SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ चौरादेशं श्रुत्वा श्रेष्ठी तत्रैव स्थितवान् । चौरनेता समीपमागतः पुनश्चादिष्टवान् – “श्रेष्ठिन् ! यावन्तो धनं स्यात् तत् सर्वं जोषं मह्यं यच्छ, अन्यथाऽसय इमे तव स्वजना न भविष्यन्ति ।" ___चौरस्य भयाद् विमनस्को जात आपणिकः क्षणमात्रं तु वेपथुमन्वभवत् । किन्तु सोऽतिनिपुण आसीत् । कीदृश्यपि विपद् भवेत्, तथाऽपि धैर्यमवलम्ब्य रक्षित्वा कुशलतया मार्गनिष्काशनकलां वेत्ति स्म । अतः किञ्चिदिव विचार्य स्वस्थतां च प्राप्य श्रेष्ठी प्राह – "भ्रातरः ! इदानीं मम पार्वे किञ्चिदपि नास्ति, वित्तविहीनोऽस्मि । सर्वं धनं पण्यशालायां मुक्त्वा निर्गतोऽस्मि । अतो युष्मभ्यं किं दद्याम् ? कृपया क्षाम्यत माम् ।" आपणिकस्योत्तरं श्रुत्वा चौरनेता तत्कोशमन्वैष्यत् । परं, किञ्चिदपि न प्राप्तम् । तदानीं श्रेष्ठिना कृत्रिमहास्यपूर्वं कथितं - "भ्रातरः ! यदि प्रागवदिष्यत तर्हि किञ्चिद् धनं युष्मभ्यमानेष्ये ।..." तस्करनायकोऽवदत् - "न कोऽपि बाधः । एवं कुरु, तव गणकस्योपरि लेखपढें विलिख्य देहि यद् ‘अस्मभ्यं धनं देयम्' इति । एवं लेखनीयं यदस्मदभिधानमपि न प्रष्टव्यम् । मौनेनैव धनं दातव्यम् ।" ___ आपणिकः पत्रं लेखितुं यावत् सज्जोऽभवत्तदैवैको दस्युरुवाच - "श्रेष्ठिन् ! पत्रमध्ये त्वया धनसंख्या न लेखितव्या । अस्माकं कथनस्याऽनुरूपं धनसंख्या लेख्या ।" आपणिकः 'ओम्' इत्युक्त्वा पत्रं लेखितुं लेख्यं लेखनी च निरकाशयत् । पत्रे धनस्य कोष्ठकः संख्याहीन आलेखितः । ग्रामीणचौरा अन्योन्यं 'कियद्धनं याचितव्यमिति चिन्तितवन्तः । एकश्चौरोऽब्रवीत् – “अये ! शतं रूप्यकाणि ग्रहीतुं कियन्ति शून्यानि लेख्यानि ?" तेष्वन्यतमश्चौरः पाठ्यपुस्तकानि त्रीणि पठितवान्नासीत् । स 'अधुनैव कथयामि' इत्युक्त्वा विचारितवान् पश्चाच्च कथितवान् – “एकस्मिन् शून्ये क्रियमाणे सति भवेद् दशकम्, द्वयोश्च क्रियमाणयोः शतम् ।" अतः प्रथमचौरेणोक्तः आपणिकः – “श्रेष्ठिन् ! द्वे शून्ये क्रियेताम् ।" श्रेष्ठिना द्वे शून्ये कृते । "श्रेष्ठिन् ! एकमधिकं शून्यं कर्तव्यं" द्वितीयचौरेणोदितम् । अतः श्रेष्ठी तृतीयं शून्यं कृतवान् । तत्क्षणं तृतीयचौरोऽवदत् – “मदीयमेकं शून्यं कुरु ।" "मदीयमप्येकमधिकं कर्तव्यं ।" चतुर्थोऽपि प्राह । इत्थं पत्रमध्ये चौरैः पञ्च शून्यान्यकार्यन्त । आपणिकेन च तावन्ति शून्यानि कृतानि । पश्चाच्च प्रज्ञाभिमानेन श्मश्रु व्यावर्तयन्नापणिकः पत्रे स्वचिह्नमकरोत् । पत्रं च चौरहस्तेऽददात्, तस्मिन्नित्थं लिखितमासीत् - "प्रिय गणकवर्य ! प्रणामो ज्ञातव्यः । विशेषतो ज्ञापयामि यदिदं पत्रमानयट्यो भ्रातृभ्यः किञ्चिदप्यनापुच्छ्य रूप्यकाणि ००००० देयानि । ७० Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy