवाइपुत्ताणं कहा समत्ता ॥ - उवएसपयाओ (२) परिणयबुद्धीए वुड्ढ-तरुणमंतीणं कहा 'नाणं निरत्थयं तस्स, जस्स नाऽणुभवो 'मणा' । महीवस्सेह दिèतो वुड्ढतरुणमंतिणो । एगस्स महारायस्स दुविहा मंतिणो, वुड्ढा तरुणा य । तरुणा भणंति - "एए वुड्ढा मइभंसपत्ता, न सम्मं मंतिणो त्ति, ता अलाहि एएहिं, अम्हे चेव पहाणा" । अन्नया तेसिं परिच्छानिमित्तं राया भणइ - "भो सचिवा ! जो मम सीसे पण्हिप्पहारं 'दलयइ, तस्स को दंडो कीरइ ?" । तरुणेहिं विआरसुन्नेहिं भणिअं - "किमेत्थ जाणियव्वं ? तस्स सरीरं तिलं तिलं कप्पिज्जइ, सुहुयहुयासणे वा छुब्भइ" । तओ रन्ना वुड्डा पुच्छिया । तेहिं एगंते गंतूण विआरिअं - 'नेहप्पहाणा महादेवी चिय एवं करेइ, ता तीए पूआ चेव कीरइ, एयमेव एत्थ वत्तव्वं' ति निच्छिऊण भणियं - "जं माणुसमेरिसं महासाहसमायरइ, तस्स सरीरं ससीसवायं कंचणरयणालंकारेहिं अलंकिज्जइ" । तुद्वेण रण्णा भणियं - "साहु विन्नायं" ति रण्णा सच्चदंसिणो ते च्चिय पमाणीकया । जओ परिणयबुद्धिबला वुड्ढा अहियकारणेसु कया वि न पवस॒ते ।। उवएसो - वुड्ढतरुणमंतीणं, नायगं नायगब्भियं । सुणिऊण 'वियारित्ता सया कज्जगरो भव' ॥ परिणयबुद्धीए वुड्ढतरुणमंतीणं कहा समत्ता ॥ - धम्मरयणपयरणे १. मनाक् । २. ददाति । ७९ Jain Educationa Interational For Personal and Private Use Only Page #89 -------------------------------------------------------------------------- ________________ (३) अइरागंधधणियस्स कहा भज्जाइ रागमूढप्पा-ऽहियं पि मन्नए हियं । छगणेण कयं सागं, साउअं मण्णए पिओ ।। कम्मि वि नयरे एगो धणिओ आसि । तस्स दुण्णि भज्जाओ संति । एगा पइवच्छला जुण्णा, अवरा य नवीणा, सा पइम्मि नीरागा वट्टइ । थीसहावाओ परुप्परं किलेसं वाक्कलहं च कुणंतीओ दळूण तेण धणिएण भिन्नघरंमि ताओ ठविआओ । सो मूढप्पा नवीणाए भज्जाए गुणे पासेइ, जुण्णाए दोसं निरिक्खेइ । पइदिणं वारगेण ताणं घरे वसइ । जया जुण्णाए वारगो आगच्छइ, तया सा पइं बहु सम्माणेइ, ससिणेहं सुपक्कं सरसं भोयणं भुंजावेइ, तह वि सो भोयणदोसं चिय कहेइ – “तए सुट्ट न रंधिअं, दुपक्कं नीरसमन्नं कयं, रंधिउं न जाणासि ? तुवत्तो सा नवीणा पिआ सोहणयरं सरसमन्नं निम्मवेइ" । एवं सो रागंधो जुण्णं भज्जं निदेइ । नवीणा कयाइ अवमाणं करेइ, नेहरहिया सा जेमावेइ, तह वि मूढो तं चिअ पसंसेई, एवं कालो गच्छइ । __एगया जुण्णभज्जाघरंमि भोयणट्ठाए सो समागओ, सा सब्भावपुरस्सरं सक्कारिऊण तस्स साउं सुरसं पक्कन्नं थालीए परिवेसेइ । तह वि सो वएइ – "तुमए सोहणं रंधिअं न, एयं मज्झ नीरसं आभाइ, तओ तुं तीए नवीणाए भज्जाए घरंमि गंतूण किंपि वंजणं आणेहि, जओ तेण वंजणेण सह एयमन्नंपि मम रोएज्जा" । तओ सा मूढं पियं नाऊण नवीणप्पियाए घरंमि वच्चिऊण पिअस्स हेउं सागं मग्गेइ, कहेइ – “मज्झ रंधिअमन्नं पिअस्स न रोएइ, तओ साउयरं किंपि वंजणं देसु" । तओ दुट्ठा सा गोमयं गिण्हिऊण तेल्ल-मिरिआईहिं वग्घारिऊण देइ । तं च सा गहिऊण घरंमि गंतूण पइस्स देइ । सो भुंजमाणो तं बहुं पसंसंतो मूढो भज्जं कहेइ – “केरिसं तीए साउयरं रंधिअं, तुमत्तो वि अईव सोहणयरं निम्मिअं"। एवं रागंधो सो असुहं पि सुहं मन्नमाणो हरिसेणं भुंजइ । जुण्णाए भज्जाए "एवं छगणनिम्मियं वंजणं" ति सच्चं कहियं पि सो मूढो न मन्नेइ । उवएसो - दिट्ठिरागेण अंधस्स, दिद्रुतं नाणदायगं । नच्चा तं सुहमिच्छंतो, दूरओ परिवज्जए ॥ अइरागंध-धणिअस्स कहा समत्ता ॥ - सूरीसरमुहाओ ८० Jain Educationa International For Personal and Private Use Only Page #90 -------------------------------------------------------------------------- ________________ (8) अणासत्तजोगम्मि जस-सुजसाणं कहा अणासत्तयजोएण, कम्मबंधो न जायए । अस्स तत्तावबोहट्ठ, कुलपुत्ताण नायगं ॥ एगम्मि गामे कुलपुत्तस्स दुवे पुत्ता आसि । जिट्ठो जसो कणिट्ठो य सुजसो । ते जोव्वणत्था धम्मदेवसूरिपासे धम्मं सोच्चा पडिबुद्धा पव्वइउं उवट्ठिआ पियरे आपुच्छंति । नेहमोहिया ते न य विसज्जंति | बहुं च भन्नमाणेहिं तेहिं भणियं – “ एगो पव्वयउ, एगो पुणो अम्हं वुड्ढभावे परिपालगो भवउ' । तओ जेद्वेण कणिट्ठो भणिओ - "तुमं चिट्ठ, अहं पव्वयामि " । तओ सो भइ "अहं चिय पव्वयामि' । तओ जसेण 'वरमेसो वि ताव नित्थरउ, अहं पुण दुप्पडियाराणि जणयाणि कहमवमन्नेमि'त्ति चितिऊण विसज्जिओ सुजसो पव्वइओ विहिणा । विसुद्धपरिणामो सो नाणचरित्ताराहणसारो विहरइ । इयरो वि जणएहिं अणिच्छंतो वि कारिओ कुलकन्नयाए पाणिग्गणं । पवत्तो किसिकम्माइववसाए । गिहवावारपवत्तो वि वयग्गहणेक्कचित्तो एगभत्तेहिं कालं गमेइ । उवर सु वि जणएसु दक्खिन्नसारयाए पइदिणं भज्जमापुच्छइ । सा वि दीणाणणा रुवइ चेव, न पुण विसज्जेइ । तओ सो तीए पडिबोहणोवायमलहंतो दुक्खं चिट्ठे | - इओ अ सुजससाहू विविहतवोकम्मतणुईयसरीरो ओहिणा उवलद्धजेट्टभाइपडिबोहावसरो तस्स गिहं समागओ। भाउज्जायाए पच्चभिन्नाओ, सबहुमाणं वंदिओ य। ठिओ तीए दंसिए उचिओवस्सए । 'कहिं घरसामिओ' त्ति ? पुट्ठाए तीए सिद्धं – “कम्मं काउं छेत्तं गओ " त्ति । भोयणावसरे पडिलाभिओ तीए साहू उचिएणं भत्तपाणेणं, भुत्तो विहिणा । नाऽऽगओ जसो त्ति भत्तं गहाय पत्थिया पडिनियत्ता य रुवंती। सुजसेण एसा पुच्छिआ - " किमधिई करेसि ? " । सा भणेइ – “स ते भाया एगभत्तेहिं चिट्ठइ, छुहिओ वट्टइ, अंतरा य अपारा गिरिनई वहइ, तेण भत्तं नेउं न तरामि त्ति अधिइकारणं महंतं ममं " त्ति । साहुणा भणियं " गच्छ तुमं, नई भणाहि मम देवरस्स बारसवरिसा पव्वइयस्स जाया, जइ तेण दिवसं - - Jain Educationa International पि न भुत्तं, ता मे मग्गं देहि महानइ ! त्ति वुत्ते सा नई ते मग्गं दाहि" त्ति । एवं वुत्ताए तीए चिंतिअं - 'मम पच्चक्खमेव अणेण भुत्तं, कहं न भुत्तं नाम ? अहवा न जुत्तं गुरुवयणविरुद्धचितणं, जमेस भणइ तं चेव करेमि त्ति संपहारिऊण गया एसा । तहेव भणिए दिन्नो मग्गो नईए । - "कहमागयाऽसि ?" पुच्छिया भत्तुणा । तीए वि साहिओ सुजसागमणाइवुत्तंतो । भुत्तरे विसज्जिआ जसेण भणइ - "कहं वच्चामि ? अज्जाऽवि अपारा चेव नई" । जसेण वुत्तं - " संपयमेवं भणिज्जासि जइ भत्तुणाऽहमेक्कसि पि न भुत्त म्हि, ता महानइ ! मे मग्गं पयच्छाहि" । सुठुयरं विम्हिया तहेव भणिए लद्धमग्गा सुहेण पत्ता सगिहं । वंदिऊण पुच्छिओ साहू - " भयवं ! को एत्थ परमत्थो''? १. तनूकृत० । २. सकृदपि । ८१ For Personal and Private Use Only Page #91 -------------------------------------------------------------------------- ________________ त्ति । मुणी भणेइ - "भद्दे ! जइ रसगिद्धीए भुज्जइ तओ भुत्तं भवइ । जं पुण संजमजत्ताहेडं फासुयमेसणिज्जं तं भुत्तं न गणिज्जइ । अओ चेवागमे भणियं - 'अणवज्जाहाराणं साहूणं निच्चमेव उववासो'त्ति । एवं तुह पइणो वि बंभचेरमणोरहसहियस्स तुहाऽणुरोहेण कयभोगस्स अभोगो चेव, जओ उत्तं - भवेच्छा जस्स विच्छिन्ना, पउत्ती कम्मभावया । रई तस्स विरत्तस्स, सव्वत्थ सुहवेज्जओ ॥" एवमायन्निऊण संविग्गाए तीए चिंतियं - "अहो ! एस जसओ महाणुभावदक्खिन्नमहोयही संसारविरत्तमणो वि चिरं मए धम्मचरणाओ खलिओ, समज्जिअं महंतं धम्मंतराइयं । ता संपयं जुत्तमेएण चेव समं समणत्तमणुचरिउं । एयं चेव नेहस्स फलं" ति भाविंतीए संपत्तो जसो वि, साहुं वंदिऊण निसन्नो नाइदूरे । साहुणा दोण्हंपि सुद्धदेसणा कया । पडिबुद्धाणि-पव्वइयाणि । कालेण पत्ताणि सुरलोगं ति । एवमेस जसो इच्छामेत्तेणाऽवि चरणविसएण पावारंभेण न लित्तो ति ॥ उवएसो - चारित्तधम्मसंसत्त-जस-सुजसनायगं । नाऊण 'सव्वकज्जाइं, अणासत्तो सुसाहए' ॥ अणासत्तजोगम्मि जस-सुजसाणं कहा समत्ता ॥ - उवएसपयाओ। (५) पुण्ण-पावाणं चउभंगीए मंतिपुत्तीए कहा सरूवं पुण्णपावाणं, सक्खं लोगम्मि दीसइ । एत्थ नरिंदपण्हेसु मंतिपुत्ती निदंसणं ॥३६।। रायपुरनयरे विक्कमसूरो नाम नरिंदो आसि । एगया अणेगमंति-पंडिय-नयरसेट्ठिवरविहूसिआए सहाए उवविठ्ठो नरिंदो सहाजणाणमग्गओ मइपरिक्खत्थं पुच्छइ – "जयंमि अत्थिअत्थीणं, अत्थिनत्थीणं, नत्थिअत्थीणं, नत्थिनत्थीणं च केरिसं वत्थु सिया ? एसिं पच्चक्खमुत्तरं दिज्जाह' । सव्वे सहाजणा वियारंति – 'एयारिसं किं होज्जा' ? विउसेहिं पि तस्सत्थो नाऽवगओ । अन्ने वि जे के वि सहाए संति, ते सव्वे वि उत्तरं दाउं असमत्था जाया । तया कुद्धो नरिंदो सतिरक्कारं कहेइ - "एरिसीए महासहाए ममुत्तरं दाउं को वि जणो न चएज्जा, इयंतं कालं धणधन्नाईहिं विउसाणं पि पोसणं किं मुहा जायं ? धिरत्थु एयाणं पंडियाणं" । एवं कहिण बुद्धिनिहाणमहामंतिं कहेइ – “हे मंतिवर ! तुमए इमस्स पण्हस्स उत्तरं दिणत्तएण दायव्वं, अन्नह तं दंडिस्सं, मंतिपयभट्ठो य होहिसि" । विसज्जिआ सहा । ८२ Jain Educationa Interational For Personal and Private Use Only Page #92 -------------------------------------------------------------------------- ________________ चिंताए अक्कंतो सो मंतिवरो घरंमि गओ । उत्तरदाणचिताइ तस्स भोयणं पि न रुच्चइ । जया भोयणसमए संजाए वि सो नाऽऽगओ तया तस्स विउसी पुत्ती चंदकंता जा अट्ठवासिआ अत्थि, सा पिउस्स समीवमागंतूण कहेइ – "हे पिअर ! बुहुक्खिआ हं, तओ सिग्धं भोयणाय आगच्छेहि' । मंतिणा वुत्तं - "अज्जाऽहं अईव चिंताउलोऽम्हि, तओ तुम चिय भोयणं कुणेसु" । तीए पुटुं- "केरिसी तुम्हाणं अत्थि चिंता ? अवरं च तुम्हेसुं अभुत्तेसुं मए कहं भुंजिज्जइ ?" । तओ ससिणेहं मंतिणा कहिओ नरिंदस्स पण्हवुत्तंतो । तं सोच्चा सा विउसी पुत्ती कहेइ – “इमस्स पसिणस्स हं उत्तरं नरिंदस्स पुरओ दाहिमि, मा चितं करेसु ! अहुणा भोयणाय उट्ठसु" । पुत्तीए वयणं सोच्चा सहरिसो ‘एसा कि उत्तरं दाहिइ' त्ति चिंतयंतो उत्थाय तीए सह भोयणं काउं लग्गो । भोयणाणंतरं पुच्छइ - "हे पुत्ति ! किमस्स उत्तरं ?" । सा कहेइ – "इमस्सुत्तरं एवं न कहिज्जइ, रण्णो पुरओ हं कहिस्सं सपच्चयं, तुमए संदेहो न कायव्वो । जया नरिंदसहाए गमणं सिया, तया हं सह नेयव्वा" । मंती परितुट्ठो वएइ - "इओ तइअदिणे अस्स उत्तरं दायव्वं, जया अहं नरिंदसहाए गच्छिस्सं, तया तुमं सह नेस्सामि" । निवग्गओ एसा किं कहिहिइ त्ति चिंतमाणस्स तइओ दिणो समागओ। पच्चूससमए सहागमणवेलाए नियपुत्तिं घेत्तूण रहमुववेसित्ताणं घराओ निग्गओ । पिउणा सह गच्छंती पुत्ती रायपहम्मि कं पि सेटिं पासायवरस्स चउक्किआए संठाइऊण दीणाणाहजायगाणं दाणं दितं दट्टण नियपियरं कहेइ – "एअं सेट्ठिवरं रहे उववेसावेह, जओ पच्चुत्तरदाणे एयस्स पओयणमत्थि" । तओ मंतिणाऽऽइट्ठो सो सेट्ठी रहम्मि उवविट्ठो । रहो अग्गओ चलिओ । पुणरवि आवणवीहीए ठिअं एगं धणिअपुत्तं पासेइ, जो जणगस्स मरणे सत्तविह-वसणासत्तो पिउसंतिअबहुदव्वं विणासंतो अत्थि । तं पि पासित्ता रहे पियरं कहिऊण ठवेइ । पुणो वि अग्गे गच्छंति सा कं पि महप्पाणं पेक्खेइ । सो महारिसी दंतो संतो तवसा अप्पाणं भावमाणो विहरेइ । तं पि नच्चा ससिणेहं बोल्लाविऊण सह नेइ । तओ अग्गे गच्छंती एगं भिक्खुअं पासेइ, जो सइ अहम्मी जीवहिंसापरो घरंघराओ भिक्खं मग्गिऊण कट्टेण निव्वहेइ । सो वि भिक्खुओ रहम्मि चडाविओ। एवं भिन्न-भिन्नपयइवंतजणजुत्तो मंती पुत्तीए रहस्सं अजाणतो विविहतक्कं कुणंतो निवसहाए गओ। तया अन्ने वि बहवो नयरजणा मंतिस्स पच्चुत्तरजाणणत्थं तत्थ समागया । सहाए उवविटेण नरिंदेण जहारिहं सव्वे सक्कारिऊण, मंतिणा सह समागए पुरिसे दठूण पुढे - "किमेए समागया?" | मंती कहेइ – “तुम्हाणं पच्चुत्तरदाणत्थं एए पुरिसा समाणीआ" । नरिंदो भासेइ – “सिग्धं मम पसिणस्स उत्तरं देहि" । मंती वएइ - "तुम्हं इमस्स पसिणस्स उत्तरं मम पुत्ती चंदकंता दाही" । नरिंदपुट्ठा सा मंतिपुत्ती पडिभासेइ – “हे नरवर ! सिरिमंताणं अत्थिअत्थिरूवपढमपण्हस्स उत्तरं अयं चिअ सेट्ठिवरो नायव्वो''त्ति कहिऊण सेट्ठिवरो दंसिओ । राइणा वुत्तं – “कहमेसो' । सा कहेइ – "जओ एसो सेट्ठिवरो पुव्वभवसमायरिअधम्मप्पहावेण बहुधणवंतो अत्थि, तह य इह भवे वि दाणसीलतवभावधम्म सम्ममाराहंतो दीण-दुक्खिअजणे उद्धरंतो एसो परभवे वि अत्थं सुहं च पाविहिइ । अओ अत्थि-अत्थि ८३ Jain Educationa International For Personal and Private Use Only Page #93 -------------------------------------------------------------------------- ________________ त्ति पढमपसिणस्स उत्तरं इमो सेट्ठिवरो सिया" ॥१॥ बीयपण्हस्सुत्तरे वसणासत्तं तं धणिअपुत्तं दंसिऊण कहेइ – “एस धणिअपुत्तो केवलं कामभोगेहिं पिउसंतियं दव्वं विणासेइ, तह य सद्धम्मकम्महीणो सत्तवसणेहिं दुल्लहं माणवभवं निष्फलं गमावेइ । तओ अस्स पासे अहुणा दव्वमत्थि, भवंतरे पुण सो निद्धणो दुही य होही । तेण अत्थि-नत्थिरूवपसिणस्स उत्तरं इमो धम्मरहिओ धणिअपुत्तो जाणियव्वो" ॥२॥ तह य तइयपच्चुत्तरदाणे सा तं महारिसिं उवदंसेइ, उवदंसित्ता कहेइ – “एसो महप्पा सइ सव्वपावकम्मविरओ उवसंतो जिइंदिओ परुवयारिक्कतल्लिच्छो सद्धम्मोवएसदाणेण य अण्णेसि पि कल्लाणकरणपरो अप्पडिबद्धो विहरेइ, तम्हा अहुणा अणगारत्तणेण अस्स पासे किं पि नत्थि, किंतु भवंतरे अणुवमं सव्वं पाविस्सइ, महारिद्धिवंतो य होस्सइ । तेण नत्थि-अत्थिरूवतइअपसिणुत्तरदाणे एसो महप्पा निइंसिओ" ॥३॥ चउत्थस्स पण्हस्सुत्तरे तं भिक्खुअमुवदंसित्ताणं सा मंतिपुत्ती वएइ - "एस भिक्खू निद्धंसपरिणामो निरत्थयजीववहतप्परो भिक्खाए सकटुं जीवणं निव्वहेइ । तओ इयाणि इमस्स समीवे किं पि नत्थि, भवंतरे य पावकम्मेहिं दुग्गईए गमिस्सइ, तत्थ किमवि न पाविस्सइ । तओ नत्थि-नत्थिरूवचउत्थपण्हुत्तरम्मि एसो भिक्खू जाणियव्वु" त्ति ॥४॥ एवं मंतिपुत्तिकहिअं पच्चुत्तरं सोच्चा नरिंदो सव्वा य परिसा अईव संतुट्ठा संजाया । महीवई वि तीए बुद्धीए परितुट्ठो सहासमक्खं तं बहुं पसंसित्ता सुवण्णालंकारेहिं सक्कारित्ता सम्माणित्ता य घरंमि गंतुं अणुण्णं देइ । नरिंदपसंसिओ मंती वि सुहरिसिओ नियपुत्तीए सह गेहे समागओ ।। उवएसो - पुण्णपावाण भंगीए, फलं नच्चा इहं सया ।। 'पुण्णाणुबंधिपुण्णस्स, उज्जया होह अज्जणे' ॥ पुण्णपावाण चउभंगीए मंतीपुत्तीए कहा समत्ता ।। - जणमुहपरंपराओ ८४ For Personal and Private Use Only Jain Educationa Interational Page #94 -------------------------------------------------------------------------- ________________ उवएसाओ वि आयरणं वड्यरं । मुनिकल्याणकीर्तिविजयः प्राकृतविभागः कथा एगो धम्मगुरू आसि । तस्स उवएसो सव्वेसि जणाणं रोयणिज्जो आसि । अओ सव्वया वि जणा तस्सुवएसं सोउं तस्स धम्मठाणं समागच्छेज्ज, सोच्चा य धम्मकज्जं पइ अवहिया हवेज्ज । ___ अह एगया दूरट्ठियाओ णगराओ केइ जणा तस्सुवएसदाणविसयं कित्तिं सोउं तस्सयासमागया, तं पणमिऊण य, नियनगरं समागम्म नगरवत्थव्वाणं जणाणमुवएसदाणत्थं विण्णत्तिं कासी । धम्मगुरुणा वि तेसिं विण्णत्ती अंगीकया । तओ तं नयरं पइ गंतुं तेण एगो उट्टवालो समाहूओ कहिओ य जहा - 'अम्हेहिं अमुगं नयरं पइ गंतव्वं, ता तुज्झ उर्ल्ड गहिऊण कल्लं समागच्छसु जेण पहाए चेव एत्तो निग्गच्छामो' । सो वि भाडगं विणिच्छिय गओ पहाए समागओ य उट्टेण सद्धि । ___ तओ निययं पोट्टलगं उट्टस्सुवरिं बंधेऊण धम्मगुरू वि तत्थुवविट्ठो, उट्टवालो य रज्जु गहाय अग्गे पत्थिओ । जइ वि उट्टस्सुवरि दो जणा वि आरोहेउं गच्छेज्ज, किं तु धम्मगुरुस्स हियये अणुकंपा जाया Jain Educationa Interational For Personal and Private Use Only Page #95 -------------------------------------------------------------------------- ________________ जहा 'दूरे नयरं, दीहयरो पंथो, जइ दो जणा उट्टमारोहेमो ता तस्स मूयपसुणो कित्तिल्लं दुहं हविज्ज ?' अओ सो एगल्लो चेव उट्टारूढो जाओ । - जहा जहा उट्टो अग्गे गओ तहा तहा धम्मगुरुणो हियये पुणरवि दयंकुरा उग्गया, जहा – 'अहं पि मणुस्सो, एसो उट्टवालो वि मणुस्सो; ममाऽवि दो हत्था दो पाया, एयस्स वि; तहा भगवंतदिट्ठीए उण अम्हे सव्वे वि सरिसा चेव । ता एयं किं जोग्गं जं अहं उट्टारूढो गच्छामि एसो य पाइक्को चेव ? अओ मए किंचि वि कायव्वं चेव' । तओ तेण उट्टवालो कहिओ - 'भो उट्टवाला ! सुणसु ताव, अम्हेहिं बहुदूरं गंतव्वं । जइ अम्हे दो वि एयं मूयपसुमारोहेमो ता तं सव्वहाऽणुचियं । तहा तुमं एगल्लो पाइकको चलेज्ज अहं च उट्टारूढो ता तं पि मम नाओचियं न पडिहाइ । अओ एवं करेमो - एगं कोसं जाव अहं उट्टारूढो होमि तुमं च पाइक्को चलेज्ज, तओ एगं कोसं अहं चलिस्सं तुमं उट्टमारुहेज्ज' । ताहे उट्टवालेण कहियं - 'सामिय ! तुममेयं किं कहेज्ज ? मज्झ उ एयं चिय कज्जं अत्थि जं उट्टेण सद्धि चलियव्वं । तहा तुमं तु धम्मगुरू अत्थि । तुमए खु उट्टारूढेण चेव गंतव्वं' । 'तुह कहणं सव्वहा सच्चं । तहा वि, धम्मदिट्ठीए जइ पेच्छामो ताहे सव्वे वि जणा तुल्ला चेव । अओ तए मज्झ कहणं अणुसरियव्वं चेव । उट्टं धारेहि खणं, अहं ओरोहेमि तुमं आरुहेहि । एगं कोसं जाव तुम उवविस, अहं उट्टस्स रज्जुं गहाय अग्गओ चलामि' । 'सामिय ! एयं सव्वहा अणुचियं । अहं उट्टमारुहेमि तुमं च रज्जुं गहाय चलेज्ज, एयं कहं संभवेज्ज ?' 'कहं. न संभवेज्ज ?' 'कत्थ तुम्हे ? कत्थ य अहं ? तुम्हे महंता धम्मगुरुणो संति, अहं तु एगो सामण्णो उट्टवालो, ता एयं कहं संभवेज्ज ?' 'सुणसु, धम्मस्स दिट्ठीए को वि उच्चो नीओ वा नत्थि, सव्वे वि जणा सरिसा चेव । तहा धम्मो कहेइ - नीइमायरसु, सव्वेसु जीवेसु अत्तनिव्वियप्पेण वट्टसु - इच्चाइयं । ता एयं सव्वहा संभवेज्ज । धारेहि उट्टं । 'किं तु सामिय ! मम लज्जा हवइ । अहं न चेव उवविसामि' । ' ता किं धम्मायरणाओ तुमं मं रुंधेज्ज ?' 'धम्माधम्मवियारं अहं न चेव जाणामि । अहं तु एत्तियं चेव जाणामि जहा तुम्हे महापुरा अहं च तुम्हाण चरणरयतुल्लो । ता किमत्थं मं लज्जावेह ?' 'भो ! नाऽहं तुमं लज्जावेमि, किंतु धम्मायरणं तु मए कायव्वं चेव । धारेहि उट्टं, अहं अवरोहेमि, तुमं च उवविस । कोसं जाव अहं चलामि । पच्छा अहं उवविसिहामि' । Jain Educationa International ८६ For Personal and Private Use Only Page #96 -------------------------------------------------------------------------- ________________ लज्जं संकोचं च अणुहवंतो उट्टवालो उट्टारूढो जाओ, धम्मगुरू य उट्टस्स रज्जु गहाय अग्गे चलिओ। उट्टवालेण चिंतिअं - ‘एएण महापुरिसेण जं एवं कयं ता तत्थ को वि हेऊ हवेज्ज चेव । एरिसा महाजणा कया वि अवियारिऊण न किं पि कुव्वंति'त्ति । तओ एएण चेव कमेण तेसिं जत्ता पवट्टिया । अंते य नगरस्स भवणाइँ पि दिट्ठिगोयराइं जायाई। एसो नयरगमणे अंतिमो कोसो आसि । ताहे चेव उट्टवालस्स उट्टारोहणे वारओ समागओ । अओ उट्टारूढेण धम्मगुरुणा तस्स कहियं - 'धारेहि उठें । अहुणा तुज्झ वारओ उट्टारोहणे' । उट्टवालो कहेइ – 'किंतु पहू ! नयरस्स समीवं आगया अम्हे' । 'तेण किं ?' 'मम लज्जा हवइ, तहा नयरवासिणो जणा पेच्छिस्संति तया ते किं चिंतिस्संति ?' 'ते जं कि पि चिंतेंतु नाम !' 'किं तु पहू ! अहं उट्टे उवविसेज्ज, तुम्हे य पाइक्का चलेज्ज - तं पि नयरस्स समीवे - एयं न चेव जोग्गं' । 'सुयणा ! तं सव्वं पि मा विचारहि । अम्हे दुवे वि सद्धिं चेव पवासं काऊण समागया, तं पि वारएण उट्टारूढा समागया । इयाणिं तुज्झ वारओ अत्थि उट्टारोहणस्स । तहा जणा मं चलन्तं पेच्छेज्ज तेण किं ? अहं मज्झ धम्मायरणाओ न चेव विरमेज्ज । नीइं सच्चं च न विम्हरेमि अहं' । ___ अणण्णगई उट्टवालो धम्मगुरुणो आएसं मन्निऊण उट्टमारूढो, धम्मगुरू य उट्टस्स रज्जुं गहाय भगवंतनामं जवेंतो अग्गे चलिओ । नयरवासिलोएहिं धम्मगुरूणो सागयं काउं बहुं उज्जमियं आसि । सव्वे वि नायरजणा धम्मगुरुं दरिसिउं, तेसिं उवएसं च सोउमुक्कंठिया आसि । एत्थ नयरे ते तप्पढमयाए समागच्छीअ । अह ते दो वि जाव नयरदारं पत्ता ताव हरिसिएहिं जणेहिं जयजयसदं कुणंतेहिं तेसिं सागयं कयं । पुद्वि तु ते उट्टवालं चेव धम्मगुरुत्तणेण मण्णीअ, किं तु थोववेलाए चेव तेसिं सच्चं अहिन्नाणं जायं । सामण्णस्स उट्टवालस्स उट्टरज्जु गहाय चलंतं धम्मगुरुं पेच्छिऊण सव्वेसिं अपारं अच्छेरं जायं । अच्छीणि हिययं च आणंदंसूहि भत्तिभरेण य पूरियं जायं । जाहे य तेहिं सव्वो वि वुत्तंतो जाणिओ ताहे सव्वेहि चिंतियं - 'जो सयं धम्मस्स एरिसं उत्तमं आयरणं करेइ तस्स उवएसो वि केरिसो होज्ज ? तहा तस्स धम्मो वि केरिसो होज्ज ?' सव्वेहिं पि नायरजणेहिं उवएसं विणा चेव तस्स धम्मो अंगीकओ ! अओ कहियं - उवएसाओ वि आयरणं चेव वड्डयरं !! ___(गूर्जरभाषायां मूललेखकः - गुलाम रसूल कुरेशी) ८७ Jain Educationa Interational For Personal and Private Use Only Page #97 -------------------------------------------------------------------------- ________________ Jain Educationa Interational For Personal and Private Use Only Page #98 -------------------------------------------------------------------------- ________________ पुस्तकानि वस्तुतो लिख्यन्ते खलु ! जनेषु पुस्तकानां प्रचारः प्रसारश्च यद्यल्पतमोऽस्ति तदा तत्कारणमेतन्नास्ति यद् विशालो जनसमुदायः पुस्तकपठनं न करोतीति; तत्कारणं त्वेतदेवाऽस्ति यज्जनसमक्षं यानि पुस्तकानि प्रस्तूयन्ते तानि "लिखितानि" न सन्ति, अपि तु केवलं "मुद्रितानि" एव सन्ति / यत्किमपि पुस्तकं पठनीयं तदैव भवेत् यदा तद् याथार्थ्येन लिखितं स्यात्, लेखनात्पूर्वं च विचारितं स्यात्, पुस्तकस्य च वस्तुतः सर्जनं जातं स्यात् / पुस्तकस्य भावि तल्लेखनस्य काव्यमयतां, सक्षमामालेखनप्रस्तुति, कल्पनाशीलतां चाऽवलम्बते / एतैरेतादृशैश्च गुणैर्युतं पुस्तकं लेखितुं यदि वयं सफला भविष्यामस्तदा पुस्तकस्य भावि निश्चितमस्ति, किन्तु यदि वयं केवलं पुस्तकमुद्रणमात्रेण सन्तुष्टा भविष्यामस्तदा तत्पठनं तु न भविष्यति सर्वथा, प्रत्युत कालगन्यां तत् तथा विलीनं भविष्यति यथा तन्नामाऽपि नाऽवशेक्ष्यति। - आल्बेर्टो मोराविआ Jain Educationa International For Personal and Private Use Only