________________
श्रीमदृषभदेवस्तवतरङ्गिणी
आचार्यरामकिशोरमिश्रः
वन्दे जिनं जगति जैनसमाजपूज्यम्, तीर्थङ्करेषु ऋषभं जिनधर्मदूतम् । यं जैनधर्मजनकं मनसा स्मरामि, तस्मै नमो भगवते ऋषभाय लोके ॥१॥
श्वेताम्बर: प्रथम आदिगृहस्थभोगी, पश्चादयं स्वतपसात्र तपश्चरोऽभूत् । यं जैनदेवमधुना हृदये भजामि, तस्मै नमो भगवते ऋषभाय लोके ॥२॥
Jain Educationa Intemational
For Personal and Private Use Only
www.jainelibrary.org