SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ क्षतिर्न कर्तव्या । - बालसासनग्रामात् श्रेष्ठिबुद्धिराजदलसुखरामेण लिखितः पत्रादेशः, प्रणामः पुन पाठ्यः ।" चौरा हर्षपुरस्सरं पत्रं गृहीत्वा निजगृहमगच्छन् । रात्रिरभवत् । 'श्वः प्रचुरं धनं प्राप्स्याम' इति कल्पनायां मलिम्लुचा निमग्नाः सञ्जाताः । ते गणयितुमारब्धवन्तः - "एकं शून्यमर्थाद् दश रूप्यकाणि, द्वे भवेतां तर्हि शतं रूप्यकाणि, त्रिभिः शून्यै रूप्यकसहस्रं, चतुर्भिरयुतं रूप्यकाणि पञ्चभिश्च लक्षं रूप्यकाणि भवेयुः । अहोहो..." चौरा विचारमात्रेणैवाऽतिप्रसन्ना जाताः । लक्षं रूप्याणि प्राप्स्यन्त इति प्रमोदेन निशायां निद्राऽपि नाऽऽगता । अपरेधुश्चौरनेताऽन्यतमेन चौरेण सह नगरं गतवान्, नैगमगणकाय च पाणौ पत्रमर्पितवान् । गणकस्तत् पठितवान् । इतस्ततश्चाऽभ्रमयत् । वस्तुस्थितिमनुमातुं प्रयत्नशीलो गणकः श्रेष्ठिनैपुण्यमवागच्छत्, स्वान्तेऽहसत्, पश्चाच्चाऽपृच्छत् – “भ्रातः ! पत्रमिदं केन लेखितम् ।" चौरनायकोऽचष्ट – “अस्माभिः ।" "धनसंख्या च ?" गणकः पुनः पृष्टवान् । चौरा आख्यातवन्तौ – “साऽप्यस्माभिरेव लेखिता ।" "धनसंख्यां लेखयितुं यूयं किमुक्तवन्त आसन् ?" गणकेन पुनः पृष्टम् । अस्माभिरुक्तं यद् - "श्रेष्ठिन् ! पत्रमध्ये पञ्च शून्यानि लेखनीयानि, अतः श्रेष्ठिना पञ्च शून्यानि लिखितानि, अस्माभिः किमपि न लिखितम् । पत्रे श्रेष्ठिचिह्नमप्यस्ति । अतः सद्यो लक्षं रूप्यकाणि गणयित्वा देहि ।" चौरनेताऽवदत् ।। अथ गणकेन तत्त्वमुक्तं यद् - "भ्रातः ! पञ्चसु शून्येषु लिखितेषु सत्सु लक्षं रूप्याणि भवेयुस्तत् सत्यम् । किन्तु, तत्पूर्वमेकोऽङ्कोऽवश्यं लेखनीयः । केवलानि शून्यानि तु निरर्थकानि सन्ति । एतादृशानि शून्यानि बहून्यपि स्युः, परं तानि किञ्चिदपि दापयितुं न शक्नुवन्ति ।" गणकवचनेन चौरौ निजमूर्खतां ज्ञातवन्तौ, हसितवन्तौ स्वग्रामं च प्रत्ययाताम् । __शाखाचन्द्रन्यायेनेयं कथा हृदयस्पशिबोधं प्रयच्छति । किंविधः स बोधः ? अयमेव, यदङ्कविहीनानि शून्यानि यथाऽकिञ्चित्कराणि सन्ति, तथैव संस्कारविहीनं सद्गुणविहीनं च जीवनमप्यर्थहीनमस्ति । ___ अनुभविभिश्चिन्तकैश्च तु सूक्तौ कथ्यते 'संस्कारतुल्यं धनमस्ति नाऽन्यदि'ति । अर्थाद् मनुजस्य यथार्थं धनं सुसंस्काराः (उपलक्षणाद् सद्गुणाश्च) एव सन्ति । तस्माज्जीवने सदैव सुसंस्कारप्राप्त्यै सद्गुणप्राप्त्यै च यत्नः कर्तव्यः । वयं सुसंस्कारयुतं सद्गुणयुतं च जीवनं निर्मातुं प्रयतेमहि, जीवनं च सफलं कुर्वीमहि । ७१ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy