________________
कथा
संस्कारतुल्यं धनमस्ति नाऽन्यत्
मुनिअक्षयरत्नविजयः
यथा मनुजदेहश्चारुवस्त्रैरुत्तमभूषणैश्च शोभते, तथा मनुजजीवनं सुसंस्कारैः सद्गुणैश्च शोभते । ततश्चैव यावती सतर्कतां मानवो निजदेहसौन्दर्याय रक्षति, तावती ततोऽधिका वा जागरूकता तेन जीवनसौन्दर्यायाऽपि रक्षणीया ।
यद्यपि, वस्त्रैरलङ्कारैश्चाऽङ्गशोभाकरणं यावत्सुकरमस्ति, तावत्सरलं सुसंस्कारैः सद्गुणैश्च जीवनशोभाकरणं नास्ति । तत्तु बहुदुष्करमस्ति । अत एवामुष्मिन् सुभाषिते कथितमस्ति यद् – 'सुलभा रम्यता लोके, दुर्लभं हिं गुणार्जन'मिति । यद्यपि, दुष्करमप्यत्यन्तावश्यकमस्ति जीवनशोभाकरणम् । कथमावश्यकं तद् ? इति चेद् ज्ञातुमिच्छथ, त_षद् हास्यप्रेरकाऽपि बोधप्रदेयं कथा नूनं पठनीया ।
विशालमेकं नगरम् । विशालनगरस्य पण्यवीथिकाऽपि सहजतया विशाला ।
तस्यां पण्यवीथिकायां निकटवर्तिग्रामस्यैको धीमान् श्रेष्ठिवर्योऽपि वाणिज्यं करोति स्म । तन्नाम 'बुद्धिराजः' इति । स 'यथा नाम तथा गुणाः' इत्युक्तिं चरितार्थामकरोत् । यथा चाऽयं बुद्धिनिधानस्तथा लक्ष्मीनिधानोऽप्यासीत् । मध्येपण्यवीथिकं तस्य भव्यपण्यशाला विराजते स्म । नगरेऽपि महापण्यपतिरूपेण श्रेष्ठिनो विख्यातिरासीत् । ___ प्रत्यहं मध्याह्ने स्वग्रामात् स नगरं प्रत्यागच्छति स्म । सायं चाऽऽपणं संवृत्य नगरान्निजग्रामं प्रति गच्छति स्म । अहरहः प्रातस्तस्य गणक आपणोद्घाटनं करोति स्म । ____ अथैकस्य दिनस्य कथेयम् । सन्ध्यायां जातायां पण्यशालां प्रतिषिध्य श्रेष्ठिवरो नगरात् स्वग्रामं व्यावर्तते स्म । अरण्यप्रदेशस्य निर्जनमार्गेणाऽऽपणिकः प्रसृतः । समीपस्थाद् गुल्माच्चत्वारः पाटच्चरास्तस्मिन्नेव समये बहिरागच्छन् । स्वग्रामं गच्छतः श्रेष्ठिनः पृष्ठभागे निर्गतैश्चौरैरापणिकः समाहूतो यथा - "भोः ! कोऽसि त्वम् ? तत्रैव तिष्ठ । अन्यथा तव कुशलं नास्ति ।" * पूज्याचार्यश्रीधर्मसूरीश्वरसमुदायवर्ती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org