SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ भिन्ना एव दृश्यन्ते । यद्यपि क्रोधी जनः कदाचिदत्यन्तकुटिलस्वभाववशात् प्रेम्णः कारुण्यस्य वा दम्भं कृत्वा स्वीयमुखरेखाः परावर्तयेदपि, किन्तु तस्याऽन्तःकरणे तु क्रोधेन सह कौटिल्यं दम्भोऽपि च सम्मीलितो भवति । ततश्चैतद् विकृतित्रैविध्यं तद्देहस्य रासायणिकसंयोजनानि महता प्रमाणेन क्षुब्धानि करोति । एतादृशीः क्षुब्धता मनसिकृत्यैव हारितेन विविधलक्षणानां गभीरमध्ययनं कृतं, तत एव च तेषां निषेधात्मकानि विधेयात्मकानि च लक्षणानि वर्गीकृतानि । स कथयति यत् - कश्चन जनो यदि सततं द्वेषभावं धारयेत् स्वमनसि, तेन बाह्यजगतो न कश्चिद् विशेषः स्यात् । परन्तु धातुपात्रे स्थापितमम्लद्रव्यं तत् पात्रमेव नाशयेद् यथा, तथा सततं भाव्यमानो द्वेषः स्वीयशान्तिमेव विक्षिपेत् कालान्तरे च शारीरिकी मानसिकी चेत्युभयथा हानि प्रकल्पयति । एतादृशा भावा अवश्यं त्याज्या एव । ___ एतद्वैपरीत्येन केचन भावास्तादृशाः सन्ति येषां सततं भावनेन मनुष्यस्य दैहिकी प्रक्रिया निर्मलीमसीभवति क्रमशश्च सर्वथोत्तमा भवति, तथा तस्य मानसिकं स्तरमप्युच्चत्वं प्राप्यमाणं क्रमेण तथा सबलं भवति यथा तन्न केनाऽपि विक्रियेत । __ अत्र पक्षद्वयेऽपि स्थूललाभस्य स्थूलहानेर्वा न किमपि महत्त्वमस्ति । कश्चन क्रोधी द्वेषी वा जनः स्वीयक्षेत्रे पूर्णं साफल्यं प्राप्तः स्यात्, भौतिकी सम्पदपि तस्याऽपारा स्यात्, समाजादिषु च तस्य प्रतिष्ठाऽपि स्यात् । एतद्विपरीततया सत्य-प्रेम-करुणादयो भावा यदस्तित्वं व्याप्ता भवेयुस्तादृशो जनः समाजेनोपेक्षितोऽपि स्यात्, भौतिकी परिस्थितिरपि तस्य निम्नस्तरीया स्यात् । एवंस्थितेऽपि स्थूला परिस्थितिः कदाऽपि शाश्वतमानदण्डो न भवेत् । तस्य तस्य जनस्याऽऽन्तरिकी परिस्थितियथा मनस्तोषः सन्तापो वेत्यादय एव मानदण्डायेरन् । ____ अत्रैतत् तु स्वाभाविकमेव यत् सर्वेऽपि विधेयात्मकान् भावान् प्रशंसन्ति, एते एव भावयितव्याः सदाऽपि - इत्यादि कथयन्ति, स्वीयं सर्वमपि कार्यमेतैभावैर्व्याप्तमिति योजयितुं प्रयतन्तेऽपि; तथाऽपि वस्तुतस्तु विधेयात्मका भावा आत्मसात् कर्तुं दुःशका एव । कश्चन विशिष्टो जन एवैतेषां केनचन भावेन स्वस्य समग्रमप्यस्तित्वं व्यापयितुं शक्तो भवति तदा च स महापुरुषो भवति । यदि च तत्तद्भावस्य प्राकट्यमतिशयेन प्रबलं भवेत् तदा स महापुरुषो युगपुरुषत्वमासाद्य जगदुद्धारं करोति । अथाऽलं विस्तरेण, हारितस्य मुख्यं कथयितव्यमेव पुनरुच्चार्य विरमामस्तावत् । “मनुष्यस्य जायमाना रोगास्तेन मनोवाक्कायैः कृतानां विविधानां दुष्कृत्यानां पापकर्मणां चैव परिणामोऽस्ति ।" अतो यदि वयं रोगेभ्यः स्वं रक्षितुमिच्छामः स्वस्थतया जीवितुं चेच्छामस्तदा मनो-वाक्कायानि निर्मलीकर्तुं दुष्कृत्येभ्यः पापकर्मभ्यश्च दूरीभवितुं च प्रयतेमहि खलु ! । २९ For Personal and Private Use Only www.jainelibrary.org Jain Educationa international
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy