________________
बहिर्जगाम । तत: सङ्खेन निह्नवरूपेण घोषयित्वा स जमालिः सङ्घाद् बहिष्कृतः ।
चेतन ! ज्ञातं किम् ? स जमालि: प्रभोर्जामाता, तच्छिष्यः, भगवद्धस्तेन दीक्षितः, अनेकशिष्याणां गुरुः, प्रभोर्निश्रायां स्थित्वैवाऽऽगमविद् जातः । एवं सर्वमपि धर्माराधनानुकूलमासीत् । तथाऽपि केवलमेकस्य मतस्याऽऽग्रहवशात्तस्य भवभ्रमणं वृद्धिं गतम् । असद्ग्रहो नामऽज्ञानम्, अज्ञानं नाम मोहः । एष मोह एव जनान् संसारे भ्रामयति ।
I
किञ्च - मोह एवाऽहितकरोऽस्ति तथाऽपि यदा मोहो मूढतारूपेण परिवर्तेत तर्हि सर्वतोऽहितकरो भवति । यतो मूढताप्रभावेणाऽनेके दोषा उद्भवन्ति । वस्तु स्थानं च प्रति, विशेषतश्च व्यक्ति प्रति च मोहान्धीभूतो जनो विवेकं लज्जां चाऽपि विस्मरति । मूढतया समाजे अहं मे कुटुम्बश्च कलङ्कितो भवतीत्यपि न जानाति ।
मूढीभूतो जनोऽहं कः ? मम कर्तव्यं किम् ? मम पूज्याः के ? समाजे मे पूज्यानां प्रतिष्ठा का ? एतादृग्वर्तनं मे शोभते ? इति सर्वमपि विस्मरति । मोहो - रागस्तु छद्मस्थानामस्माकं सर्वेषां चित्ते विद्यते एव, किन्तु स मोहः क्षम्योऽस्ति परं मूढता तु न क्षम्याऽस्ति । यतो मोहः केवलं स्वस्यैवाऽशुभकरो भवति किन्तु मूढता तु स्वस्य स्वकुटुम्बस्य चाऽप्यहितकरा भवति । ततो मोहो मूढतारूपेण न परिवर्तितः स्यादिति सदा स्मरणीयम् ।
बन्धो ! मोहं विजेतुमावश्यको यथा विवेकस्तथैव समभावोऽपि । समता नामाऽनुकूलायां प्रतिकूलायां चेति सर्वस्यामपि परिस्थित्यां रागो द्वेषो वा न करणीयः, किन्तु समानभावेन वर्तनीयमिति ।
मोह आत्मनः शुद्धं वास्तविकं स्वरूपमाच्छादयति सद्गुणान् च नाशयति, किन्तु समताऽऽत्मस्वरूपमुद्घाटयति, समतैव मोक्षद्वारमस्ति । यतः सर्वस्या अप्याराधनाया मूलमस्ति समतैव । समतां विना तु दया- तपो - ध्यानादिकं सर्वमपि निष्फलमस्ति ।
अध्यात्मसारे उक्तं च
-
किं दानेन तपोभिर्वा यमैश्च नियमैश्च किम् ।
एकैव समता सेव्या तरी संसारवारिधौ ॥३ - ३९॥
भोः ! शास्त्रेषु तु तावदुक्तं - ध्यान - तपो - दीक्षा - दयादिकमनुष्ठानं विनाऽपि केवलं समतयैव बहवो जीवाः शिवसुखं प्राप्नुवन्तः ।
उक्तं चाऽध्यात्मसारे
Jain Educationa International
आश्रित्य समतामेका निर्वृता भरतादयः । न हि कष्टमनुष्ठानमभूत्तेषां तु किञ्चन ॥ ३ - ४३||
भगवत ऋषभस्य माता मरुदेवी स्मृतिपथमायाति ।
३४
For Personal and Private Use Only
www.jainelibrary.org