________________
व्यङ्ग्यकथा
देशस्य जातोऽस्ति प्रतिश्यायव्याधिः मुनिकल्याणकीर्तिविजयः
एकस्मिन् वने एकदा चमत्कारो जातः । कस्यचन सिंहस्यैक उष्ट्रः, एकः शूकरः शशकश्चैक इति त्रीणि मित्राणि जातानि । आरण्यकवनस्पतिरिव तेषां मैत्री निरर्गलं प्रवृद्धा । सिंहस्याऽऽधिपत्ये त्रयोऽप्येते निर्भयं निश्चिन्तं चाऽटाट्यन्ते स्म सप्रमोदं च समयाकुर्वन्ति स्म । प्रत्यहं सायङ्काले ते चत्वारोऽपि भोजनान्निवृत्ताः सन्तो विशालस्य कस्यचन वटवृक्षस्याऽधस्तात् समगत्योपविशन्ति स्म विविधविषयांश्च चर्चयन्ति स्म । मध्यभागे सिंह उपविशति स्म, तद्वामपार्वे उष्ट्रः, दक्षिणे शूकरः, तत्पुरतश्च शश उपविशति स्म ।
अथाऽन्यदा सिंहेनैको महाकायो वृषभो हत्वा भक्षितः, ततश्च तृप्तः सन् स वृक्षस्याऽधोभागे स्वस्थाने समागत्योपविष्टः । सद्य एव उष्ट्रोऽपि तृण-पत्रादिभिः स्वोदरं पूरयित्वा तत्राऽऽगतः, शूकरोऽपि स्वमुखं परावर्तयन् हुङ्कारं च कुर्वन् समागतः, सोल्लासं कूर्दन् शशकश्चाऽपि तत्रैवाऽऽगतः । गोष्ठ्यारम्भात् पूर्वमेव सिंहेन वामतो मुखं कृत्वोच्चैरुगारं कृतवान् । एतेन सगन्धो वायुरुष्ट्रस्य मुखोपरि निपतितः । तत्क्षणमेवोष्ट्रेण तदुर्गन्धमसहमानेन स्वमुखं परावर्तितम् ।
एतद् दृष्ट्वा सिंहेन सदर्प पृष्टं – “किं रे उष्ट्र ! ? स्वमुखं किमिति त्वं परावर्तितवान् ?'
उष्टेणाऽपि सनर्म प्रोक्तं – 'एवमस्ति सिंहमहोदय ! यद् भवान् न कदाऽपि स्वीयं मुखं प्रक्षालयति, न चाऽस्मद्वच्छाकाहारं करोति, अधुनैव चाऽपक्वं मांसं खादित्वा समागतोऽस्ति । फलतश्च भवदुद्गाराद् दुर्गन्धो यदि प्रसरेत् तत्र नाऽस्त्येवाऽऽश्चर्यं किल !'
एतन्निशम्य क्रुद्धेन सिंहेनोक्तं – 'रे उष्ट्रहतक ! ममैवाऽऽश्रये उषित्वा ममैवाऽवर्णवादं करोषि वा ? मम मुखाद् दुर्गन्धः प्रसरति खलु !... गृहाणेदम्' इत्युक्त्वोच्चैश्च गर्जित्वा तत्क्षणमेवैकेनैव प्रहारेणोष्ट्रो विनिपातितः । मृतमुष्टं दृष्ट्वा शूकरः शशकश्च भयेन कम्पेते स्म ।
शूकरेण चिन्तितं – 'ननु कीदृशीयं मैत्री ? उष्ट्रेण सत्यमेवोक्तमासीत् किल? राज्ञे सत्यश्रवणं किमर्थं न रोचते खलु ! एवं स्थिते तेन सह मैत्र्यमपि भयावहमेव किल ! शत्रुता तु दौर्गत्यकर्यस्त्येव' । स भयवशात् तूष्णीमेव स्थितः ।।
६४
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org