SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ राजा – 'मयोक्तं खलु - नैव नैव नैव !' कृषिकः स्वगृहं प्राप्तः । पुरा लिखितं च फलकमपसारितवान् । किन्तु ततः किञ्चिद् विचिन्त्य सोऽन्यदेकं फलकं स्वगृहभित्तौ लम्बितवान्, यत्र लिखितमासीत् – 'अहमस्य राज्यस्य भिक्षुकः' इति । यदाऽन्यैर्जनैदृष्टमिदं फलकं तदा तैः पृष्टोऽयं – 'किमर्थं भो ! एतादृशं लिखति भवान् ?' तेनोक्तं - 'यदाऽस्मदीयं किमपि नाऽस्त्येव तदा तु वयमस्य राज्यस्य भिक्षुका एव जाताः खलु !' सर्वेषामपि तद्वचनमुचितं प्रतिभातम् । ततश्च सर्वैरपि स्वस्वगृहभित्तिषु फलकानि लम्बितवन्तः - 'वयमस्य राज्यस्य भिक्षुकाः' इति लिखित्वा । कर्णोपकर्णतया वातॆषा प्रतिवेशिराजस्य सदसि प्राप्ता । तां श्रुत्वा स साट्टहासं हसितवान् । हसन्नेव स स्वीयसभासदः पृष्टवान् – “किं स पोपटसिंहो भिक्षुकाणां राजाऽस्ति वा ?' सभासद उक्तवन्तः – 'पोपटसिंहः स्वयं सर्वस्याऽपि वस्तुनो स्वाम्यस्तीति तेन ख्यापितमस्ति । आसर्षप-पर्वतं वस्तूनां पृथिव्यादिभूतानां, किं बहुना ? प्रजाजनानां मनसो हृदयस्याऽऽत्मनोऽपि च स एव राजाऽस्ति । फलतस्तस्य प्रजाजना भिक्षुका एव जाताः खलु !' चिराय तदुपहासं कृत्वा स राजा पोपटसिंहाय सन्देशमेकं प्रेषितवान् – 'पोपटसिंह ! किं भवान् जानाति यद् - भवान् भिक्षुकाणां राजाऽस्ति - इति ? यदि वयं भवद्राज्यमाक्राम्येम तदाऽस्मत्पुरतः किं भवान् भिक्षुकसैन्यं गृहीत्वा योद्धमागमिष्यति वा ?' सन्देशमेनं पठित्वा पोपटसिंहो लज्जयाऽधोमुखो जातः । स्वकृतं दोषं सत्वरमेवाऽवाबुध्यत सः । ततश्च झटिति स तं कृषिकमाहूतवान् । सदसि समागतस्य च तस्य सानुनयं कथितवान् – 'भो भ्रातः ! भवताऽहं सम्यक् प्रतिबोधितोऽस्ति प्रमादमाचरन् । अधिकं किं कथयेयम् ? सर्वेऽपि जनाः स्वीयस्वीयाधिकारे राजान एव सन्ति । राज्यस्य राजा तु न कस्यचिदपि वस्तुनो जनस्य वा स्वामी राजा वा । स तु केवलं राज्यसञ्चालको नियामकश्च । सर्वेषां स्वामी तु भगवान् एव जनता वा । भवान् स्वगृहे यथेच्छं लिखित्वा फलकं लम्बयतु नाम, मम नास्ति काऽपि विप्रतिपत्तिः' । एतन्निशम्य सहस्ततालं कृषिको राजानमभ्यवादयत् । सर्वे सभासदोऽपि विषयेऽत्र स्वां सम्मति दर्शयन्तो हर्षध्वनिमकुर्वन् । एवं च स पोपटसिंहस्तु स्वदोषं ज्ञात्वा परिहत्य च शुद्धोऽभवत् किन्तु अस्माकं दुर्भाग्यादस्मदीयः शासको वर्गः स्वं देशस्य राजतयैवाऽवबुध्यते, न तु सञ्चालकतया नियामकतया वा, फलतश्च जनतां स सततं भिक्षुकीकुर्वन् नैव विरमति । हिन्द्यां मूललेखकः ज्ञानदेव-मुकेशः सौजन्यम् नवनीत हिन्दी डायजेस्ट दिसम्बर २०११ Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy