________________
भाषोपदेशकवराय समत्वदाय, साधारणादिजनशर्मसमीक्षकाय । विप्रादिशूद्रजनतासमताप्रदाय, तस्मै नमो भगवते ऋषभाय लोके ॥३॥
यः कर्मणा च मनसा च हृदा च वाचा, जीवस्य पीडनविराम इहेत्यहिंसा । तत्पालकं यमथ शर्मकरं स्मरामि, तस्मै नमो भगवते ऋषभाय लोके ॥४॥
यः स्वीचकार जडचेतनमूलरूपम्, तस्मिन् कदापि न च यो विकृतिं चकार । यं सत्यवादिनमहं हृदये भजामि, तस्मै नमो भगवते ऋषभाय लोके ॥५॥
सत्यं त्वसंग्रहमहिंसकतां च विश्वे, कल्याणहेतव इतीदमुपादिशद् यः । यश्चाऽब्रवीदिह सदाचरणं विधातुम्, तं जैनधर्मजनकम् ऋषभं नमामि ॥६॥
श्रीहोतिलाल इह यस्य कलावती च, माता पिता च जनिभूनगरी च सोरों । देवं च यं नमति रामकिशोरमिश्रः, तस्मै नमो भगवते ऋषभाय नित्यम् ॥७॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org