________________
अथ धनुर्बन्धा वसन्ततिलका वीरं नमामि विपदादलनं दयालु घोरान्धकारविधुरान् विविधोपतापान् । पापान समुद्धरति यो जितभाववैरी दर्पोद्गमप्रशमनं जगदेकसारम् ॥२॥
अथ खड्गबन्धः धीरं धीरं वन्देव, देवमावसथं श्रियाम् । यदर्शनमघध्वंसि सर्वदा तं जिनं स्तुवे ॥३॥ अथ द्वाभ्यां श्लोकाभ्यां खड्गबन्धः सारशौर्याप्तमोक्षश्रीर्जितकाममहारिपुः । पुण्यकेलिगृहं वीर: क्रान्तविश्वः स्वतेजसा ॥४॥ सानुकम्पो भवच्छेदी शक्रसन्दत्तवाससा सारं संशोभमानो मां पातु पापात् प्रभद्रकः ॥५॥
अथ शरबन्धः सर्वदा दारितोन्मादं सर्वर्द्धिधिषणैर्नुतम् । वन्दे वीरं महाधीरं भवसत्रत्रसन्नतम् ॥६॥
__ अथ त्रिशूलबन्धः उद्दामतेजसाभासदेहसौन्दर्यभासितम् । तं सदा दासतं देवं वन्दे तं विदितं दिवि ॥७॥
___अथ शक्ति बन्धः वरं तत्त्वविदामीशं तं शं सौख्यददं वरम्
वगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा ॥८॥ इतिश्रीनिरुपमप्रौढसाम्राज्यराजविराजमानतपत्तपस्तेजःप्रकरप्रकीर्वमानकीर्तिनिकरस्वच्छतपगच्छगगननभोमणीयमानसकलजनप्रार्थितार्थसार्थचिन्तामणीयमानश्रीमद्विजयनेमिसूरीश्वराचार्यचरणचञ्चरी
कायमाणपवर्तकयशोविजयविरचितं श्रीवीरचित्रकाष्टकं समाप्तम् ॥
Jain Educationa Interational
For Personal and Private Use Only
www.jainelibrary.org