________________
दुर्जनशतकम्
एच्. वि. नागराजराव्
जिना जयन्ति जीवेभ्यो जातेभ्यो जगतीतले । दुर्मदैर्दुर्जनैर्दत्तं दुःखं दग्धुं धृतोद्यमाः ॥१॥ कृष्णः करोतु कुशलं कालिन्दीकूलकेसरी । तर्जयन्तश्च गर्जन्तो दुर्जना येन भर्जिताः ॥२॥ दुर्जनानां स्वभावं च सतां क्लेशं च तत्कृतम् । विवरीतुं नागराजो विद्वान् शतकमभ्यधात् ॥३॥ ब्रह्मा विष्णुश्च शम्भुश्च विलसन्ति दिवौकसः । विहाय तान् दुर्जनानां काव्यं कस्माच्चिकीर्षसि ॥४॥ इति पृच्छन्ति विद्वांसः सप्रश्रयमहं ब्रुवे । यन्निवारणमिष्टं स्यात् ते ज्ञेया आमया इव ॥५॥ समाजस्याऽऽमया दुष्टा वर्ण्यन्ते ते मयाऽधुना । तत्स्वभावं विजानन्तो जनास्तिष्ठन्तु जागृताः ॥६॥ हेतुः सज्जनदुःखानां केतुः कलिथस्य च । ओतुः सौजन्यदुग्धस्य दुर्जनो वर्धतेऽनिशम् ॥७॥ दुर्जनाः कपटाटोपपटवः कटुभाषिणः ।। कठोराः कष्टजलधौ सज्जनं मज्जयन्त्यमी ॥८॥
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org