________________
आत्मीयबन्धो ! चेतन !
पत्रम् मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥
धर्मलाभोऽस्तु ।
भगवत्कृपयाऽस्माकं सर्वेषां देहः समीचीनोऽस्ति । तवाऽपि देहो निरामयः स्यादित्याशासे ।
भावनगरे चतुर्मासीं समाप्य स्थंभनतीर्थे (खंभातनगरे) आगतवन्तो वयम् । अस्मिन्नगरेऽस्य स्थंभनतीर्थाधिपतेः श्रीस्थंभनपार्श्वप्रभोः प्रतिष्ठाया वर्षाणां सप्त शतानि पूर्णानि जातानि । तन्निमित्तीकृत्य पार्श्वप्रभोः सुरेन्द्र-विद्याधर - नृपत्यादिभिः पूजिता, प्राचीनाऽलौकिका नयनरम्या या प्रतिमा यैः पूज्यगुरु भगवद्भिरत्र प्रतिष्ठिता, तेषामागमनवाङ्गीवृत्तिकार - पूज्यपाद श्री अभयदेवसूरीश्वराणां भव्यप्रतिमायाः
Jain Educationa International
३०
For Personal and Private Use Only
www.jainelibrary.org