SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ कविकुलतिलकेभ्यः प्रणत्यञ्जलि: देवर्षिकलानाथशास्त्री अजरामरकाव्यस्य प्रथमः कविः आदित्य-मङ्गलैयों द्यावाभूमी कविर्हि जग्रन्थ । तदनु निरन्तर-सर्गक्रमबद्धां काव्यपद्धतिं सुषुवे ॥ कोटिकल्पशतकेष्वपि यल म्रियते न जीर्यते जातु । आद्यं हि रचयितारं वन्दे तं देवमस्य काव्यस्य ॥ वाल्मीकिः क्रौथीकारुणिकान्तरोत्थितमहत्-संवित्-प्रकाश-स्फुरन्मर्यादापुरुषोत्तमीयचरिताऽऽलोकैर्जगद् भासयन् । सीतायाश्चरितामृतं प्रकटयन्नुभावयन् मारुते श्चारित्र्यं प्रतिभांशुभिर्विजये वाल्मीकि राद्यः कविः ॥ कालिदास-भारवि-माघ- वैदुष्यस्य द्रढिम्ने सुरगिरिसुधियोऽधीयते नैषधीयं जयदेव-श्रीहर्षाः शृङ्गारोत्कर्षसिद्ध्यै सुरसिकजयदेवस्य गीतीणन्ति । यान्ति प्रौढार्थभङ्गीरधिजिगमिषवो भारविं वाऽथ माघं किन्तु द्राक्षाम्रदीयःकृतिपरिचितये कालिदासं श्रयन्ते ॥ बिल्हणः काव्यज्ञाः कलयन्तु कर्णकुहरे मोचारसस्पर्धिनीः शीताश्मप्रतिबिम्बिताउमलकलानाथप्रभासोदरीः । फुल्लत्-पल्लव-सौविदल्ल-विसरल्लोलम्बकल्लोलकूत् कडूल्लिप्रतिमल्ल-बिल्हण-वचोवैदग्ध्यविस्तारिकाः ॥ जगन्नाथः ललितां कवितां सहैव गुम्फन् रसगङ्गाधर-सिद्धशेमुषीभिः । लहरीषु लयं गिरां विवृण्वन् स जगन्नाथकृती विलक्षणोऽमि । मञ्जुनाथः श्रीकृष्णकवेर्वंशे तैलङ्गानां विदां जनि लेभे । मथुरानाथकवीन्द्रो जयपुरविद्वत्-कुलाऽग्रगण्यो यः ॥ स हि मञ्जुनाथनाम्ना नूतनछन्दःसु नव्यकाव्यभिदाः । ललितनिबन्धकथोपन्यासादीन्यद्भुतानि जग्रन्थ ॥ नूतनपथप्रवर्तक-कृतये तस्मै स्व-नामधन्याय । कविवृन्दशिरोमणये श्रद्धासुमनांस्यभीक्ष्णमर्प्यन्ते ॥ __ -C/8, पृथ्वीराज रोड, सी.स्कीम, जयपुर ३०२००१ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy