________________
श्रीमहावीरचित्रकाष्टकम् आचार्यश्रीविजयनेमिसूरीश्वरशिष्यः प्रवर्तकमुनिश्रीयशोविजयः
भगवान् भुवनाधीशो धीशो धैर्यगुणे नगः । गभस्तिर्मोहविध्वंसे पापाद्वीरोऽवतात् स माम् ॥१॥
अथ हलबन्धः वीरं नमामि विश्वेशं तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगद्बोधं सर्वज्ञं वरकेवलम् ॥२॥
अथ हलबन्धः वीरं धर्मप्रदातारं वारं दोषततेर्वरम् । रोद्धारकरं विश्वे वन्देऽहं देवदेवनम् ॥३॥ जय भवभयहरणचरणकमल जय कनकभ जय वजनशरण । जय समसहमददवदहनदक जय वरजनभरनतततपदक ॥४॥
अथ समासगुप्तं प्रबलमदनदावं घोरमोहप्रतानं, प्रकुपितमदकालव्यालसङ्घप्रचारम् । भववनमधिभव्यश्रेणिसौख्याय यस्याऽभिभवति शरणं स त्रायतां वोऽथ वीर: ॥५॥
अथ गोमूत्रिकाबन्धः सम्पदानपरं वन्दे लोकजालस्य पालिनम् । विपन्मानहरं मन्दे शोकजालस्य पातिनम् ॥६॥ अथ गद्यबन्धः (अयं गोमूत्रिकाबन्धेऽपि) जिन श्रीन घनध्यान च्छिन्नमान घनस्वन । धनदीनजनग्लानजनसन्नतनन्दन ॥७॥
अथ प्रथमान्तबन्धः विश्ववयत्राणनिबद्धचेताः कुबोधविध्वंसनवाग्विलासः ।
तृष्णातमस्संहरणो मुनीशः श्रीवीरदेवः सुखदः सदाऽस्तु ॥८॥ इतिश्रीसहृदयहृदयारविन्दविकासनसवित्रीयमाणसकलजनमनोऽन्तस्तापप्रशमनप्रपीयूषायमाणभीष्मभववनभ्रान्तिक्लान्तिमच्छान्तिदानैककल्पतरुयमाणश्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण
प्रवर्तकयशोविजयविरचितं श्रीमहावीरचित्रकाष्टकं समाप्तम् ॥
Jain Educationa Intemnational
For Personal and Private Use Only
www.jainelibrary.org