SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मयोक्तं " तदेव त्वहं कथयामि । व्यसनैः कालयापनं मूर्खाणां लक्षणमिति प्राचां सिद्धान्तः । धीमन्तस्तु काव्य-शास्त्रविनोदैः कालमनयन् । तेषामपि भूयांसः प्रकारा इति वयं भारतीयाः सहस्राब्दीभ्यो जानीमहे | वात्स्यायनेन हि चतुःषष्टिकलानां यत् पारेगणनं कृतं तत्र कीदृशा उत्कृष्टा विनोदा वर्णिता इति तु त्वादृशा अपि जानन्त्येव । " - भाषाशास्त्रिणा भव्येशेन शास्त्रज्ञतां प्रतिष्ठापयिषुणा विनोदानां भेदाः प्रपञ्चिताः " अरे ! सर्वं मम् । पूर्वं तु स्पष्टमवगच्छथ यद् विनोदे व्यसने च सुमहदन्तरम् । ततोऽवगच्छथ यद् विनोदः खलु द्विविधः - बुद्धिविनोदः, मनोविनोदश्चेति । प्राचां कलासूचीषूभयविधा अपि विनोदा आसन् । प्रहेलिका, समस्यापूरणं, मात्राच्युतकं, पदच्युतकम् इत्यादयो बुद्धिविनोदा एव तु सन्ति । चित्रकला, सङ्गीतकं, वाद्यवादनं, पुष्पगुम्फनम् इत्यादयो मनोविनोदा: सन्ति । कालयापनस्य कुत्र लभ्येरन्नेतदितराणि सर्वथोत्कृष्टानि साधनानि: ? व्यसनान्यप्यासन्, किन्तु तानि परस्ताद् व्याख्यास्यामः ।" तदैव विनोदानां व्यसनानां च भेदो विवेचितः सर्वैः । विनोदा: सांप्रतं होबी (Hobby), अभिरुचिः इत्याख्यायन्ते, व्यसनम् एडिक्शन (addiction ) इत्यादि । चातक उदीरितवान् – “वात्स्यायनेन यान्यन्यानि साधनानि सूचितानि तानि तु त्वं विस्मरस्येव । ते विनोदा आसन् न व्यसनानि, परस्परं गृहेष्वापानगोष्ठीसमवायाः, मधुरभोज्यास्वादादीनि ...." मध्य एवोपमन्युः श्रौतायनः परिहासापह्नुतं प्रहारमाधात् – "तत्तु कथमुद्धरेद् भव्येश: ? तत्र तु भूयान् व्ययोंऽपेक्ष्यते, अयं कृपणः स्वगृहे किमिति तत्सर्वमनुमन्येत ?" इदं तु वयं सर्वे जानीमः स्मैव यदस्मासु भव्येशः सुतरामकृपणो वदान्यश्चाऽभूत् । तस्य गृहजना अपि वदान्याः । किन्तु चातकः प्रतिरक्षायै त्वरितं मुदतीतरत् “अरे बालिशाः ! यदि मनाक् शोधानुसन्धान- दृशा पश्येथ चेत्त्वरितमयं निष्कर्षः समुत्तिष्ठेद् यदस्मिन् देशे भारते प्राचीनकालेऽपि विविधा विनोदा आसन्, मध्यकालेऽपि व्यसनान्यल्पान्यासन् । किन्तु यदवधि वैदेशिकानामाक्रमणानि प्रारभन्त तैः स्व-स्वदेशाद् विभिन्नानि व्यसनान्यानाय्य भारतें त्यक्तानि, तदारभ्य वयं सर्वे तादृशेषु दुर्व्यसनेषु व्यापृताः स्मः । यदीतिहासं सूक्ष्मदृशा पश्यथ, तत्सर्वं ज्ञास्यथ ।" एतदुपरि क्षणद्वयाय तु सर्वे वयं गहन चिन्तनरता अतिष्ठाम । इतिहासस्य पृष्ठेषु मानसीं दृशं पातयता मया प्रोक्तं "बन्धवः ! चातकस्य स्थापनायामस्यां सत्यांशस्तु प्रतीयते । अथ यैर्दुर्व्यसनैर्वयं सुभृशं पीडिताः स्मस्ते सर्वेऽपि विदेशेभ्य ‘“आयातिताः” इति शोधविदुषां स्थापना । ह्येोऽहं द्विचक्रिकां स्कूटर - इत्याख्यां चालयन् राजमार्गे सरभसं गच्छन्नासम्। मदग्रेऽन्यः स्कूटरचालको गच्छन्नभूत् । नाऽहमजानां यत्स सतमाखुकं ताम्बूलचर्वणं कुर्वाणोऽभूत्; गच्छता तेन मार्ग एव किञ्चिन्मुखं परार्वर्त्य तमाखुनिष्ठीवनं तथा कृतं यथा पश्चादागच्छतो मम तेन रक्तवर्णेन निष्ठीवनेन सचैलं स्नानमिवाऽभूत् । रक्ताक्तेनेव मया गृहं परावृत्य शुद्धोदकस्नानं सचैलं कृतम् । येनाऽत्र तमाखुसेवनं प्रचारितं तमुपक्रोशतो मे सुमहान् कोपोऽप्यभूत्तस्मिन् दुष्टे येन निष्ठट्यूतं, किन्तु किं कुर्याम् ? एवं निष्ठीवनं भारतीयदण्डसंहितायां कीदृशोऽप्यपराधो न भवतीति कथं तमभियुञ्ज ? तदैव मत्पन्या Jain Educationa International - - ३७ For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy