________________
उष्ट्रभक्षणान्निवृत्त्य सिंहो दक्षिणतो मुखं कृत्वा पुनरप्युच्चैरुद्गारं कृतवान् । अतः पूतिगन्धपूर्णो वायुः शूकरमुखं यावत् प्रसृतः । किन्तु शूकरः श्वासं निरुध्याऽपि तथैव चित्रवदुपविष्टः । एतद् दृष्ट्वा सिंहेन सगर्जनं पृष्टं – 'रे शूकर ! कथय, किं दुर्गन्धः प्रसरति वा ?'
शूकरेणाऽपि झटिति किञ्चिद् विचिन्त्य - ' नहि नहि प्रभो !', ततो मुखमितस्ततश्चालयित्वा कथितं - ‘प्रभो ! किमित्येवं वदति भवान् ? भवानस्ति वनराजः भवतो मुखादपि कदाचित् दुर्गन्धो निःसरेत् खलु ? नहि नहि, भवतः पुण्यमुखात् तु सुगन्धः प्रसरन्नस्ति सुगन्धः, एलायाः सुगन्धः प्रभो !'... ।
एतच्छ्रुत्वा कुपितः सिंहः भ्रुकुटिं कृत्वा गर्जितवान् – 'अधम ! शूकरपुत्रक ! किं मां मूर्ख मन्यसे वा ? मम मुखादेलाया गन्धः समागच्छति खलु ? दुष्ट ! मिथ्याभाषिन् ! चाटुकारिन् !....' एवं च कथयन्नेव स तदुपरि कूर्दित्वा केवलमेकेनैव प्रहारेण तमपि यमसदनं प्रापितवान् । एतद् दृष्ट्वाऽवशिष्टः शशको भीत्या शुष्कपर्णवत् कम्पितुमारब्धः । तेन चिन्तितं 'राज्ञा सह मैत्री हि दुर्गतिरेव । एकेन सत्यमुक्तं, फलतो मरणं प्राप्तम् । अन्यो हि स्वात्मानं रक्षितुं मृषा कथितवान्, अथाऽपि परलोकं गतः । इदानीं मया किं वा कर्तव्यम् ? किं सत्यानृतयोर्मध्येऽपि किञ्चनाऽस्ति यत् कथयित्वा स्वं रक्षेयम् ?' अस्यामेव चिन्तायां पतितः शशकः शूकरदुर्गतिं निरीक्षितवान् ।
शूकरं समाप्य सिंहः पुनरपि वायुमुद्गीर्णवान् । ततः शशकं प्रति दृष्ट्वा गर्जितवान् - 'कथय रे ! शशक ! त्वं कथय, किं दुर्गन्धो निःसरति सुगन्धो वा ? '
शशकोऽञ्जलिं कृत्वा सिंहं प्रणम्य कम्पमानेन स्वरेण कथितवान् – 'प्रभो ! यदि मेऽभयदानं दीयेत तदा किञ्चिन्निवेदयेयम्....'
सिंहः सदर्पमुक्तवान् – ‘भवतु नाम, वद यत् ते रोचेत, यतः प्रथमं वृषभ: पश्चादुष्ट्रस्ततश्च शूकरः - इति त्रयस्तु त्वं तु कवलमात्रमपि न भवेः । दत्तं तेऽभयं नाम, वद, किं वक्तव्यमस्ति ?'
शशक उक्तवान् 'प्रभो ! आसप्ताहान्ममोग्रतया प्रतिश्यायव्याधिर्जातोऽस्ति । तेन च मे नासा सिङ्घाणादिक्लिन्ना सती न सुगन्धं नाऽपि च दुर्गन्धमवबोद्धुं समर्था सर्वथा .... !!'
एवमेव, मन्ये यत् समग्रस्याऽपि देशस्य प्रचण्डः प्रतिश्यायव्याधिर्जातोऽस्ति, ततश्च न कोऽपि सुगन्धं दुर्गन्धं वा परिचेतुं समर्थः !!
Jain Educationa International
६५
For Personal and Private Use Only
(मराठीमूलम् : बाबा नागार्जुनः हिन्द्यां प्रस्तुतिः निवेदिता वर्मा सौजन्यम् : नवनीत हिन्दीडायजेस्ट सितम्बर, २०११)
www.jainelibrary.org