SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्पष्टीकृतं यत्तमाखोरस्य व्यसनं विदेशेभ्य आयातितमस्ति । सा हि विश्वेतिहासाध्यापिकाऽस्तीति तया सूचितं यत् टुबेको इत्याख्यं तमालपत्रं स्पेनदेशे समुत्पद्यते । तेन च विविधानि व्यसनानि संबद्धानि । सिगार, सिगरेट इत्यादयो धूमवर्तिकाप्रकाराः पाश्चात्येषु लोकप्रियाः । यदवधि वैदेशिकानामागमनं भारते प्रारभ्यत, धूमपानस्य विविधाः प्रकाराः, तमाखुचर्वणस्य च विभिन्ना विधाः प्रादुरभूवन् ।" भव्येशो मध्य एव पृष्टवान् – “अरे, नेदं क्षोदक्षमं प्रतीयते यद् विदेशेष्वेव धूमपानं प्रसृतं स्यान्न भारते । मया तु बाल्ये श्रुतमासीदिदं पद्यं यत्रेन्द्रो ब्रह्माणं पृच्छति - किं वस्तु भूमौ सर्वातिशायि ? ब्रह्मा चोत्तरं ददाति "तमाखुः" इति । इदं तु सूचयति यद् भारतेऽपि तमाखुरवगतोऽभूद् यतस्तत् पद्यं संस्कृतेऽस्ति ।" चातकेन कथितं यत्तत् पद्यं जानाति सः । त्वरितं तेनोद्धृतमपि तत् पद्यम् । "बिडौजाः पुरा पृष्टवान् पद्मयोनि, धरित्रीतले सारभूतं किमस्ति ? चतुभिर्मुखैरित्यवोचद् विरञ्चिः, तमाखुस्तमाखुस्तमाखुस्तमाखुः" ।। एतदुपरि सर्वे वयमहसाम किन्तु चातकेन स्पष्टीकृतं यत् “तादृशानि पद्यानि तु मध्यकालिकानि सन्ति यदा भारते वैदेशिकानां वस्तूनां व्यसनानां च प्रसारः समजायत । केनचन तमाखुव्यसनिना पण्डितेन पद्यमिदं निर्माय प्रसारितं स्यात् ।" भव्येशोंऽपि समर्थयामास - "सत्यम् । तमाखुशब्दः संस्कृतशब्दकोषेषु नास्ति, अतः सोऽयं वैदेशिक एव।" उपमन्युरप्युवाच – “एतादृशानि तमाखुवर्णनपराणि पद्यानि तु सुभाषितरत्नभाण्डागाराख्ये सूक्तिसंग्रहे बहूनि सन्त्युद्धृतानि । एकोऽध्याय एव तमाखवे समर्पितोऽस्ति तत्र । सर्वं तादृशं साहित्यं वैदेशिकागमनोत्तरवत्र्येवाऽस्ति । तमालपत्रमत्र देशे भवति स्म किन्तु न तस्य धूमपानाय चर्वणाय वा कदाऽप्युपयोगोऽक्रियत । बीडी-निर्माणमवश्यं भारते मध्यप्रदेशादिषु वृक्षस्य कस्यचन पत्राण्युपयुज्य प्रारब्धं किन्तु तदपि मध्यकालिकमेव ।" चातकेनाऽपि सूचितं यद्भूमवर्तिकासेवनं विदेशेभ्य एवाऽऽगतं स्यात् । यद्यपि बाणेन कादम्बर्यां राज्ञः शूद्रकस्य वर्णनं कुर्वाणेन मध्याह्ने तस्य धूमवर्तिप्रयोगोऽपि वर्णितः, किन्तु तदानीं हूणादीनां सुमहान् प्रसारः संजातोऽभूत् । तेन हि हर्षचरिते वैदेशिकानां विलासवस्तूनां वर्णनं कृतमेवाऽस्ति । सर्वेषामिदमेवाऽभिमतमभूद् यदद्याऽपि धूमवर्तिका-सिगारादिसेवनं यत्पाश्चात्यानां चर्चिलसदृशानां प्रियमभूद्, भारते सर्वतः प्रमुखं व्यसनमस्ति । इदं मुखकर्कटरोगादीन् (Throat Cancer), उच्चरक्तचापादीन्, हृदयरोगादींश्च जनयतीति वैदेशिकाः स्वदेशेषु तु तदिदं निरोद्भुमिच्छन्ति किन्तु भारते प्रसारयन्ति । सिगरेटसेवनमत्र महिमास्पदमिव मन्यते इति प्रत्यहं पश्याम एव । ___ मयाऽपि सूचितं यद् हूणैरिदमानीतं स्याद् भारते । तदनु मोगलानां विलासिनां सामन्तानामुच्चवर्गीयाणां च गृहेषु हुक्का-धूमनलिकादीनि व्यसनानि सुरभितमाखुसंवलितानि प्रासरन्, अस्माभिरप्यनुकृतानि । इदं श्रुत्वा चातकेन तु सुस्पष्टमेव घोषितं यद् - यावन्तो व्यसनविलासाः, विलासितायाः प्रकाराश्च मोगलकाले ३८ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy