________________
ऋषभदेवप्रभुणा दीक्षाऽङ्गीकृता । तद्वियोगेन मे ऋषभः ऋषभः, ऋषभः क्व गतः, ऋषभः कदाऽऽगमिष्यति ? इति विलपन्ती निरन्तरं माता रोदिति स्म । पुत्रविरहोद्भूताश्रुप्रवाहैः तस्या नीलिकारोगो जातः । तेन सा लुप्तलोचना सञ्जाता । एवं मोहवशात् सहस्रं वर्षाणि यावत् पुत्रदुःखेन माता रुदितवती।
यदा केवलज्ञानमवाप्य प्रभुविनीतापुर्यां समवसृतस्तदा भरतेन वार्तेषा ज्ञात्वा झटिति मातुः पादयोनमस्कृत्य कथितं - मातर् ! तव पुत्र ऋषभः आगत, त्वं तदुःखेन सदा रोदिति स्म, किन्तु पश्य, पश्य, ते पुत्रस्य सम्पत्, इति । ततो भरतो मातरं गजे आरोहयामास । ततो गजैस्तुरगैः स्यन्दनैः पत्तिभिश्चाऽनुस्रियमाणो भरतो दूराद् रत्नध्वजमपश्यत् ।
भरतो मरुदेवीमुवाच - देवैः प्रभोः समवसरणं निर्मितम् । तत्र देवानां जयजयारावः श्रूयते । दिवि गम्भीर-मधुरं दुन्दुभिर्ध्वनति । देवविमानानां किङ्किणीनादः श्रूयते । गन्धर्वा गायन्ति । देवाश्च स्वामिदर्शनहृष्टाः सिंहनाद कुर्वन्ति ।
एतन्निशम्य मरुदेव्या जातैरानन्दाश्रुभिर्नयनयोर्नीलिका नष्टा । निर्मलनयना सा माता पुत्रस्य देवर्द्धि पश्यन्ती मनसि चिन्तितवती - अहो ! एतादृशः स्वार्थी संसारः ! यस्मिन् पुत्रवियोगेऽहं सदा रोदिमि स पुत्रस्तु सानन्दं देवसुखमनुभवति । संसारेऽस्मिन् कः कस्य ? सर्वेऽपि स्वार्थिनः सन्ति - इति समभावे रममाणा सा पुत्रस्याऽतिशयान्वितां तीर्थकृल्लक्ष्मी पश्यन्ती च तन्मया जाता । तत्क्षणमेव साऽपूर्वकरणक्रमात् क्षपकश्रेणिमारुह्य युगपत् क्षीणकर्मा केवलज्ञानं प्राप्तवती, गजस्कन्धारूढैव चाऽन्तकृत्केवलित्वेन मोक्षपदं प्रपेदे। . बन्धो ! पश्य, मरुदेव्या न किमपि तपोध्यानादिकमनुष्ठानमाचरितं, किन्तु केवलं समतयैव शिवसुखं प्राप्तवती जाता सा ।
समता विवेकस्य सहोदरा भगिन्यस्ति । यत्र विवेकस्तत्र समताऽस्ति न वा, किन्तु यत्र समता तत्र विवेकोऽस्त्येव । विवेकस्तु शुभाशुभयोः कार्ययोनिर्णयं विधाय शुभमाचरितुं प्रेरयति । समता तु विवेकद्वारेण शुभकार्ये स्वीकृते सति तत्र कदाचिन्मनःस्खलना स्यात्तदा मनसि समाधानं कृत्वा पुनः स्वीकृते शुभकार्ये मनो नियोजयति । ततस्तत्कार्यं सफलीभवति । अतो मोहं पराजेतुं विवेकेन सह समताऽप्यावश्यकी । यदि त्वं द्वयोरेतयोः साहाय्यं प्राप्नुयास्तहि मोहराजो विविधानि स्वरूपाणि त्वामाचरितुं न निर्देष्टुं शक्तः स्यात् ।
अन्ते, एतज्ज्ञात्वा जीवने विवेक-समतयोः प्राप्त्यर्थं विशेषः प्रयत्न: करणीयस्त्वया । यतोऽस्मिन् संसारे एव स्थातव्यमस्ति अस्माभिः । क्षणे क्षणे मोहराजस्य निमित्तानि स्वागतं कर्तुमागमिष्यन्ति, इति निश्चितमस्ति । एवमेतदपि निश्चितमस्ति यदस्मिन् संसारे स्थित्वैवाऽऽत्मकल्याणं साधनीयमस्ति, इति । अतस्त्वमपि द्वयोः साहाय्येन झटिति कल्याणं साधयित्वाऽविचलं सुखमधिगच्छ, इत्याशासे ।
Jain Educationa Interational
For Pers4 and Private Use Only
www.jainelibrary.org