________________
नीरोगिताया रहस्यम्
आस्वादः
मुनिकल्याणकीर्तिविजयः
ऐसवीये द्वादशे शतके हारितनामक आयुर्वेदाचार्यो बभूव येन हारितसंहितेत्यभिधानो ग्रन्थो लिखितोऽस्ति । अयं ग्रन्थस्तेन स्वजीवने कृतस्याऽविरतस्याऽऽयुर्वेदाभ्यासस्य चिरकालं च प्राप्तस्य चिकित्सानुभवस्य नि:ष्यन्दस्वरूपोऽस्ति ।
ग्रन्थेऽस्मिन् तेन प्रतिपादितमस्ति तेन यन्मनुष्यस्य ये रोगा जायन्ते तेषां भूयांसो रोगा तेन कृतानां विविधानां दुष्कृत्यानां पापकर्मणा वा कारणाज्जायन्ते । दुष्कृत्यं पापकर्म वा कुर्वतो मनुष्यस्य चित्तवृत्तिषु निश्चितं परिवर्तनं जायतेऽथवैवमपि वक्तुं शक्यं यत् प्रथमं तु मनुष्यस्य चित्तवृत्तावेव दुष्कृत्यकरणमारभ्यते, तदनन्तरमेव तद् दुष्कृत्यं बहिराविर्भवति । यद्यपि मनुष्यः स्वस्यं दुष्कृत्यस्य जनमध्ये त्वस्तु स्वमनस्यपि प्रतिषेधनं करोति, तद् यथार्थमेवाऽस्ति कालोचितमेव वाऽस्ति - इत्यादि स्वयमपि विचारयति जनानां मध्येऽपि च प्रमाणीकर्तुं प्रयतते । एवं सत्यपि तस्याऽन्तःकरणे यो दुर्भाव उत्पन्नः स तस्य वैचारिकभूमिकां रुधिराभिसरणं च दूषयत्येव । तदनु यथाकालं शरीरस्यैकस्मिन् नियते भागे तद् दूषितं बीजं दुष्कृत्यतीव्रतानुसारं येन केनचिद् रूपेण प्रकटीभवति । यदा च तत् प्रकटीभवति तदा वयं - रोगो जात इति कथयामः ।
उदाहरणार्थ, हारित एवं कथयति - यो जनः प्रतिवाक्यं वारं वारं वाऽपशब्दान् गालिशब्दान् वा प्रयुङ्क्ते तस्य शरीरे पिटकानां व्रणानां वोत्पत्तेः सम्भावनाऽधिका भवतीति । एवंरीत्या तेन प्रायः प्रत्येकं दुष्कर्मणो रोगस्य च तेनाऽनुसन्धानं कृतमस्ति । स कथयति यद् - यं कमपि विचारं भावं संवेदनं वा मनुष्यः सातत्येन स्वचित्ते भावयति तत्प्रभावस्तस्य देहे वाचि कर्मसु चाऽनुभूयत एव । यतस्तत्तद्भावस्य प्राबल्येन देहे नियतानि रासायणिकसंयोजनानि जायन्ते, तेषां च संयोजनानां कारणतरे मनुष्यस्य शरीरं तदनुरूपं भवति, वागपि तादृश्येव जायते, कर्माण्यपि तदनुरूपाण्येव करोति सः । ___ यस्य मनसि सदैव क्रोधस्य द्वैषस्य वैरस्य वा भावः प्राबल्येन संवेद्यते तस्य मुखरेखा: यादृश्यो भवन्ति ततो यस्य मनसि प्रेम कारुण्यं सत्यं धर्मो साम्यमित्यादयो भावाः संवेद्यन्ते तस्य मुखरेखाः सर्वथा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org