________________
भव्येश उवाच - "दृश्यताम् । पतगिकाव्यसनमपीदं सर्वथा वैदेशिकमेव । चीनदेशीयैः सर्वप्रथम पतगिकाया आविष्कृतिः कृतेति श्रूयते । चीनदेशीयाश्च फाहियान-यानच्युवानप्रभृतयो भारते समायान्ति स्मेति जानीम एव । कदा केन तदिदं व्यसनमत्राऽऽनीतमिति तु न ज्ञायते किन्तु तदिदं व्यसनं सुभृशं पीडाजनकं, व्ययकर, विघ्नस्याऽहितस्य चाऽऽकर इति स्पष्टं ज्ञायते ।"
उपमन्युना श्रौतायनेन सहसैव सूचितं यद् – “मोगलकाले पतगिकाव्यसनस्याऽस्य सर्वत्रोल्लेख उपलभ्यते । नेदं व्यसनं भारतस्येति तु स्पष्टमेव । हन्त, बहुविधा वैदेशिका अत्र निरन्तरमायान्ति स्म, सर्वविधानि व्यसनानि चाऽस्माकं किशोरान् शिक्षयित्वा परावर्तन्ते स्म ।
"कतिपये त्वत्र स्थायिरूपेण निवसन्ति स्म । अतो बहुविधानि व्यसनान्यपि स्थायिरूपेणाऽत्र निवस्तुमारब्धानि ।" मया पादपूर्तिः कृता । तदैव भव्येशस्य भार्या चायचषकानानीतवती । चातकेन टिप्पणी प्रस्तुता - "बन्धो ! वस्तुतस्त्विदं चायव्यसनमपि वैदेशिकैरुपदिष्टम्, साम्प्रतमत्रैव स्थायिरूपेण निवसति । प्रत्यहं भारतीया वयं प्रतिगृहं यावतीश्चायपत्री: क्वथयामस्तासां सङ्ग्रहेण द्रोणाचल एको निर्मातुं शक्यते, वार्षिक-चायपत्रीसङ्ग्रहेण च सुमेरुपर्वत एकः ।" ____मयोक्तं यत् – "चायपर्णीकृषिस्तु भारतस्य प्रमुखो व्यवसायः, प्राग्ज्योतिष(असम)-प्रभृतिषु प्रान्तेषु सा कृषिवैभवशिखरं स्पृशति । वयं हि विश्वे चायपर्णोत्पादकेषु देशेषु प्रामुख्यं भजामः । चायपर्णीनिर्यातेनाऽपि सुबहु धनमर्जयामः । किन्तु भव्येशभार्यया स्पष्टीकृतं यद् - "मूलतश्चायपानव्यसनस्याऽवतारो वैदेशिकानामेव चमत्कारो मन्यते । चीनदेशादन्यस्माद्वा देशादागत्य चायकृषिरत्र सुस्थिराऽभूदिति तु कथान्तरं, किन्तु मया पठितमस्ति यदष्टादशताब्द्यां सर्वाधिक लोकप्रियं पेयं चायमेवाऽऽसीद् इंगलैंडदेशे । तत्रत्यो विद्वान् कोषकारश्च डॉ. जॉनसन इत्याख्यः शतशश्चायचषकान् प्रत्यहं पिबति स्मेति साहित्येतिहासविदो विदन्ति । ___ एतदुपरि प्रारभ्यत सुदीर्घः शास्त्रार्थः । “सर्वस्य चायं हृदि संनिविष्टः, यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः, वेदान्तकृद् वेदविदेष चाऽहम्' इत्यादयो गीतांशा अप्युद्धृताः । भारतीयैवेयं चायपर्णीति साधयितुं केनचन चायस्तोत्रं संस्कृते लिखितमपि गीतं; किन्तु पर्यन्ते निष्कर्षोऽयमेव स्थापितो यद् व्यसनमिदं भारतेऽतिथिरूपेण, अभ्यागतरूपेणैव विदेशेभ्यः समागतम्, सम्प्रति सुदृढया प्राणप्रतिष्ठयाऽत्रैव बद्धमूलं विराजते । यदीदं भारतीयमेवाऽभविष्यत्, अस्माकं विपुले साहित्ये कुत्रचन तस्य, तादृशस्य वा पेयस्योल्लेखोऽभविष्यदेव । अस्माकमायुर्वेदग्रन्थेषु विविधानां पौष्टिकपेयानां स्वादुपानकरसानां च वर्णनमस्ति, चातकसदृशानां कवीनां काव्यं तु पानकरसन्यायेनैवाऽऽस्वाद्यते इति रससिद्धान्तविदो वदन्ति, किन्तु चायक्वाथोऽत्रत्य इति न केनाऽप्युक्तम् । ___ "भवतु तत्किमपि, किन्तु साम्प्रतं चायमस्माकं निधिः । भवादृशां कथनेन किं वयं विमोक्ष्याम एत?"मिति कथयता उपमन्युना चायचषकद्वयं पीतम्, अस्माभिश्च स्व-स्वरुचेरनुसारमास्वादितं तत् पेयम् । ग्रीष्मकाले शीतलपेयमपि स्वदते इति संकेतयद्भिरस्माभिरर्धहोरानन्तरं शीतलपेयं (शर्बत, कोकाकोला इत्यादि) किञ्चन पास्याम इति सूचिता भव्येशभार्या । "कोकाकोला" प्रभृतीनां व्यसनान्यपि तु विदेशजानीति
४१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org