SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अमेरिकीयसंशोधकैस्त्वितोऽपि कांश्चन प्रयोगान् कृत्वा पक्षिणामेतेषां स्मृतिशक्तिः परीक्षिता । तैर्हि समतलभूमौ चतसृषु दिक्षु पी.वी.सी.द्रव्यस्य चतुरः खण्डान् निखाय तन्मध्यभागे इतस्ततः कानिचन काष्ठफलानि निखातानि तदुपरि च मृत्तिका विकीर्णा । ततो बुभुक्षितो नटक्रेकरपक्षी तत्राऽऽनायितः । तेन च तत्क्षणमेव स्थलविशेष खात्वा कवचयुक्तं फलं निष्कासितम् । इदमेव स्थलं तेन किमर्थं चितमिति संशोधका निर्णेतुं नैवाऽपारयन् । किन्तु तैः पी.वी.सी.खण्डानां स्थानं परावृत्य प्रयोगः पुनरावर्तितः । तत्राऽपि यदा पक्षिणा स्थलविशेषे एव खात्वा फलं निष्कासितं तदा संशोधकर्जातं यत् पी.वी.सी.खण्डान् योजयन्त्यौ कल्पिते रेखे यत्र परस्परं छिनत्तः स्म तत् स्थानं नटक्रेकरपक्षिणोऽभीष्टमासीत् । तर्कमिमं प्रमाणयितुं तैः पुनरपि पी.वी.सी.खण्डानां स्थानं परावर्त्य पक्षिसमक्षं कावचिकफलानां राशिरेवोपस्थापितः । पक्षिणा च ते एव कल्पिते रेखे यत्र परस्परं छिनत्तः स्म तत्रैव निखाय त्रि-चतुराणि फलानि स्थापितानि । एतैः प्रयोगैः पक्ष्ययं स्वस्थापितनिधानं कथमिवागन्विषतीति तु ज्ञातं स्फुटतया, किन्तु तेनाऽन्यः प्रश्नोऽयमुपस्थापितो यन्निधानतया सहस्रशाः फलानां स्थापनानन्तरं कस्मिन् स्थले कैर्वा भौगोलिकचिद्वैस्तानि स्थापितानीत्यादेर्बोधस्य सङ्ग्रहार्थं काले च तदुद्बोधनार्थं प्रचुरा चिरकालिकी तीक्ष्णा च स्मरणक्षमताऽऽवश्यकी. सा कथमस्मिन लघौ पक्षिणि चकास्ति ? - इति । संशोधकैरनुमितं समाधानं त्वेवमस्ति - नटक्रेकरपक्षिणो मस्तिष्के, चिरकालीनस्मृतेः सङ्ग्रहार्थमुपयुज्यमानं, 'हिपोकेम्पस'नामकमङ्गमधिकतया विकसितमस्ति, ततश्च तस्य स्मृतिस्तीक्ष्णा सूक्ष्मग्राहिणी चाऽस्ति । तस्याश्च कारणादसौ पक्षी फलदौर्लभ्यपरीतं शीतकालं निर्विघ्नतया यापयित्वा स्वीयमस्तित्वं रक्षति । अतः स्मृतेस्तीक्ष्णत्वं चिरकालीनत्वं प्राचुर्यमित्यादयः सर्वेऽपि गुणास्तदस्तित्वरक्षणे (Survival) एव पर्यवस्यन्ति । एवमेवाऽऽफ्रिकीयवनखण्डेषु द्विशताधिकवनस्पतीनामुपयोगं कुर्वाणस्य चिम्पान्झीवानरस्य तीव्रा स्मरणक्षमताऽपि स्वास्तित्वरक्षणार्थमेव, यतः कतमो वनस्पतिः किं प्रयोजनः किंगुणश्चेति सर्वं वानरो जानाति काले च स्मरत्यपि । तथैव भ्रमर्यपि स्वबिलादाहारार्थं बहिः प्रयाति तदा पुनरागमनार्थं भौगोलिकचिह्नानामभिलेखं मस्तिष्के रचयत्येव । एतदपि स्वास्तित्वरक्षणार्थमेव । किं बहुना ? समग्रायाः पशुजातेः पक्षिजातेश्च स्मरणशक्तेरेकमेव प्रयोजनमस्ति स्वस्य स्वान्वयस्य चाऽस्तित्वस्य रक्षणम् (Survival) ! न किञ्चिदन्यत् !! (आधारः गूर्जरभाषीयं विज्ञानसामयिक सफारी) २७ For Personal and Private Use Only www.jainelibrary.org Jain Educationa International
SR No.521030
Book TitleNandanvan Kalpataru 2013 07 SrNo 30
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy