SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ कथा लघुबालकस्य निबन्धः मू. ले. डॉ. आई. के. वीजळीवाळा अनु. मुनिरत्नकीर्तिविजयः प्राथमिकशालायाः शिक्षिका विद्यार्थिनो निबन्धं लिखितुमादिष्टवती । विषयं च सूचिवती "भगवतः कीदृशी कृपा तुभ्यं रोचेत ?" ___सर्वेऽपि विद्यार्थिन एकाग्रेण स्वकीयान् विचारान् लिखितवन्तः । शिक्षिका हि तान् सर्वानपि निबन्धान् गृहीत्वा गृहमागतवती । दिवसान्ते च निबन्धान् पठितुमुपविष्टा सा । ततः कस्यचिद् बालकस्य निबन्धं पठित्वा सा बाढं रुदितवती । तदैव तस्याः पतिः कार्यालयाद् गृहं प्रत्यागतः । पत्नी च रुदतीं दृष्ट्वा पृष्टवान् - भोः ! किं जातम् ? किमर्थं त्वमेवं रोदिषि ? - इति । 'अस्य बालकस्य निबन्धं पठतु नाम' - रुदत्येव शिक्षिका पत्युर्हस्ते निबन्धपत्रं ददत्युक्तवनी । पतिस्तं निबन्धं गृहीत्वा पठितुमारब्धवान् । केनचिद् लघुना बालकेन तत्र लिखितमासीत् - "भो भगवन् ! मयि भवानेकां विशेषकृपां करोत्विति मे प्रार्थनाऽस्ति । भवान् मां दूरदर्शनयन्त्रं करोतु । दूरदर्शनयन्त्ररूपेणैव गृहेऽहं स्थातुमिच्छामि । येन समग्रोऽपि परिवारो मम परित एव तिष्ठेत् । अहमेव च तेषां समेषामपि रुचेराकर्षणस्य च केन्द्रं भवेयम् । मम सम्भाषणसमये न कोऽपि मध्ये किमपि भाषेत प्रश्नयेद्वा । मम सम्यक्परिचर्यां च सर्वेऽपि विदध्युः । मम मातापितृभ्यां भ्रातृभ्यो भगिनीभ्यश्चाऽप्यधिकमहमेव मम रोचेय । मदीयं चैतत् कुटुम्बं मया सह कालं गमयितुं कार्याणां सहस्रमपि त्यजेत् । मया सार्द्ध कालायापनाय ते सर्वेऽप्युत्सुकाः स्युः । अपरं च हे भगवन् ! अहमपि तान् सर्वान् सुखिनः प्रसन्नांश्च कुर्याम् । अतो ममेच्छाऽस्ति यन्मां सुन्दरं दूरदर्शनयन्त्रं करोतु । एतावतीमेव कृपामहं त्वत्तो याचे ।" - इति । __एतत्पठनानन्तरं पतिः शिक्षिकां प्रति दृष्ट्वा प्रोक्तवान् – 'हे भगवन् ! कीदृशो दुःखितोऽयं बालकः ! कीदृशं च विरूपं कुटुम्बं तेन लब्धमस्ति ! नूनं दयैवोद्गच्छति तदर्थं मम हृदये' - इति । अश्रुपूर्णनेत्राभ्यां शिक्षिका स्वकीयं पतिमुद्दिश्योक्तवती – 'एष निबन्ध आवयोः पुत्रेणैव लिखितोऽस्ति !' ६८ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy