________________
तत् फलकं निष्कासय, अन्यथा ते प्राणान् हरिष्यामि' ।
अगतिकतया कृषिकस्तत् फलकमपसारितवान् । किन्तु स धैर्यं नाऽत्यजत् । अनन्तरदिन एव स तत्र द्वितीयं फलकं स्वगृहभित्तौ लम्बितवान्, यत्र लिखितमासीत् – 'अहं मम मनसो राजा' इति ।
शीघ्रमेव राज्ञः सैनिकैरेतज्ज्ञातम् । ज्ञात्वा च राज्ञे सूचितमपि । राजा कोपाकुलो भूत्वा पुनरपि कृषिकं राजसभायामाहूतवान् फलकविषये च पृष्टवान् । नक्तं 'प्रभो ! अहं मदीयमनसः स्वाम्यस्मि, मदिच्छानुसारं च वर्तितुं स्वतन्त्रोऽस्मि । यतः कदाऽपि कस्यचिदपि मनसि नाऽन्यस्याऽऽधिपत्यं भवेत्, राज्ञोऽपि च नैव' ।
राजोच्चैर्जगर्ज – 'रे ! अस्मिन् राज्ये मया विहिता विधि-नियमा आचाराश्च प्रवर्तन्ते इति मा विस्मार्षीः । तव मनस्तदेव विचारयिष्यति करिष्यति च यद् विधि-नियमानुसारं भवेत्, ततश्च तवाऽऽचरणमपि मम नियमानुसारं भविष्यति न तु तवेच्छानुसारम् । अतः सत्वरमेवेदमपि फलकमपसारयाऽन्यथा मे सैनिकास्त्वां नद्यां प्रक्षेप्स्यन्ति' ।
-
दुःखीभूय कृषिकः स्वगृहं न्यवर्तत फलकं चाऽपासारयत् । तेन चिन्तितं यत् कथमपि राज्ञोऽस्य कश्चन पाठ: शिक्षयितव्य एव । एतदर्थमुपायानन्विषन् स बहुचिन्तनानन्तरमुपायमेकं कल्पितवान् । गृहे वासं त्यक्त्वा स निजक्षेत्रे एवैकत्राऽसंवृते स्थाने वसनमारब्धवान् फलकं चैकं निवेशितवान् यत्र लिखितमासीत् 'अहं मे आकाशस्य राजा' इति ।
यदा च राज्ञा नूतनफलकविषये श्रुतवान् तदाऽमर्षेण तन्मस्तिष्के विस्फोटो जात इव । सत्वरमेव तदादेशानुसारं सैनिकाः कृषिकं समाकृष्य राजसदसि समुपस्थापितवन्तः । तं दृष्ट्वा नेत्राभ्यामङ्गारान् वर्षयन्निव राजा कथितवान् – 'मन्ये त्वं ममाऽऽदेशमेवमेव नैव मंस्यसे । अद्य त्वां हस्तिपादतले एव मर्दयामि तावत्' ।
—
कृषिकोऽपि धैर्यमत्यक्त्वा कथितवान् – 'प्रभो ! वायुराकाशं प्रकाश आतपश्च भगवता प्रदत्तमस्ति । तेषु यावान् भवतोऽधिकारस्तावानेवाऽस्माकमपि सर्वेषाम् । ततश्च तद्राजत्वेन यद्यहं स्वं गणयेयं तदा भवतः का वाऽऽपत्तिः स्यात् ?'
राज्ञा कथितं 'नैव !'
------
कृषिकेण पृष्टं - 'किं वयमस्माकं परिश्रमस्याऽपि स्वामित्वं न धारयामः ?'
राजा 'न हि' ।
कृषिक:
राजा
—
-
Jain Educationa International
'न कदाऽपि ' ।
कृषिकोऽन्तिमतयाऽपृच्छत् – 'किं वयं निजात्मनोऽपि स्वाम्यं न धारयामो वा ?'
'किं स्वीयशरीरस्याऽपि स्वामिनः स्मो वा वयम् ?'
-
६२
For Personal and Private Use Only
www.jainelibrary.org