________________
कथा
कः प्रभुभक्तः ? ।
सा. धृतियशाश्रीः नारदर्षेर्मनसि 'आदिनं भगवन्तमेव स्मरन् मत्सदृशः प्रभुभक्तः कोऽपि नास्ती'त्येवं गर्व आसीत् । तद्गर्वमपाकर्तुं भगवता स उक्तः - 'नन्दनग्रामे भरतनामैक: कृषीवलो वसति । स मम परमभक्तोऽस्ति । तत्सकाशाद् त्वया किञ्चिच्छिक्षितव्यं वर्तते । अतस्त्वं तत्र गत्वा दिनमेकं तेन समं यापय, पाठं च शिक्षित्वा प्रत्यागच्छ' । भगवतः कथनमेतत् तस्मै नैवाऽरोचत । तेन चिन्तितं – 'तस्मात् कृषीवलादपि मया किं वा शिक्षितव्यम् ?' एवंस्थितेऽपि भगवद्वचनस्याऽनादरं कर्तुमपि स नैवेष्टवान् । अतो भगवन्तमापृच्छ्य स कृषीवलगृहं प्राप्य तस्य दिनचर्यां निरीक्षितवान् ।
- कृषीवलो हि प्रातःकाले समुत्थाय प्रथमं भगवन्नामस्मरणं कृतवान् सकृत्, ततः प्रातःकार्याणि कृत्वा क्षेत्रं गतः, कार्यलीनश्च जातः । ततो मध्याह्न भोजनात् पूर्वं स भगवन्नामस्मरणं कृतवान् सकृत्, पश्चात् भोजनं कृत्वा पुनः स्वकार्ये लग्नः । सायङ्काले पुनर्गृहमागत्य भोजनादि च कृत्वा शयनात् पूर्वं सकृद् भगवन्नाम स्मृत्वा स सुप्तः । ____एतत् सर्वं सम्यङ् निरीक्ष्य नारदर्षिर्भगवत्समीपं प्रत्यागतः कथितवांश्च – 'प्रभो ! तस्य कृषीवलस्य समग्रामपि दिनचर्यां विलोक्य समागतोऽस्मि । स कथं भवतः परमभक्तो यो हि केवलं वारत्रयमेव भवन्नामस्मरणं कृतवान् समग्रेऽपि दिने ? तत्सकाशाच्च मया किं शिक्षितव्यमस्ति ?' इति ।
तच्छ्रुत्वा भगवता चिन्तितं यद् – 'अयं सम्यग् बोधयितव्यो मया' । ततो दुग्धपूर्णं भाजनमेकं नारदाय दत्त्वा कथितं - 'कृषीवलात् किं शिक्षितव्यमस्तीत्येतत् पश्चात् कथयिष्यामि, प्रथमं तावदेतत् पात्रं स्वीकृत्य समग्रामपि पृथ्वी प्रदक्षिणीकृत्य समागच्छ, किन्तु प्रदक्षिणीकुर्वता त्वयाऽस्मात् पात्रादेकोऽपि दुग्धबिन्दुरधो न पतेत् सर्वथा - इति सावधानेन गन्तव्यमन्यथा मे महती हानिः स्यात्' ।। ___ 'भवतु प्रभो!, अहं भवदादेशं सर्वथा पालयिष्यामी'ति कथयन् नारदस्तद् दुग्धपात्रं गृहीत्वा निरगच्छत्, ततो यथा बिन्दुरेकोऽपि नाऽध: पतेत् तथा पृथ्वी प्रदक्षिणीकृत्य भगवत्समीपमागतः । भगवता पृष्टं - 'किं समनुष्ठितं मत्कार्यम् ?' तेनोक्तं - 'आम् प्रभो ! भवदादेशानुसारं पात्रादेकोऽपि दुग्धबिन्दुर्यथा नाऽधः पतेत् तथा पृथ्वीं प्रदक्षिणीकृत्य समागतोऽस्मि' । भगवता कथितं – 'बाढम् । किन्तु तत् कुर्वता त्वया कतिवारमहं स्मृतः ?' नारदेनोक्तं – 'प्रभो ! नैकवारमपि । यतो मम समग्रमप्यवधानं दुग्धपात्रे आसीत्' ।
भगवता विहस्योक्तं – 'आदिनं मम नामस्मरणं कुर्वन् त्वमपि केवलं लघौ कार्येऽस्मिन् नियुक्तः सन्नेकवारमपि मां न स्मृतवान्, तत्र स कृषीवलस्तु आदिनं कार्यं कुर्वन्नपि वारत्रयं तु मां स्मरत्येव। अतो वद, कः मम परमो भक्तः - त्वं वा कृषीवलो वा? तथा तत्सकाशादपि तव किञ्चिच्छिक्षणीयं वर्तते न वा?'
एतन्निशम्य लज्जितो नारदो भगवच्चरणयोः पतिता स्वापराधस्य क्षमा याचितवान् प्रभुभक्तेर्गर्वं च त्यक्तवान् ।
७२
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org