________________
महात्मा प्रोवाच – भ्रातर् ! तस्य लीलां तु स एव जानाति, किन्तु नाऽकारणं स एवमाचरेदिति सत्यम् - इति । किन्त्वेतेन प्रत्युत्तरेण तस्य जनस्य सन्तोषो न जातः । नाऽपि तस्य मनः समाहितं जातम् ।
विचारं कुर्वन्नेव स गृहमागतः । कार्यव्यापृतः स सर्वं विस्मृतवानपि । सायंभोजनं समाप्य यावत् स निद्रितोऽभूत् तावद् घण्टामितेन कालेन झंझावातो वर्षायाश्च विप्लवः समुद्भूतः । धडधडायमानानि वातायनादीनि पिधातुं स उत्थितः । विद्युल्लेखायां स विचित्रमेकं दृश्यं दृष्ट्वान् । तस्य गृहस्य पृष्ठदेशे राजहंसानां वृन्दमेकमवतीर्णमासीत् । झञ्झावातकारणादेव कदाचिदेषामवतरणं स्यादिति विभाति स्म । तत्र गृहस्य पृष्ठदेशे घासभृतः सुरक्षितश्च विशाल एकोऽपवरक आसीत् । सर्वेऽप्येते राजहंसा यदि तत्र गच्छेयुस्तीवश्यं तेषां रक्षणं स्याद्, अन्यथा सततं प्रवर्धमानवेगे पवने रौद्ररूपेण च वर्षति पर्जन्ये रक्षणं तेषां दुःशकमेवाऽऽसीदिति तेन विचारितम् ।
__ अथ तेषां कृतेऽपवरकमुद्घाटयितुं स बहिरागतः । द्वारे चोद्घाटिते । किन्तु राजहंसानां तेषां लक्ष्यमेव तत्र न गतम् । स हि तेषां समीपं गत्वा सङ्केतेन शब्देन च तानपवरकं प्रति नेतु प्रयासं कृतवान् । किन्तु, एवं हि तेऽधिकं भयमापन्नाः । अथ गृहान्तर्गता स रोटिका आनीतवान् । अपवरकाद् राजहंसानां स्थानं यावत् स रोटिकानां खण्डानि विकीर्णवान् येम भोज्यलोभात् तेऽपवरकं प्राप्नुयुः । किन्त्वेतावताऽपि राजहंसा न किञ्चिदपि ज्ञातवन्तो यदेष किं सङ्केतयति ! पवनः सततं प्रवर्धमान आसीत् । अतः खिन्नाः सर्वेऽपि ते राजहंसा इतस्ततो धावितं लग्नाः । एवं च सर्वेऽपि तस्य प्रयत्ना विफला जाताः । स हि सर्वथा नैराश्यं गतः । अहो ! सुन्दराकारा एते पक्षिणः किमत्रैव मद्गृहाङ्गणे मृत्युं प्राप्स्यन्ति ? - इति विचारेण सोऽत्यन्तं दुःखितोऽभूत् । सहसैव तस्य विचारः स्फुरितो यद् - अहं मनुष्यस्तैभिन्नोऽस्मि, अतः कथं ते मामनुसरेयुः? इति, अतः स गृहान्तर्गत्वा श्वेतवस्त्रयुगलं धृतवान् दण्डस्य श्वेतवस्त्रस्य च सहायेन मस्तके हंसतुल्ये ग्रीवा, मुखं च निर्मितवान् । एवं हंसाकारो भूत्वाऽवनम्य च सोऽपवरकं प्रति चलितः । हंससदृशो भूत्वा स यदा तवृन्दे गतस्तदा सर्वेऽपि ते तमनुसृतवन्तः । अपवरके च सुरक्षितस्थानं प्राप्तवन्तः।
अथ बहिरागत्य स यावद् द्वारं पिदधाति तावद् महात्मना सह जातः संवादो महात्मना च निरूपितं वचनं तस्य स्मृतिपथमायातम् । स तत्रैव स्थितः । आकाशं प्रति दृष्टवान् । भगवान् मानवान् रक्षितुं किमर्थं मनुष्यरूपेणैव पृथिव्यामवतरतीति स सम्यगवबुद्धवान् । बोधदानस्य च भगवतो रीतिं विचार्य तस्य नेत्रे आर्द्र जाते ।
६७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org