________________
कथ्यतेऽत्र स पुण्यात्मा परतापं छिनत्ति यः । तस्य गुरू रामकृष्णो नरेन्द्रमित्युवाच सः ॥४॥ यो दुःखी परदुःखेन सुखी परसुख्खेन च । यो हरेत् परकष्टं स पुण्यात्माऽस्ति सुमानवः ॥५॥ कोऽस्ति धर्मो मनुष्याणां? विवेकानन्दः पृष्टवान् । न कस्याऽप्यहितो भावो मनसा वाचा कर्मणा ॥६॥ दमनमिन्द्रियाणां च मौनं च सत्यभाषणम् । पालनं सद्गुणानां च दानं दया मनःशमः ॥७॥ चित्तेन कर्मभिर्वाण्या न कस्याऽप्यहितं कुरु । प्रताडयेर्न कस्यापि शरीरं हृदयं मनः ॥८॥ समय एव सम्पत्तिर्व्यर्थं तलहि यापय । समयेनैव सिद्ध्यन्ति कार्याणि नहि वेतसा ॥९॥ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः । संत्यज्य तस्मादालस्यं कर्मनिष्ठः सदा भव ॥१०॥ निराशो नो भवेस्त्वं हि, हताशोऽपि च नो भवः । कालव्ययी नाऽत्र भूत्वा संयमी च सदा भवेः ॥११॥ निद्रालुनॊ भव त्वं हि, तन्द्रालुश्चाऽपि नो भवः । सत्समयञ्च विज्ञाय मितव्ययं त्वमाचरेः ॥१२॥ कुर्याः परोपकारं च येन पुण्यं सदा भवेत् । शिष्य ! कार्या साधुसेवा रक्षामीशः करोतु ते ॥१३॥ गुरुदेव ! नमस्तुभ्यं विवेकानन्द इत्यवक् । नमः परमहंसाय रामकृष्णाय स्वामिने ॥१४॥ वर्षे षडशीत्यधिके त्वष्टादशशताब्दके । षोडशेडगस्त्ये पञ्चत्वं रामकृष्णो जगाम हि ॥१५॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org