SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठामहोत्सव आनन्देन संपन्नो जातः । ततो विहृत्य कर्णावतीनगरे कियत्कालं स्थित्वा गोधरानगरे प्रभुप्रतिमा-गुरुमूर्तिप्रतिष्ठामहोत्सवार्थं गुरुभगवता साकं वयं विहरिष्यामः । बन्धो ! अद्य मोहविषयकं किञ्चिल्लेखितुमिच्छामि । विश्वमिदं रङ्गमञ्चरूपमस्ति । अस्मिन् रङ्गमञ्चे मोहनामा दिग्दर्शको हास्य-रति-अरति-भय-शोकेत्यादीनि विविधानि स्वरूपाणि रचयति । अत्रैक एव जनोऽवर्णनीयानि बहूनि स्वरूपाणि भजति । कदाचिद् हासयति, कदाचिद् रोदयति, क्रीडयति, उद्वेजयति, भापयति, प्रमोदयति, क्लेशयति चेत्यादि । अत्राऽऽश्चर्य त्वेतदेव यद् - एक एव जनः क्षणे क्षणेऽपरापररूपेण परिवर्तते । पूर्वक्षणे यो जनो हसति स्म, सानन्दं जनैः सह यः क्रीडति स्म च, स एवाऽपरक्षणे तु स्वस्मिन् यथा दुःखस्य गिरिः पतितः स्यात्तथा रुद्यात् । बन्धो ! चिन्तय - एकेन जनेन व्यापारः प्रारब्धः, दैवाद् झटिति बहु धनमुपार्जितम् । तथा परीक्षायामुत्तीर्णो भवेन्न वेति चिन्तया व्याकुलितेन तेन भाग्योदयेन परीक्षायां नवतिः प्रतिशतं (९०%) प्राप्ता । एवमकल्पनीयलाभे प्राप्ते सति प्रोन्मत्तीभूय प्रमोद कुर्वति सत्येव तेन समाचारः प्राप्तः - पुत्रेण वाणिज्ये रूप्यकाणां लक्षदशकं नाशितम्, उत पुत्रस्याऽपघातो जातः, इति । किं भवेत्तदा ? क्षणार्धेनेव स दुःखितो भवति । आनन्दः सुखं चाऽपि दुःखरूपेण परिवर्तितं भवति । एवं देव-देवीनां बह्वीभिः प्रार्थनाभिः पुत्रोऽवाप्तः । तत्पुत्रेण पत्न्या च सह पूर्णिमाचन्द्रोदये जाते सति सप्तभूमिके प्रासादे क्रीडते स्म सः । सहसैव पुत्रस्य देहे व्याधिः प्रकटितः । आहूतै राजवैद्यैर्बहव उपचाराः कृताः किन्तु सर्वेऽपि निष्फला जाताः । न केऽपि पुत्रं रक्षितुं शक्ता जाताः । स पुत्रो यमराजस ऽतिथिर्जातः । एवमानन्दगृहमपि श्मशानगृहरूपेण परिवर्तितमभवत् । कुटुम्बे शोकः प्रसृतः : एवमेकस्यैव पुत्रस्याऽभ्यासार्थं रूप्यकाणां कोटिळयिता । रूपवत्या सुशीलया च कन्यया सह विवाहः सञ्जातः । दुर्भाग्याद् द्वितीये मासे एव मातृ-पितृभिः सह क्लेशो जातः । ततस्तृतीये मासे तु पत्न्या सह पुत्रोऽन्यगृहे वस्तुं गतवान् । पिताऽऽक्रन्दते, व्याकुलिता माता चाऽपि रोदिति । चेतन ! तयोः पित्रोः का स्थितिर्भवेत् ? इयमेव संसारस्य वास्तविकताऽस्ति । संसारे कस्यचिदपीप्सितं न भूतं, न भवति, न च भविष्यति, किन्तु मोहराजो यत् कारयति तदेव भवति । वयं सर्वेऽपि मोहराजस्य किङ्कररूपा एव स्मः । ऋषिमुनयः साधकपुरुषाश्चाऽपि मोहाधीनाः किं न जाताः ? यदि तेषामपीदृशी गतिः सञ्जाता तर्हि किं भवेदस्माकम् ? तथाऽप्येतत्तु निश्चितं ज्ञेयं यद् मोहस्य पराजयो नाऽशक्यः । भो ! मोक्षमार्गो विद्यते, तीर्थकरा जाताः, अनेके जीवाः सिद्धिगति च जग्मुः । एतदेव प्रमाणीकरोति यद्, मोहराजं विजेतुं पुरुषार्थं कुर्यास्तहि स पुरुषार्थः सफलीभवेदेवेति । बन्धो ! विगते पत्रे इच्छाविषयिकी चर्चा कृताऽऽसीत् । इच्छाऽनन्ताऽस्ति । सा न कदाऽपि पूर्णीभविष्यति । वयं सर्वेऽभिलाषायाः शरणीभूता एव स्मः । अशुभेच्छैव न दुष्टा अपि तु शुभेच्छाऽपि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy