SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अन्यच्च, जगति तत्त्वद्वयमस्ति - सत् असच्चेति । तत्र विवेकः सत्-शुभं-हितकरं च गृह्णाति । मोहोऽसत् - अशुभम् - अहितकरं चैव गृह्णाति । महोपाध्यायश्रीयशोविजयैः प्रोक्तम् - गुरुप्रसादीक्रियमाणमर्थं गृह्णाति नाऽसद्ग्रहवाँस्ततः किम् । द्राक्षा हि साक्षादुपनीयमानाः क्रमेलकः कण्टकभुङ् न भुङ्क्ते ।। __ (अध्यात्मसारे ४-१५९) क्रमेलको द्राक्षं विहाय कण्टकमेव भुङ्क्ते तथैव मोहवान् - अज्ञानी जनो जिनशासनं तत्र प्ररूपितमुत्तमभावं सद्धर्मं सज्ज्ञानं सत्क्रियादिकं च विहाय संसारवर्धकमशुभं पापं चैव स्वीकरोति । बन्धो ! अस्मिन् जगति श्रेष्ठः सात्त्विकः शुभश्च धर्मोऽस्ति, तस्याऽऽराधकः सुख्येव भवति, सद्गति चैवाऽवाप्नोति । अपि च, तं धर्मं यो विराधयति तथा धर्मविघ्नकरान् महत्त्वाकाङ्क्षा-दम्भ-अभिमानादिकानसद्भावान् गृह्णाति स दुःख्येव भवति, अन्तेऽज्ञानमरणमेवाऽवाप्नोति । एवं विवेकशून्योऽज्ञानी मोहवान सद्धमाराधनं कृत्वाऽप्यशभं फलं प्राप्नोति । त्वं जानासि किल ! अस्माकं शासने ये सप्त निह्नवा जातास्ते सर्वेऽपि ज्ञानिनस्तपस्विनो भक्तिपरायणाश्चाऽऽसन् । सद्गतिप्रापकान्यात्मकल्याणकराणि सर्वाण्यपि साधनान्युपलब्धानि तैरासन् । तथाऽपि तेषामकल्याणं जातम् । कथम् ? इति प्रश्नस्योत्तरमेकमेव असद्ग्रहयुक्तत्वात् । जमालिनामानं निह्नवं स्मर । प्रभोधर्मदेशनां श्रुत्वा क्षत्रियाणां पञ्चशत्या सह जमालितं जग्राह । अधीतैकादशाङ्गीको जमालिः प्रभुणा सह विजहार । एकदा सपरिच्छदोऽहं पृथग् विहारेण विहर्तुमिच्छामीति जमालिना प्रभुर्भूयो भूयः प्राथितः । प्रभु!दतरत् । अनिषिद्धमनुमतमिति मत्वा जमालिरन्यत्र विहृतवान् । जमालिविहरन् श्रावस्ती नगरी प्राप । तस्य देहे पित्तज्वरो जातः । ततो मुनीन् संस्तारककरणायाऽऽदिशत् । सः । ते तत्कर्तुं प्रारेभिरे । ततो ज्वरपीडिताः सः पुनः पुनः संस्तारकः कृतो न वेति पप्रच्छ । संस्तारकः कृत इति निशम्य जमालिस्तत्र गतवान् । तत्र संस्तारकं क्रियमाणं दृष्ट्वा प्राप्तमिथ्यात्वः स क्रोधादब्रवीत् - संस्तारकः क्व कृतः ? तैरुक्तं - सिद्धान्तानुसारं क्रियमाणं कृतं भवतीति अतोऽस्माभिरुक्तं - कृतमिति । ततः स कथितवान् – क्रियमाणं न कृतं किन्तु कृतमेव कृतमिति मयाऽद्य ज्ञातम् । ततो भवद्भिः क्रियमाणं कृतमिति सिद्धान्तो यत् स्वीकृतः स मिथ्या । जिनेश्वरा उत्पद्यमानमुत्पन्नं क्रियमाणं च कृतमिति कथयन्ति, तत् प्रत्यक्षविरुद्धमस्ति । एवं तत्र जमालेर्मुनीनां च मध्ये विशेषतश्चर्चा प्रवृत्ता । मुनिभिर्युक्तिभिः प्रबोधितोऽपि स स्वाग्रहं न त्यक्तवान् । अन्ते आग्रहिणं तं केचिद् मुनयः त्यक्त्वा वीरप्रभुमुपजग्मुः । अन्यदा चम्पायां प्रभुः समवसृतः । गर्वोन्मत्तो जमालिस्तत्र गतवान् । प्रभुणा सह विवादः कृतः । प्रभुणाऽपि स जमालिः पुनः पुनः प्रबोधितः । तथाऽपि मिथ्यात्वोदयेन स न प्रबुद्धः, तथा समवसरणाद् Jain Educationa Interational For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy